< तीतः 2 >
1 यथार्थस्योपदेशस्य वाक्यानि त्वया कथ्यन्तां
至於你,你所講的,該合乎健全的道理;
2 विशेषतः प्राचीनलोका यथा प्रबुद्धा धीरा विनीता विश्वासे प्रेम्नि सहिष्णुतायाञ्च स्वस्था भवेयुस्तद्वत्
教訓老人應節制、端莊。慎重,在信德、愛德和忍耐上,要正確健全。
3 प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः
也要教訓老婦在舉止上要聖善,不毀謗人,不沉淪於酒,但教人行善,
4 किन्तु सुशिक्षाकारिण्यः सत्य ईश्वरस्य वाक्यं यत् न निन्द्येत तदर्थं युवतीः सुशीलताम् अर्थतः पतिस्नेहम् अपत्यस्नेहं
好能教導青年婦女愛丈夫、愛子女、
5 विनीतिं शुचित्वं गृहिणीत्वं सौजन्यं स्वामिनिघ्नञ्चादिशेयुस्तथा त्वया कथ्यतां।
慎重、貞潔、勤理家務、善良、服從自己的丈夫,免得抵毀天主的聖道。
6 तद्वद् यूनोऽपि विनीतये प्रबोधय।
你也要教訓青年人在一切事上要慎重。
7 त्वञ्च सर्व्वविषये स्वं सत्कर्म्मणां दृष्टान्तं दर्शय शिक्षायाञ्चाविकृतत्वं धीरतां यथार्थं
你該顯示自己的為行善的模範,在教導上應表示純正莊重,
8 निर्द्दोषञ्च वाक्यं प्रकाशय तेन विपक्षो युष्माकम् अपवादस्य किमपि छिद्रं न प्राप्य त्रपिष्यते।
要講健全無可指摘的話,使反對的人感到慚愧,說不出我們什麼不好來。
9 दासाश्च यत् स्वप्रभूनां निघ्नाः सर्व्वविषये तुष्टिजनकाश्च भवेयुः प्रत्युत्तरं न कुर्य्युः
教訓奴隸在一切事上要服從自己的主人,常叫他們喜悅,不要抗辯,
10 किमपि नापहरेयुः किन्तु पूर्णां सुविश्वस्ततां प्रकाशयेयुरिति तान् आदिश। यत एवम्प्रकारेणास्मकं त्रातुरीश्वरस्य शिक्षा सर्व्वविषये तै र्भूषितव्या।
不要竊取,惟要事事表示自己實在忠信,好使我們救主天主的聖道,在一切事上獲得光榮。
11 यतो हेतोस्त्राणाजनक ईश्वरस्यानुग्रहः सर्व्वान् मानवान् प्रत्युदितवान्
的確,天主救眾人的恩寵已經出現,
12 स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः, (aiōn )
教導我們棄絕不虔敬的生活,和世俗的貪慾,有節制,公正地、虔敬地在今世生活, (aiōn )
13 परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।
期待所希望的幸福,和我們偉大的天主及救主耶穌基督的顯現。
14 यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।
衪為我們捨棄了自己,是為救贖我們脫離一切罪惡,洗淨我們,使我們能成為衪的選民,叫我們熱心行善。
15 एतानि भाषस्व पूर्णसामर्थ्येन चादिश प्रबोधय च, कोऽपि त्वां नावमन्यतां।
你要宣講這些事,以全規勸和指摘,不要讓任何人輕視你。