< २ करिन्थिनः 2 >
1 अपरञ्चाहं पुनः शोकाय युष्मत्सन्निधिं न गमिष्यामीति मनसि निरचैषं।
And Y ordeynede this ilke thing at me, that Y schulde not come eftsoone in heuynes to you.
2 यस्माद् अहं यदि युष्मान् शोकयुक्तान् करोमि तर्हि मया यः शोकयुक्तीकृतस्तं विना केनापरेणाहं हर्षयिष्ये?
For if Y make you sori, who is he that gladith me, but he that is soreuful of me?
3 मम यो हर्षः स युष्माकं सर्व्वेषां हर्ष एवेति निश्चितं मयाबोधि; अतएव यैरहं हर्षयितव्यस्तै र्मदुपस्थितिसमये यन्मम शोको न जायेत तदर्थमेव युष्मभ्यम् एतादृशं पत्रं मया लिखितं।
And this same thing Y wroot to you, that whanne Y come, Y haue not sorewe on sorewe, of the whiche it behofte me to haue ioie. And Y triste in you alle, that my ioye is of alle you.
4 वस्तुतस्तु बहुक्लेशस्य मनःपीडायाश्च समयेऽहं बह्वश्रुपातेन पत्रमेकं लिखितवान् युष्माकं शोकार्थं तन्नहि किन्तु युष्मासु मदीयप्रेमबाहुल्यस्य ज्ञापनार्थं।
For of myche tribulacioun and angwisch of herte Y wroot to you by many teeris, not that ye be sori, but that ye wite what charite Y haue more plenteuously in you.
5 येनाहं शोकयुक्तीकृतस्तेन केवलमहं शोकयुक्तीकृतस्तन्नहि किन्त्वंशतो यूयं सर्व्वेऽपि यतोऽहमत्र कस्मिंश्चिद् दोषमारोपयितुं नेच्छामि।
For if ony man hath maad me soreuful, he hath not maad me sorewful but a parti, that Y charge not you alle.
6 बहूनां यत् तर्ज्जनं तेन जनेनालम्भि तत् तदर्थं प्रचुरं।
This blamyng that ys maad of manye, suffisith to hym, that is sich oon;
7 अतः स दुःखसागरे यन्न निमज्जति तदर्थं युष्माभिः स क्षन्तव्यः सान्त्वयितव्यश्च।
so that ayenward ye rathir foryyuen and coumfort, lest perauenture he that is suche a maner man, be sopun vp bi more grete heuynesse.
8 इति हेतोः प्रर्थयेऽहं युष्माभिस्तस्मिन् दया क्रियतां।
For which thing Y biseche you, that ye conferme charite in to hym.
9 यूयं सर्व्वकर्म्मणि ममादेशं गृह्लीथ न वेति परीक्षितुम् अहं युष्मान् प्रति लिखितवान्।
For whi therfor Y wroot this, that Y knowe youre preuyng, whether in alle thingis ye ben obedient.
10 यस्य यो दोषो युष्माभिः क्षम्यते तस्य स दोषो मयापि क्षम्यते यश्च दोषो मया क्षम्यते स युष्माकं कृते ख्रीष्टस्य साक्षात् क्षम्यते।
For to whom ye han foryyuen ony thing, also Y haue foryyue. For Y that that Y foryaf, yif Y foryaf ony thing, haue youun for you in the persone of Crist,
11 शयतानः कल्पनास्माभिरज्ञाता नहि, अतो वयं यत् तेन न वञ्च्यामहे तदर्थम् अस्माभिः सावधानै र्भवितव्यं।
that we be not disseyued of Sathanas; for we knowen hise thouytis.
12 अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते
But whanne Y was comun to Troade for the gospel of Crist, and a dore was opened to me in the Lord,
13 सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।
Y hadde not rest to my spirit, for Y foond not my brother Tite, but Y seide to hem farewel, and Y passide in to Macedonye.
14 य ईश्वरः सर्व्वदा ख्रीष्टेनास्मान् जयिनः करोति सर्व्वत्र चास्माभिस्तदीयज्ञानस्य गन्धं प्रकाशयति स धन्यः।
And Y do thankyngis to God, that euere more makith vs to haue victorie in Crist Jhesu, and schewith bi vs the odour of his knowing in ech place;
15 यस्माद् ये त्राणं लप्स्यन्ते ये च विनाशं गमिष्यन्ति तान् प्रति वयम् ईश्वरेण ख्रीष्टस्य सौगन्ध्यं भवामः।
for we ben the good odour of Crist to God, among these that ben maad saaf, and among these that perischen.
16 वयम् एकेषां मृत्यवे मृत्युगन्धा अपरेषाञ्च जीवनाय जीवनगन्धा भवामः, किन्त्वेतादृशकर्म्मसाधने कः समर्थोऽस्ति?
To othere sotheli odour of deth in to deth, but to othere we ben odour of lijf in to lijf. And to these thingis who is so able?
17 अन्ये बहवो लोका यद्वद् ईश्वरस्य वाक्यं मृषाशिक्षया मिश्रयन्ति वयं तद्वत् तन्न मिश्रयन्तः सरलभावेनेश्वरस्य साक्षाद् ईश्वरस्यादेशात् ख्रीष्टेन कथां भाषामहे।
For we ben not as many, that don auoutrie bi the word of God, but we speken of clennesse, as of God, bifor God in Crist.