< इब्रिणः 3 >

1 हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।
Therefore, my Christian friends, you who, all alike, have received the call from heaven, fix your attention on Jesus, the apostle and high priest of our religion.
2 मूसा यद्वत् तस्य सर्व्वपरिवारमध्ये विश्वास्य आसीत्, तद्वत् अयमपि स्वनियोजकस्य समीपे विश्वास्यो भवति।
See how faithful he was to the God who appointed him, as Moses was in the whole house of God.
3 परिवाराच्च यद्वत् तत्स्थापयितुरधिकं गौरवं भवति तद्वत् मूससोऽयं बहुतरगौरवस्य योग्यो भवति।
He has been deemed worthy of far higher honor than Moses, just as the founder of the house is held in greater regard than the house itself.
4 एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव।
For every house has its founder, and the founder of the universe is God.
5 मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्योऽभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।
While the faithful service of Moses in the whole house of God was that of a servant, whose duty was to bear testimony to a message still to come,
6 वयं तु यदि विश्वासस्योत्साहं श्लाघनञ्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।
the faithfulness of Christ was that of a son set over the house of God. And we are his house – if only we retain, unshaken to the end, the courage and confidence inspired by our hope.
7 अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ।
Therefore, as the Holy Spirit says – ‘If today you hear God’s voice,
8 तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज्ञानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः।
harden not your hearts, as when Israel provoked me on the day when they tried my patience in the desert,
9 युष्माकं पितरस्तत्र मत्परीक्षाम् अकुर्व्वत। कुर्व्वद्भि र्मेऽनुसन्धानं तैरदृश्यन्त मत्क्रियाः। चत्वारिंशत्समा यावत् क्रुद्ध्वाहन्तु तदन्वये।
Where your ancestors tried my forbearance, and saw my mighty deeds for forty years.
10 अवादिषम् इमे लोका भ्रान्तान्तःकरणाः सदा। मामकीनानि वर्त्मानि परिजानन्ति नो इमे।
Therefore I was sorely vexed with that generation, and I said – “Their hearts are always straying; they have never learned my ways”;
11 इति हेतोरहं कोपात् शपथं कृतवान् इमं। प्रेवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम॥"
While in my wrath I swore – “They will never enter upon my rest.”’
12 हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।
Be careful, friends, that there is never found in anyone of you a wicked and faithless heart, shown by that person separating themselves from the living God.
13 किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये कोऽपि पापस्य वञ्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।
Rather encourage one another daily – while there is a today – to prevent anyone among you from being hardened by the deceitfulness of sin.
14 यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।
For we now all share in the Christ, if indeed we retain, unshaken to the end, the confidence that we had at the first.
15 अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्ह्याज्ञालङ्घनस्थाने युष्माभिस्तु कृतं यथा, तथा मा कुरुतेदानीं कठिनानि मनांसि व इति तेन यदुक्तं,
To use the words of scripture – ‘If today you hear God’s voice, harden not your hearts, as when Israel provoked me.’
16 तदनुसाराद् ये श्रुत्वा तस्य कथां न गृहीतवन्तस्ते के? किं मूससा मिसरदेशाद् आगताः सर्व्वे लोका नहि?
Who were they who heard God speak and yet provoked him? Were not they all those who left Egypt under the leadership of Moses?
17 केभ्यो वा स चत्वारिंशद्वर्षाणि यावद् अक्रुध्यत्? पापं कुर्व्वतां येषां कुणपाः प्रान्तरे ऽपतन् किं तेभ्यो नहि?
And with whom was it that God was sorely vexed for forty years? Was not it with those who had sinned, and who fell dead in the desert?
18 प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं ममेति शपथः केषां विरुद्धं तेनाकारि? किम् अविश्वासिनां विरुद्धं नहि?
And who were they to whom God swore that they should not enter upon his rest, if not those who had proved faithless?
19 अतस्ते तत् स्थानं प्रवेष्टुम् अविश्वासात् नाशक्नुवन् इति वयं वीक्षामहे।
We see, then, that they failed to enter upon it because of their want of faith.

< इब्रिणः 3 >