< ཕིལིཔིནཿ 1 >

1 པཽལཏཱིམཐིནཱམཱནཽ ཡཱིཤུཁྲཱིཥྚསྱ དཱསཽ ཕིལིཔིནགརསྠཱན྄ ཁྲཱིཥྚཡཱིཤོཿ སཪྻྭཱན྄ པཝིཏྲལོཀཱན྄ སམིཏེརདྷྱཀྵཱན྄ པརིཙཱརཀཱཾཤྩ པྲཏི པཏྲཾ ལིཁཏཿ།
पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।
2 ཨསྨཱཀཾ ཏཱཏ ཨཱིཤྭརཿ པྲབྷུ ཪྻཱིཤུཁྲཱིཥྚཤྩ ཡུཥྨབྷྱཾ པྲསཱདསྱ ཤཱནྟེཤྩ བྷོགཾ དེཡཱསྟཱཾ།
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मभ्यं प्रसादस्य शान्तेश्च भोगं देयास्तां।
3 ཨཧཾ ནིརནྟརཾ ནིཛསཪྻྭཔྲཱརྠནཱསུ ཡུཥྨཱཀཾ སཪྻྭེཥཱཾ ཀྲྀཏེ སཱནནྡཾ པྲཱརྠནཱཾ ཀུཪྻྭན྄
अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्
4 ཡཏི ཝཱརཱན྄ ཡུཥྨཱཀཾ སྨརཱམི ཏཏི ཝཱརཱན྄ ཨཱ པྲཐམཱད྄ ཨདྱ ཡཱཝད྄
यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्
5 ཡུཥྨཱཀཾ སུསཾཝཱདབྷཱགིཏྭཀཱརཎཱད྄ ཨཱིཤྭརཾ དྷནྱཾ ཝདཱམི།
युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।
6 ཡུཥྨནྨདྷྱེ ཡེནོཏྟམཾ ཀརྨྨ ཀརྟྟུམ྄ ཨཱརམྦྷི ཏེནཻཝ ཡཱིཤུཁྲཱིཥྚསྱ དིནཾ ཡཱཝཏ྄ ཏཏ྄ སཱདྷཡིཥྱཏ ཨིཏྱསྨིན྄ དྲྀཌྷཝིཤྭཱསོ མམཱསྟེ།
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
7 ཡུཥྨཱན྄ སཪྻྭཱན྄ ཨདྷི མམ ཏཱདྲྀཤོ བྷཱཝོ ཡཐཱརྠོ ཡཏོ྅ཧཾ ཀཱརཱཝསྠཱཡཱཾ པྲཏྱུཏྟརཀརཎེ སུསཾཝཱདསྱ པྲཱམཱཎྱཀརཎེ ཙ ཡུཥྨཱན྄ སཪྻྭཱན྄ མཡཱ སཱརྡྡྷམ྄ ཨེཀཱནུགྲཧསྱ བྷཱགིནོ མཏྭཱ སྭཧྲྀདཡེ དྷཱརཡཱམི།
युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।
8 ཨཔརམ྄ ཨཧཾ ཁྲཱིཥྚཡཱིཤོཿ སྣེཧཝཏ྄ སྣེཧེན ཡུཥྨཱན྄ ཀཱིདྲྀཤཾ ཀཱངྐྵཱམི ཏདདྷཱིཤྭརོ མམ སཱཀྵཱི ཝིདྱཏེ།
अपरम् अहं ख्रीष्टयीशोः स्नेहवत् स्नेहेन युष्मान् कीदृशं काङ्क्षामि तदधीश्वरो मम साक्षी विद्यते।
9 མཡཱ ཡཏ྄ པྲཱརྠྱཏེ ཏད྄ ཨིདཾ ཡུཥྨཱཀཾ པྲེམ ནིཏྱཾ ཝྲྀདྡྷིཾ གཏྭཱ
मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा
10 ཛྙཱནསྱ ཝིཤིཥྚཱནཱཾ པརཱིཀྵིཀཱཡཱཤྩ སཪྻྭཝིདྷབུདྡྷེ རྦཱཧུལྱཾ ཕལཏུ,
ज्ञानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु,
11 ཁྲཱིཥྚསྱ དིནཾ ཡཱཝད྄ ཡུཥྨཱཀཾ སཱརལྱཾ ནིཪྻིགྷྣཏྭཉྩ བྷཝཏུ, ཨཱིཤྭརསྱ གཽརཝཱཡ པྲཤཾསཱཡཻ ཙ ཡཱིཤུནཱ ཁྲཱིཥྚེན པུཎྱཕལཱནཱཾ པཱུརྞཏཱ ཡུཥྨབྷྱཾ དཱིཡཏཱམ྄ ཨིཏི།
ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।
12 ཧེ བྷྲཱཏརཿ, མཱཾ པྲཏི ཡད྄ ཡད྄ གྷཊིཏཾ ཏེན སུསཾཝཱདཔྲཙཱརསྱ བཱདྷཱ ནཧི ཀིནྟུ ཝྲྀདྡྷིརེཝ ཛཱཏཱ ཏད྄ ཡུཥྨཱན྄ ཛྙཱཔཡིཏུཾ ཀཱམཡེ྅ཧཾ།
हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् ज्ञापयितुं कामयेऽहं।
13 ཨཔརམ྄ ཨཧཾ ཁྲཱིཥྚསྱ ཀྲྀཏེ བདྡྷོ྅སྨཱིཏི རཱཛཔུཪྻྱཱམ྄ ཨནྱསྠཱནེཥུ ཙ སཪྻྭེཥཱཾ ནིཀཊེ སུསྤཥྚམ྄ ཨབྷཝཏ྄,
अपरम् अहं ख्रीष्टस्य कृते बद्धोऽस्मीति राजपुर्य्याम् अन्यस्थानेषु च सर्व्वेषां निकटे सुस्पष्टम् अभवत्,
14 པྲབྷུསམྦནྡྷཱིཡཱ ཨནེཀེ བྷྲཱཏརཤྩ མམ བནྡྷནཱད྄ ཨཱཤྭཱསཾ པྲཱཔྱ ཝརྡྡྷམཱནེནོཏྶཱཧེན ནིཿཀྵོབྷཾ ཀཐཱཾ པྲཙཱརཡནྟི།
प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति।
15 ཀེཙིད྄ དྭེཥཱད྄ ཝིརོདྷཱཙྩཱཔརེ ཀེཙིཙྩ སདྦྷཱཝཱཏ྄ ཁྲཱིཥྚཾ གྷོཥཡནྟི;
केचिद् द्वेषाद् विरोधाच्चापरे केचिच्च सद्भावात् ख्रीष्टं घोषयन्ति;
16 ཡེ ཝིརོདྷཱཏ྄ ཁྲཱིཥྚཾ གྷོཥཡནྟི ཏེ པཝིཏྲབྷཱཝཱཏ྄ ཏནྣ ཀུཪྻྭནྟོ མམ བནྡྷནཱནི བཧུཏརཀློཤདཱཡཱིནི ཀརྟྟུམ྄ ཨིཙྪནྟི།
ये विरोधात् ख्रीष्टं घोषयन्ति ते पवित्रभावात् तन्न कुर्व्वन्तो मम बन्धनानि बहुतरक्लोशदायीनि कर्त्तुम् इच्छन्ति।
17 ཡེ ཙ པྲེམྣཱ གྷོཥཡནྟི ཏེ སུསཾཝཱདསྱ པྲཱམཱཎྱཀརཎེ྅ཧཾ ནིཡུཀྟོ྅སྨཱིཏི ཛྙཱཏྭཱ ཏཏ྄ ཀུཪྻྭནྟི།
ये च प्रेम्ना घोषयन्ति ते सुसंवादस्य प्रामाण्यकरणेऽहं नियुक्तोऽस्मीति ज्ञात्वा तत् कुर्व्वन्ति।
18 ཀིཾ བཧུནཱ? ཀཱཔཊྱཱཏ྄ སརལབྷཱཝཱད྄ ཝཱ བྷཝེཏ྄, ཡེན ཀེནཙིཏ྄ པྲཀཱརེཎ ཁྲཱིཥྚསྱ གྷོཥཎཱ བྷཝཏཱིཏྱསྨིན྄ ཨཧམ྄ ཨཱནནྡཱམྱཱནནྡིཥྱཱམི ཙ།
किं बहुना? कापट्यात् सरलभावाद् वा भवेत्, येन केनचित् प्रकारेण ख्रीष्टस्य घोषणा भवतीत्यस्मिन् अहम् आनन्दाम्यानन्दिष्यामि च।
19 ཡུཥྨཱཀཾ པྲཱརྠནཡཱ ཡཱིཤུཁྲཱིཥྚསྱཱཏྨནཤྩོཔཀཱརེཎ ཏཏ྄ མནྣིསྟཱརཛནཀཾ བྷཝིཥྱཏཱིཏི ཛཱནཱམི།
युष्माकं प्रार्थनया यीशुख्रीष्टस्यात्मनश्चोपकारेण तत् मन्निस्तारजनकं भविष्यतीति जानामि।
20 ཏཏྲ ཙ མམཱཀཱངྐྵཱ པྲཏྱཱཤཱ ཙ སིདྡྷིཾ གམིཥྱཏི ཕལཏོ྅ཧཾ ཀེནཱཔི པྲཀཱརེཎ ན ལཛྫིཥྱེ ཀིནྟུ གཏེ སཪྻྭསྨིན྄ ཀཱལེ ཡདྭཏ྄ ཏདྭད྄ ཨིདཱནཱིམཔི སམྤཱུརྞོཏྶཱཧདྭཱརཱ མམ ཤརཱིརེཎ ཁྲཱིཥྚསྱ མཧིམཱ ཛཱིཝནེ མརཎེ ཝཱ པྲཀཱཤིཥྱཏེ།
तत्र च ममाकाङ्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतोऽहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते।
21 ཡཏོ མམ ཛཱིཝནཾ ཁྲཱིཥྚཱཡ མརཎཉྩ ལཱབྷཱཡ།
यतो मम जीवनं ख्रीष्टाय मरणञ्च लाभाय।
22 ཀིནྟུ ཡདི ཤརཱིརེ མཡཱ ཛཱིཝིཏཝྱཾ ཏརྷི ཏཏ྄ ཀརྨྨཕལཾ ཕལིཥྱཏི ཏསྨཱཏ྄ ཀིཾ ཝརིཏཝྱཾ ཏནྨཡཱ ན ཛྙཱཡཏེ།
किन्तु यदि शरीरे मया जीवितव्यं तर्हि तत् कर्म्मफलं फलिष्यति तस्मात् किं वरितव्यं तन्मया न ज्ञायते।
23 དྭཱབྷྱཱམ྄ ཨཧཾ སམྤཱིཌྱེ, དེཧཝཱསཏྱཛནཱཡ ཁྲཱིཥྚེན སཧཝཱསཱཡ ཙ མམཱབྷིལཱཥོ བྷཝཏི ཡཏསྟཏ྄ སཪྻྭོཏྟམཾ།
द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।
24 ཀིནྟུ དེཧེ མམཱཝསྠིཏྱཱ ཡུཥྨཱཀམ྄ ཨདྷིཀཔྲཡོཛནཾ།
किन्तु देहे ममावस्थित्या युष्माकम् अधिकप्रयोजनं।
25 ཨཧམ྄ ཨཝསྠཱསྱེ ཡུཥྨཱབྷིཿ སཪྻྭཻཿ སཱརྡྡྷམ྄ ཨཝསྠིཏིཾ ཀརིཥྱེ ཙ ཏཡཱ ཙ ཝིཤྭཱསེ ཡུཥྨཱཀཾ ཝྲྀདྡྷྱཱནནྡཽ ཛནིཥྱེཏེ ཏདཧཾ ནིཤྩིཏཾ ཛཱནཱམི།
अहम् अवस्थास्ये युष्माभिः सर्व्वैः सार्द्धम् अवस्थितिं करिष्ये च तया च विश्वासे युष्माकं वृद्ध्यानन्दौ जनिष्येते तदहं निश्चितं जानामि।
26 ཏེན ཙ མཏྟོ྅རྠཏོ ཡུཥྨཏྶམཱིཔེ མམ པུནརུཔསྠིཏཏྭཱཏ྄ ཡཱུཡཾ ཁྲཱིཥྚེན ཡཱིཤུནཱ བཧུཏརམ྄ ཨཱཧླཱདཾ ལཔྶྱདྷྭེ།
तेन च मत्तोऽर्थतो युष्मत्समीपे मम पुनरुपस्थितत्वात् यूयं ख्रीष्टेन यीशुना बहुतरम् आह्लादं लप्स्यध्वे।
27 ཡཱུཡཾ སཱཝདྷཱནཱ བྷཱུཏྭཱ ཁྲཱིཥྚསྱ སུསཾཝཱདསྱོཔཡུཀྟམ྄ ཨཱཙཱརཾ ཀུརུདྷྭཾ ཡཏོ྅ཧཾ ཡུཥྨཱན྄ ཨུཔཱགཏྱ སཱཀྵཱཏ྄ ཀུཪྻྭན྄ ཀིཾ ཝཱ དཱུརེ ཏིཥྛན྄ ཡུཥྨཱཀཾ ཡཱཾ ཝཱརྟྟཱཾ ཤྲོཏུམ྄ ཨིཙྪཱམི སེཡཾ ཡཱུཡམ྄ ཨེཀཱཏྨཱནསྟིཥྛཐ, ཨེཀམནསཱ སུསཾཝཱདསམྦནྡྷཱིཡཝིཤྭཱསསྱ པཀྵེ ཡཏདྷྭེ, ཝིཔཀྵཻཤྩ ཀེནཱཔི པྲཀཱརེཎ ན ཝྱཱཀུལཱིཀྲིཡདྷྭ ཨིཏི།
यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।
28 ཏཏ྄ ཏེཥཱཾ ཝིནཱཤསྱ ལཀྵཎཾ ཡུཥྨཱཀཉྩེཤྭརདཏྟཾ པརིཏྲཱཎསྱ ལཀྵཎཾ བྷཝིཥྱཏི།
तत् तेषां विनाशस्य लक्षणं युष्माकञ्चेश्वरदत्तं परित्राणस्य लक्षणं भविष्यति।
29 ཡཏོ ཡེན ཡུཥྨཱབྷིཿ ཁྲཱིཥྚེ ཀེཝལཝིཤྭཱསཿ ཀྲིཡཏེ ཏནྣཧི ཀིནྟུ ཏསྱ ཀྲྀཏེ ཀླེཤོ྅པི སཧྱཏེ ཏཱདྲྀཤོ ཝརཿ ཁྲཱིཥྚསྱཱནུརོདྷཱད྄ ཡུཥྨཱབྷིཿ པྲཱཔི,
यतो येन युष्माभिः ख्रीष्टे केवलविश्वासः क्रियते तन्नहि किन्तु तस्य कृते क्लेशोऽपि सह्यते तादृशो वरः ख्रीष्टस्यानुरोधाद् युष्माभिः प्रापि,
30 ཏསྨཱཏ྄ མམ ཡཱདྲྀཤཾ ཡུདྡྷཾ ཡུཥྨཱབྷིརདརྴི སཱམྤྲཏཾ ཤྲཱུཡཏེ ཙ ཏཱདྲྀཤཾ ཡུདྡྷཾ ཡུཥྨཱཀམ྄ ཨཔི བྷཝཏི།
तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति।

< ཕིལིཔིནཿ 1 >