< गालातिनः 1 >

1 मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं
Poul the apostle, not of men, ne bi man, but bi Jhesu Crist, and God the fadir,
2 मत्सहवर्त्तिनो भ्रातरश्च वयं गालातीयदेशस्थाः समितीः प्रति पत्रं लिखामः।
that reiside hym fro deth, and alle the britheren that ben with me, to the chirchis of Galathie,
3 पित्रेश्वरेणास्मांक प्रभुना यीशुना ख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च दीयतां।
grace to you and pees of God the fadir, and of the Lord Jhesu Crist,
4 अस्माकं तातेश्वरेस्येच्छानुसारेण वर्त्तमानात् कुत्सितसंसाराद् अस्मान् निस्तारयितुं यो (aiōn g165)
that yaf hym silf for oure synnes, to delyuere vs fro the present wickid world, bi the wille of God and of oure fadir, (aiōn g165)
5 यीशुरस्माकं पापहेतोरात्मोत्सर्गं कृतवान् स सर्व्वदा धन्यो भूयात्। तथास्तु। (aiōn g165)
to whom is worschip and glorie in to worldis of worldis. Amen. (aiōn g165)
6 ख्रीष्टस्यानुग्रहेण यो युष्मान् आहूतवान् तस्मान्निवृत्य यूयम् अतितूर्णम् अन्यं सुसंवादम् अन्ववर्त्तत तत्राहं विस्मयं मन्ये।
I wondur, that so soone ye be thus moued fro hym that clepid you in to the grace of Crist, in to another euangelie; which is not anothir,
7 सोऽन्यसुसंवादः सुसंवादो नहि किन्तु केचित् मानवा युष्मान् चञ्चलीकुर्व्वन्ति ख्रीष्टीयसुसंवादस्य विपर्य्ययं कर्त्तुं चेष्टन्ते च।
but that ther ben summe that troublen you, and wolen mysturne the euangelie of Crist.
8 युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु।
But thouy we, or an aungel of heuene, prechide to you, bisidis that that we han prechid to you, be he acursid.
9 पूर्व्वं यद्वद् अकथयाम, इदानीमहं पुनस्तद्वत् कथयामि यूयं यं सुसंवादं गृहीतवन्तस्तस्माद् अन्यो येन केनचिद् युष्मत्सन्निधौ घोष्यते स शप्तो भवतु।
As Y haue seid bifore, and now eftsoones Y seie, if ony preche to you bisidis that that ye han vndurfongun, be he cursid.
10 साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।
For now whether counsele Y men, or God? or whether Y seche to plese men? If Y pleside yit men, Y were not Cristis seruaunt.
11 हे भ्रातरः, मया यः सुसंवादो घोषितः स मानुषान्न लब्धस्तदहं युष्मान् ज्ञापयामि।
For, britheren, Y make knowun to you the euangelie, that was prechid of me, for it is not bi man;
12 अहं कस्माच्चित् मनुष्यात् तं न गृहीतवान् न वा शिक्षितवान् केवलं यीशोः ख्रीष्टस्य प्रकाशनादेव।
ne Y took it of man, ne lernyde, but bi reuelacioun of Jhesu Crist.
13 पुरा यिहूदिमताचारी यदाहम् आसं तदा यादृशम् आचरणम् अकरवम् ईश्वरस्य समितिं प्रत्यतीवोपद्रवं कुर्व्वन् यादृक् तां व्यनाशयं तदवश्यं श्रुतं युष्माभिः।
For ye han herd my conuersacioun sumtyme in the Jurie, and that Y pursuede passyngli the chirche of God, and fauyt ayen it.
14 अपरञ्च पूर्व्वपुरुषपरम्परागतेषु वाक्येष्वन्यापेक्षातीवासक्तः सन् अहं यिहूदिधर्म्मते मम समवयस्कान् बहून् स्वजातीयान् अत्यशयि।
And Y profitide in the Jurie aboue many of myn eueneldis in my kynrede, and was more aboundauntli a folewere of my fadris tradiciouns.
15 किञ्च य ईश्वरो मातृगर्भस्थं मां पृथक् कृत्वा स्वीयानुग्रहेणाहूतवान्
But whanne it pleside hym, that departide me fro my modir wombe,
16 स यदा मयि स्वपुत्रं प्रकाशितुं भिन्नदेशीयानां समीपे भया तं घोषयितुञ्चाभ्यलषत् तदाहं क्रव्यशोणिताभ्यां सह न मन्त्रयित्वा
and clepide bi his grace, to schewe his sone in me, that Y schulde preche hym among the hethene, anoon Y drowy me not to fleisch and blood; ne Y cam to Jerusalem to the apostlis,
17 पूर्व्वनियुक्तानां प्रेरितानां समीपं यिरूशालमं न गत्वारवदेशं गतवान् पश्चात् तत्स्थानाद् दम्मेषकनगरं परावृत्यागतवान्।
that weren tofor me, but Y wente in to Arabie, and eftsoones Y turnede ayen in to Damask.
18 ततः परं वर्षत्रये व्यतीतेऽहं पितरं सम्भाषितुं यिरूशालमं गत्वा पञ्चदशदिनानि तेन सार्द्धम् अतिष्ठं।
And sith thre yeer aftir Y cam to Jerusalem, to se Petre, and Y dwellide with hym fiftene daies;
19 किन्तु तं प्रभो र्भ्रातरं याकूबञ्च विना प्रेरितानां नान्यं कमप्यपश्यं।
but Y sawy noon othere of the apostlis, but James, oure Lordis brother.
20 यान्येतानि वाक्यानि मया लिख्यन्ते तान्यनृतानि न सन्ति तद् ईश्वरो जानाति।
And these thingis which Y write to you, lo! tofor God Y lie not.
21 ततः परम् अहं सुरियां किलिकियाञ्च देशौ गतवान्।
Afterward Y cam in to the coostis of Syrie and Cilicie.
22 तदानीं यिहूदादेशस्थानां ख्रीष्टस्य समितीनां लोकाः साक्षात् मम परिचयमप्राप्य केवलं जनश्रुतिमिमां लब्धवन्तः,
But Y was vnknowun bi face to the chirchis of Judee, that weren in Crist; and thei hadden oonli an heryng,
23 यो जनः पूर्व्वम् अस्मान् प्रत्युपद्रवमकरोत् स तदा यं धर्म्ममनाशयत् तमेवेदानीं प्रचारयतीति।
that he that pursuede vs sum tyme, prechide now the feith, ayens which he fauyte sum tyme;
24 तस्मात् ते मामधीश्वरं धन्यमवदन्।
and in me thei glorifieden God.

< गालातिनः 1 >