< १ तीमथियः 1 >

1 अस्माकं त्राणकर्त्तुरीश्वरस्यास्माकं प्रत्याशाभूमेः प्रभो र्यीशुख्रीष्टस्य चाज्ञानुसारतो यीशुख्रीष्टस्य प्रेरितः पौलः स्वकीयं सत्यं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखति।
这封信来自保罗,我是耶稣基督以救世主上帝和我们的希望耶稣基督之权威,指定的使徒。
2 अस्माकं तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि अनुग्रहं दयां शान्तिञ्च कुर्य्यास्तां।
本信函写给我们真正的儿子提摩太,因为你们相信上帝。愿你们拥有来自父上帝和我们主基督耶稣的恩惠、怜悯和平安。
3 माकिदनियादेशे मम गमनकाले त्वम् इफिषनगरे तिष्ठन् इतरशिक्षा न ग्रहीतव्या, अनन्तेषूपाख्यानेषु वंशावलिषु च युष्माभि र्मनो न निवेशितव्यम्
我在去马其顿的路上,曾劝你留在以弗所,这样就可以嘱咐某些人不要宣讲错误想法。
4 इति कांश्चित् लोकान् यद् उपदिशेरेतत् मयादिष्टोऽभवः, यतः सर्व्वैरेतै र्विश्वासयुक्तेश्वरीयनिष्ठा न जायते किन्तु विवादो जायते।
也不要关心没有凭据的传说和无穷尽的家谱;这种事情只会引起争论,不会帮助我们理解我们所相信的上帝。
5 उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।
我之所以坚持这一点,是因为这样我们可能会获得来自纯粹心灵的爱,来自干净良心和对上帝真诚的信。
6 केचित् जनाश्च सर्व्वाण्येतानि विहाय निरर्थककथानाम् अनुगमनेन विपथगामिनोऽभवन्,
有些人偏离了这些事情,并最终开始胡说八道
7 यद् भाषन्ते यच्च निश्चिन्वन्ति तन्न बुध्यमाना व्यवस्थोपदेष्टारो भवितुम् इच्छन्ति।
他们野心勃勃地想要做律法教师,却不明白自己讲的是什么,大肆宣扬的又是什么。
8 सा व्यवस्था यदि योग्यरूपेण गृह्यते तर्ह्युत्तमा भवतीति वयं जानीमः।
现在我们意识到,律法只要正确使用就是好的。
9 अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता
我们也知道律法本来不是为良善正直的好人而设,而是为那些无法无天、忽视法律的人而设。它适用于那些不需要上帝、不虔诚、从不圣洁形式、完全不虔诚的人。它适用于那些弑父杀母的人、杀人犯、
10 वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा,
淫乱的、亲男色的、拐带人口的、说谎的、做假见证的,以及反对正道的人。
11 तथा सच्चिदानन्देश्वरस्य यो विभवयुक्तः सुसंवादो मयि समर्पितस्तदनुयायिहितोपदेशस्य विपरीतं यत् किञ्चिद् भवति तद्विरुद्धा सा व्यवस्थेति तद्ग्राहिणा ज्ञातव्यं।
我们所称颂的上帝委托我宣讲的荣耀福音,决定了这一切。
12 मह्यं शक्तिदाता योऽस्माकं प्रभुः ख्रीष्टयीशुस्तमहं धन्यं वदामि।
我感谢赐我力量、我们的主基督耶稣,因为他认为我有值得信赖,派我服侍他。
13 यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं।
尽管我曾经亵渎上帝,迫害和虐待上帝的子民,但上帝仍然怜悯于我,因为我是在无知和不信的情况下才那样做。
14 अपरं ख्रीष्टे यीशौ विश्वासप्रेमभ्यां सहितोऽस्मत्प्रभोरनुग्रहो ऽतीव प्रचुरोऽभत्।
我们主的恩典充满我的身体,随着基督耶稣里给我的信心和爱,这恩典满溢出来。
15 पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च।
你应该相信、所有人都应该接纳一句话。“基督耶稣降临世间,为了拯救罪人。”我就是其中最大的罪人。
16 तेषां पापिनां मध्येऽहं प्रथम आसं किन्तु ये मानवा अनन्तजीवनप्राप्त्यर्थं तस्मिन् विश्वसिष्यन्ति तेषां दृष्टान्ते मयि प्रथमे यीशुना ख्रीष्टेन स्वकीया कृत्स्ना चिरसहिष्णुता यत् प्रकाश्यते तदर्थमेवाहम् अनुकम्पां प्राप्तवान्। (aiōnios g166)
因为这个缘故,我蒙受怜悯, 让基督耶稣在我这最大罪人的身上,显示他无尽的耐心,为后来信他得永生的人作榜样。 (aiōnios g166)
17 अनादिरक्षयोऽदृश्यो राजा योऽद्वितीयः सर्व्वज्ञ ईश्वरस्तस्य गौरवं महिमा चानन्तकालं यावद् भूयात्। आमेन्। (aiōn g165)
愿万世君王、不朽无形的唯一上帝,永远拥有尊贵荣耀。阿门。 (aiōn g165)
18 हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि
提摩太,我的儿子,这些是我想给你的指示,遵循那些让你走到现在的预言,这样你就能为良善而战斗。
19 विश्वासं सत्संवेदञ्च धारयसि च। अनयोः परित्यागात् केषाञ्चिद् विश्वासतरी भग्नाभवत्।
常保对上帝的信,要有干净的良心。有些人拒绝这样做,他们对上帝的信就彻底破坏了。
20 हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ।
许米乃和亚历山大就是这样的人,我已经“把他们交给撒旦”,让他们学会不要亵渎上帝。

< १ तीमथियः 1 >