< २ तीमथियः 1 >
1 ख्रीष्टेन यीशुना या जीवनस्य प्रतिज्ञा तामधीश्वरस्येच्छया यीशोः ख्रीष्टस्यैकः प्रेरितः पौलोऽहं स्वकीयं प्रियं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखामि।
本信函来自保罗,是上帝所选、耶稣基督的使徒。这封信函是为了讲述在基督耶稣的真正生命中所讲述的承诺。
2 तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि प्रसादं दयां शान्तिञ्च क्रियास्तां।
这封信写给我亲爱的儿子提摩太,愿你们拥有来自父上帝和我们主基督耶稣的恩惠、怜悯和平安。
3 अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।
我如此感谢上帝,就像我的祖先一样,以干净的良心事奉他。我始终都在想着你,在祈祷中提到你。
4 यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये
我记得你哭泣的样子,就更渴望见你,这会让我真正的感到幸福。
5 तव तं निष्कपटं विश्वासं मनसि कुर्व्वन् तवाश्रुपातं स्मरन् यथानन्देन प्रफल्लो भवेयं तदर्थं तव दर्शनम् आकाङ्क्षे।
我记得你对上帝真诚的信,你外祖母罗以和你母亲友尼基也有着同样的信,我知道这信也会在你心中延续。
6 अतो हेतो र्मम हस्तार्पणेन लब्धो य ईश्वरस्य वरस्त्वयि विद्यते तम् उज्ज्वालयितुं त्वां स्मारयामि।
因此我想要提醒你,那时候我对你按手,你要把上帝借此赠给你的恩典礼物,赋予更多的力量。
7 यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
因为上帝赐给我们的不是让我们胆怯的灵,而是有能力、爱心和理智的灵。
8 अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।
所以,不要因向其他人讲述我们的主而感到羞愧,也不要因为我而感到羞愧。你要准备好为福音而受磨难,因为上帝给了你力量。
9 सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि, (aiōnios )
他拯救了我们,呼唤我们过圣洁的生活,但不是通过我们的所作所为,而是通过上帝自己的计划,通过他的恩典。 (aiōnios )
10 किन्त्वधुनास्माकं परित्रातु र्यीशोः ख्रीष्टस्यागमनेन प्राकाशत। ख्रीष्टो मृत्युं पराजितवान् सुसंवादेन च जीवनम् अमरताञ्च प्रकाशितवान्।
早在开天辟地之时,他就通过基督耶稣将这恩典赐予我们,但直到现在才通过我们救世主基督耶稣的出现而显化。通过福音,他摧毁死亡,通过福音让生命和不朽变得无比清晰。
11 तस्य घोषयिता दूतश्चान्यजातीयानां शिक्षकश्चाहं नियुक्तोऽस्मि।
我是指派讲作为这福音的讲述者、使徒和教师。
12 तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।
我也因此而受到这些苦,但我不以为耻,因为我知道所信是谁,也深信他能呵护我对他的托付,直到他再来的那一天。
13 हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय।
你从我这里学到好的建议,以之为模范予以效仿,心怀信任和爱耶稣基督的态度。
14 अपरम् अस्मदन्तर्वासिना पवित्रेणात्मना तामुत्तमाम् उपनिधिं गोपय।
你应通过住在我们心中的圣灵,保护托付给你的真理。
15 आशियादेशीयाः सर्व्वे मां त्यक्तवन्त इति त्वं जानासि तेषां मध्ये फूगिल्लो हर्म्मगिनिश्च विद्येते।
你已知道,所有亚西亚人都背弃了我,包括腓吉路和黑摩其尼。
16 प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान्
愿主怜悯阿尼色弗一家,因为他多次照顾我,也不因我关入监牢而为耻;
17 मम शृङ्खलेन न त्रपित्वा रोमानगरे उपस्थितिसमये यत्नेन मां मृगयित्वा ममोद्देशं प्राप्तवान्।
他在罗马时,排除万难寻找我,最终找到了。
18 अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि।
愿主在审判日为他赐福。(提摩太,你很清楚在以弗所时,他为我做了很多)。