< प्रेरिताः 27 >

1 जलपथेनास्माकम् इतोलियादेशं प्रति यात्रायां निश्चितायां सत्यां ते यूलियनाम्नो महाराजस्य संघातान्तर्गतस्य सेनापतेः समीपे पौलं तदन्यान् कतिनयजनांश्च समार्पयन्।
到了将我们押送到意大利的时候,帝国团中一位名叫犹流的百夫长负责看管保罗和其他囚犯。
2 वयम् आद्रामुत्तीयं पोतमेकम् आरुह्य आशियादेशस्य तटसमीपेन यातुं मतिं कृत्वा लङ्गरम् उत्थाप्य पोतम् अमोचयाम; माकिदनियादेशस्थथिषलनीकीनिवास्यारिस्तार्खनामा कश्चिद् जनोऽस्माभिः सार्द्धम् आसीत्।
我们坐上一艘来自亚大米田的船,它将要开往亚西亚沿岸的海港。我们上船后就出发了,还有一人与我们同行:马其顿的帖撒罗尼迦人亚里达古。
3 परस्मिन् दिवसे ऽस्माभिः सीदोन्नगरे पोते लागिते तत्र यूलियः सेनापतिः पौलं प्रति सौजन्यं प्रदर्थ्य सान्त्वनार्थं बन्धुबान्धवान् उपयातुम् अनुजज्ञौ।
第二天我们在西顿短暂停留,犹流对保罗非常友好,允许他到岸上看朋友,接受他们的招待。
4 तस्मात् पोते मोचिते सति सम्मुखवायोः सम्भवाद् वयं कुप्रोपद्वीपस्य तीरसमीपेन गतवन्तः।
随后我们又从那里继续出发,因为是逆风,船便向塞浦路斯的背风地点驶去。
5 किलिकियायाः पाम्फूलियायाश्च समुद्रस्य पारं गत्वा लूकियादेशान्तर्गतं मुरानगरम् उपातिष्ठाम।
船只直接穿过基利家和旁非利亚一带的水域,抵达了吕家的每拉港。
6 तत्स्थानाद् इतालियादेशं गच्छति यः सिकन्दरियानगरस्य पोतस्तं तत्र प्राप्य शतसेनापतिस्तं पोतम् अस्मान् आरोहयत्।
在那里,百夫长找到一艘来自亚历山太,开往意大利的船只,于是安排我们上了这艘船。
7 ततः परं बहूनि दिनानि शनैः शनैः र्गत्वा क्नीदपार्श्वोपस्थ्तिेः पूर्व्वं प्रतिकूलेन पवनेन वयं सल्मोन्याः सम्मुखम् उपस्थाय क्रीत्युपद्वीपस्य तीरसमीपेन गतवन्तः।
但这艘船在随后的几天行驶得都很缓慢,好不容抵达革尼土对面的海域。因为逆风的缘故,船只无法继续前行,只能在撒摩尼附近背风穿过克里特的海域。
8 कष्टेन तमुत्तीर्य्य लासेयानगरस्याधः सुन्दरनामकं खातम् उपातिष्ठाम।
沿着海岸行驶的这段航程很困难,最终抵达了拉西亚城附近一个名叫美港的地方。
9 इत्थं बहुतिथः कालो यापित उपवासदिनञ्चातीतं, तत्कारणात् नौवर्त्मनि भयङ्करे सति पौलो विनयेन कथितवान्,
这段旅程已经浪费了不少时间,未来的航程也很危险,此时都已过了禁食节。保罗警告他们说:
10 हे महेच्छा अहं निश्चयं जानामि यात्रायामस्याम् अस्माकं क्लेशा बहूनामपचयाश्च भविष्यन्ति, ते केवलं पोतसामग्र्योरिति नहि, किन्त्वस्माकं प्राणानामपि।
“各位,我估计这次旅程会非常困难,而且会有损失,不只是货物和船只,连我们的性命也危在旦夕。”
11 तदा शतसेनापतिः पौैेलोक्तवाक्यतोपि कर्णधारस्य पोतवणिजश्च वाक्यं बहुमंस्त।
但百夫长更相信船长和船主的建议,把保罗的警告当耳旁风。
12 तत् खातं शीतकाले वासार्हस्थानं न तस्माद् अवाचीप्रतीचोर्दिशोः क्रीत्याः फैनीकियखातं यातुं यदि शक्नुवन्तस्तर्हि तत्र शीतकालं यापयितुं प्रायेण सर्व्वे मन्त्रयामासुः।
由于这个港口很小,无法在此过冬,所以大多数人主张继续航行,可以到非尼基去过冬——那是位于克里特的一个朝向西北和西南的港口。
13 ततः परं दक्षिणवायु र्मन्दं वहतीति विलोक्य निजाभिप्रायस्य सिद्धेः सुयोगो भवतीति बुद्ध्वा पोतं मोचयित्वा क्रीत्युपद्वीपस्य तीरसमीपेन चलितवन्तः।
这时海上开始刮起和缓的南风,他们认为可以按计划进行,于是就起锚沿着克里特海滩接近海岸的路线航行。
14 किन्त्वल्पक्षणात् परमेव उरक्लुदोन्नामा प्रतिकूलः प्रचण्डो वायु र्वहन् पोतेऽलगीत्
但很快,从陆地向海上刮起了一阵名为“东北风”的飓风。
15 तस्याभिमुखं गन्तुम् पोतस्याशक्तत्वाद् वयं वायुना स्वयं नीताः।
船只被困在海中,无法迎风前行,只好随风飘流。
16 अनन्तरं क्लौदीनाम्न उपद्वीपस्य कूलसमीपेन पोतं गमयित्वा बहुना कष्टेन क्षुद्रनावम् अरक्षाम।
最终我们来到一个名为高达的小岛,这里可以背风行驶。我们还花了很大力气将救生艇拉住。
17 ते तामारुह्य रज्ज्चा पोतस्याधोभागम् अबध्नन् तदनन्तरं चेत् पोतो सैकते लगतीति भयाद् वातवसनान्यमोचयन् ततः पोतो वायुना चालितः।
水手把小艇吊起来,用缆索绕在船身将其捆好。他们担心船会在赛耳底的浅滩搁浅,于是放下船帆,任其飘流。
18 किन्तु क्रमशो वायोः प्रबलत्वात् पोतो दोलायमानोऽभवत् परस्मिन् दिवसे पोतस्थानि कतिपयानि द्रव्याणि तोये निक्षिप्तानि।
船只在风浪中剧烈颠簸。第二天,船员们开始将货物拋在海里,
19 तृतीयदिवसे वयं स्वहस्तैः पोतसज्जनद्रव्याणि निक्षिप्तवन्तः।
第三天,他们又将船上的设备扔掉。
20 ततो बहुदिनानि यावत् सूर्य्यनक्षत्रादीनि समाच्छन्नानि ततो ऽतीव वात्यागमाद् अस्माकं प्राणरक्षायाः कापि प्रत्याशा नातिष्ठत्।
接连数天都看不见太阳或星辰,肆虐的暴风雨铺天盖地,看起来我们似乎没有一点生还的希望。
21 बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।
船上的人已经很久没有进食了。保罗站在他们面前,说:“各位,你们本该听我的,不要离开克里特,那样就可以避开这样的灾难和损失了。
22 किन्तु साम्प्रतं युष्मान् विनीय ब्रवीम्यहं, यूयं न क्षुभ्यत युष्माकम् एकस्यापि प्राणिनो हानि र्न भविष्यति, केवलस्य पोतस्य हानि र्भविष्यति।
但现在我想说的是,鼓起勇气,因为除了这艘船被毁,你们所有人都不会丢掉性命。
23 यतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्,
因为昨晚,我所侍奉的上帝派来天使站在我身边,对我说:
24 हे पौल मा भैषीः कैसरस्य सम्मुखे त्वयोपस्थातव्यं; तवैतान् सङ्गिनो लोकान् ईश्वरस्तुभ्यं दत्तवान्।
‘保罗,不要怕。你一定会站在凯撒面前接受审判。看,上帝慷慨地赐予你这些人,他们与你同船而行。’
25 अतएव हे महेच्छा यूयं स्थिरमनसो भवत मह्यं या कथाकथि सावश्यं घटिष्यते ममैतादृशी विश्वास ईश्वरे विद्यते,
所以各位,拿出勇气来。我相信上帝,我确信事情一定会像我说的那样。
26 किन्तु कस्यचिद् उपद्वीपस्योपरि पतितव्यम् अस्माभिः।
但是我们会在一个岛上失事。”
27 ततः परम् आद्रियासमुद्रे पोतस्तथैव दोलायमानः सन् इतस्ततो गच्छन् चतुर्दशदिवसस्य रात्रे र्द्वितीयप्रहरसमये कस्यचित् स्थलस्य समीपमुपतिष्ठतीति पोतीयलोका अन्वमन्यन्त।
到了第十四天的午夜,我们还在亚得里亚海面被风吹着。水手感觉这里应该距离陆地不远了。
28 ततस्ते जलं परिमाय तत्र विंशति र्व्यामा जलानीति ज्ञातवन्तः। किञ्चिद्दूरं गत्वा पुनरपि जलं परिमितवन्तः। तत्र पञ्चदश व्यामा जलानि दृष्ट्वा
于是他们探测了一下水深, 40 米,继续往前再探测, 30 米。
29 चेत् पाषाणे लगतीति भयात् पोतस्य पश्चाद्भागतश्चतुरो लङ्गरान् निक्षिप्य दिवाकरम् अपेक्ष्य सर्व्वे स्थितवन्तः।
他们怕船只可能会在乱石上搁浅,于是就从船尾拋下四个锚,祈祷天亮。
30 किन्तु पोतीयलोकाः पोताग्रभागे लङ्गरनिक्षेपं छलं कृत्वा जलधौ क्षुद्रनावम् अवरोह्य पलायितुम् अचेष्टन्त।
水手们想要弃船逃生,于是假装要从船头拋锚,其实是想把救生艇放在海面上。
31 ततः पौलः सेनापतये सैन्यगणाय च कथितवान्, एते यदि पोतमध्ये न तिष्ठन्ति तर्हि युष्माकं रक्षणं न शक्यं।
保罗对百夫长和士兵说:“水手如果不留在船上,你们必死无疑!”
32 तदा सेनागणो रज्जून् छित्वा नावं जले पतितुम् अददात्।
于是士兵砍断拴着救生艇的绳子,任它消失在海中。
33 प्रभातसमये पौलः सर्व्वान् जनान् भोजनार्थं प्रार्थ्य व्याहरत्, अद्य चतुर्दशदिनानि यावद् यूयम् अपेक्षमाना अनाहाराः कालम् अयापयत किमपि नाभुंग्धं।
天快亮的时候,保罗劝大家吃点东西。他说:“你们忧心忡忡地想着这件事,已经连续 14 天没有吃东西了!
34 अतो विनयेेऽहं भक्ष्यं भुज्यतां ततो युष्माकं मङ्गलं भविष्यति, युष्माकं कस्यचिज्जनस्य शिरसः केशैकोपि न नंक्ष्यति।
听我劝,吃点东西吧,这可以让你们有力气!因为你们所有人连一根头发都不会失去。”
35 इति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्।
保罗说完就拿起饼,在众人面前感谢上帝,然后把饼掰开吃。
36 अनन्तरं सर्व्वे च सुस्थिराः सन्तः खाद्यानि पर्प्यगृह्लन्।
众人受到鼓舞,也开始进食。
37 अस्माकं पोते षट्सप्तत्यधिकशतद्वयलोका आसन्।
我们这艘船上的共有 276 人,
38 सर्व्वेषु लोकेषु यथेष्टं भुक्तवत्सु पोतस्थन् गोधूमान् जलधौ निक्षिप्य तैः पोतस्य भारो लघूकृतः।
大家吃饱后,为了减轻船只的负荷,水手把船上的麦子拋在海里。
39 दिने जातेऽपि स को देश इति तदा न पर्य्यचीयत; किन्तु तत्र समतटम् एकं खातं दृष्ट्वा यदि शक्नुमस्तर्हि वयं तस्याभ्यन्तरं पोतं गमयाम इति मतिं कृत्वा ते लङ्गरान् छित्त्वा जलधौ त्यक्तवन्तः।
黎明时分,他们来到一个不知名的海岸线,只看见一个海湾和一片海滩。他们计划在那里尝试将船搁浅。
40 तथा कर्णबन्धनं मोचयित्वा प्रधानं वातवसनम् उत्तोल्य तीरसमीपं गतवन्तः।
他们砍断拴着锚的绳子,将锚丢在海里,同时又松开舵绳,拉起前帆,顺着风向那片海滩驶去。
41 किन्तु द्वयोः समुद्रयोः सङ्गमस्थाने सैकतोपरि पोते निक्षिप्ते ऽग्रभागे बाधिते पश्चाद्भागे प्रबलतरङ्गोऽलगत् तेन पोतो भग्नः।
但船还是卡在了沙洲处,船搁浅了,船头卡在沙滩上,一动不动。船尾则被大浪冲击,撞得粉碎。
42 तस्माद् बन्दयश्चेद् बाहुभिस्तरन्तः पलायन्ते इत्याशङ्कया सेनागणस्तान् हन्तुम् अमन्त्रयत्;
士兵想要杀了所有囚犯,防止有人游泳逃脱。
43 किन्तु शतसेनापतिः पौलं रक्षितुं प्रयत्नं कृत्वा तान् तच्चेष्टाया निवर्त्य इत्यादिष्टवान्, ये बाहुतरणं जानन्ति तेऽग्रे प्रोल्लम्प्य समुद्रे पतित्वा बाहुभिस्तीर्त्त्वा कूलं यान्तु।
但百夫长想要救保罗,就制止了他们的这个念头,吩咐会游泳的跳下水,先到岸上去,
44 अपरम् अवशिष्टा जनाः काष्ठं पोतीयं द्रव्यं वा येन यत् प्राप्यते तदवलम्ब्य यान्तु; इत्थं सर्व्वे भूमिं प्राप्य प्राणै र्जीविताः।
其余的人可以借助木板或船上的设备上岸。最终,所有人都安全登陆。

< प्रेरिताः 27 >