< रोमिणः 9 >
1 अहं काञ्चिद् कल्पितां कथां न कथयामि, ख्रीष्टस्य साक्षात् सत्यमेव ब्रवीमि पवित्रस्यात्मनः साक्षान् मदीयं मन एतत् साक्ष्यं ददाति।
I seie treuthe in Crist Jhesu, Y lye not, for my conscience berith witnessyng to me in the Hooli Goost,
2 ममान्तरतिशयदुःखं निरन्तरं खेदश्च
for greet heuynesse is to me, and contynuel sorewe to my herte.
3 तस्माद् अहं स्वजातीयभ्रातृणां निमित्तात् स्वयं ख्रीष्टाच्छापाक्रान्तो भवितुम् ऐच्छम्।
For Y my silf desiride to be departid fro Crist for my britheren, that ben my cosyns aftir the fleisch, that ben men of Israel;
4 यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।
whos is adopcioun of sones, and glorie, and testament, and yyuyng of the lawe, and seruyce, and biheestis;
5 तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः। (aiōn )
whos ben the fadris, and of which is Crist after the fleisch, that is God aboue alle thingis, blessid in to worldis. (aiōn )
6 ईश्वरस्य वाक्यं विफलं जातम् इति नहि यत्कारणाद् इस्रायेलो वंशे ये जातास्ते सर्व्वे वस्तुत इस्रायेलीया न भवन्ति।
Amen. But not that the word of God hath falle doun. For not alle that ben of Israel, these ben Israelitis.
7 अपरम् इब्राहीमो वंशे जाता अपि सर्व्वे तस्यैव सन्ताना न भवन्ति किन्तु इस्हाको नाम्ना तव वंशो विख्यातो भविष्यति।
Nethir thei that ben seed of Abraham, `alle ben sonys; but in Ysaac the seed schal be clepid to thee;
8 अर्थात् शारीरिकसंसर्गात् जाताः सन्ताना यावन्तस्तावन्त एवेश्वरस्य सन्ताना न भवन्ति किन्तु प्रतिश्रवणाद् ये जायन्ते तएवेश्वरवंशो गण्यते।
that is to seie, not thei that ben sones of the fleisch, ben sones of God, but thei that ben sones of biheeste ben demed in the seed.
9 यतस्तत्प्रतिश्रुते र्वाक्यमेतत्, एतादृशे समये ऽहं पुनरागमिष्यामि तत्पूर्व्वं सारायाः पुत्र एको जनिष्यते।
For whi this is the word of biheest, Aftir this tyme Y schal come, and a sone schal be to Sare.
10 अपरमपि वदामि स्वमनोऽभिलाषत ईश्वरेण यन्निरूपितं तत् कर्म्मतो नहि किन्त्वाह्वयितु र्जातमेतद् यथा सिद्ध्यति
And not oneli sche, but also Rebecca hadde twey sones of o liggyng bi of Ysaac, oure fadir.
11 तदर्थं रिब्कानामिकया योषिता जनैकस्माद् अर्थाद् अस्माकम् इस्हाकः पूर्व्वपुरुषाद् गर्भे धृते तस्याः सन्तानयोः प्रसवात् पूर्व्वं किञ्च तयोः शुभाशुभकर्म्मणः करणात् पूर्व्वं
And whanne thei weren not yit borun, nether hadden don ony thing of good ether of yuel, that the purpos of God schulde dwelle bi eleccioun,
12 तां प्रतीदं वाक्यम् उक्तं, ज्येष्ठः कनिष्ठं सेविष्यते,
not of werkis, but of God clepynge, it was seid to hym,
13 यथा लिखितम् आस्ते, तथाप्येषावि न प्रीत्वा याकूबि प्रीतवान् अहं।
that the more schulde serue the lesse, as it is writun, Y louede Jacob, but Y hatide Esau.
14 तर्हि वयं किं ब्रूमः? ईश्वरः किम् अन्यायकारी? तथा न भवतु।
What therfor schulen we seie? Whether wickidnesse be anentis God?
15 यतः स स्वयं मूसाम् अवदत्; अहं यस्मिन् अनुग्रहं चिकीर्षामि तमेवानुगृह्लामि, यञ्च दयितुम् इच्छामि तमेव दये।
God forbede. For he seith to Moyses, Y schal haue merci on whom Y haue merci; and Y schal yyue merci on whom Y schal haue merci.
16 अतएवेच्छता यतमानेन वा मानवेन तन्न साध्यते दयाकारिणेश्वरेणैव साध्यते।
Therfor it is not nether of man willynge, nethir rennynge, but of God hauynge mercy.
17 फिरौणि शास्त्रे लिखति, अहं त्वद्द्वारा मत्पराक्रमं दर्शयितुं सर्व्वपृथिव्यां निजनाम प्रकाशयितुञ्च त्वां स्थापितवान्।
And the scripture seith to Farao, For to this thing Y haue stirid thee, that Y schewe in thee my vertu, and that my name be teld in al erthe.
18 अतः स यम् अनुग्रहीतुम् इच्छति तमेवानुगृह्लाति, यञ्च निग्रहीतुम् इच्छति तं निगृह्लाति।
Therfor of whom God wole, he hath merci; and whom he wole, he endurith.
19 यदि वदसि तर्हि स दोषं कुतो गृह्लाति? तदीयेच्छायाः प्रतिबन्धकत्वं कर्त्तं कस्य सामर्थ्यं विद्यते?
Thanne seist thou to me, What is souyt yit? for who withstondith his wille?
20 हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?
O! man, who art thou, that answerist to God? Whether a maad thing seith to hym that made it, What hast thou maad me so?
21 एकस्मान् मृत्पिण्डाद् उत्कृष्टापकृष्टौ द्विविधौ कलशौ कर्त्तुं किं कुलालस्य सामर्थ्यं नास्ति?
Whether a potter of cley hath not power to make of the same gobet o vessel in to honour, an othere in to dispit?
22 ईश्वरः कोपं प्रकाशयितुं निजशक्तिं ज्ञापयितुञ्चेच्छन् यदि विनाशस्य योग्यानि क्रोधभाजनानि प्रति बहुकालं दीर्घसहिष्णुताम् आश्रयति;
That if God willynge to schewe his wraththe, and to make his power knowun, hath suffrid in greet pacience vessels of wraththe able in to deth,
23 अपरञ्च विभवप्राप्त्यर्थं पूर्व्वं नियुक्तान्यनुग्रहपात्राणि प्रति निजविभवस्य बाहुल्यं प्रकाशयितुं केवलयिहूदिनां नहि भिन्नदेशिनामपि मध्याद्
to schewe the riytchessis of his glorie in to vessels of merci, whiche he made redi in to glorie.
24 अस्मानिव तान्याह्वयति तत्र तव किं?
Whiche also he clepide not oneli of Jewis, but also of hethene men, as he seith in Osee,
25 होशेयग्रन्थे यथा लिखितम् आस्ते, यो लोको मम नासीत् तं वदिष्यामि मदीयकं। या जाति र्मेऽप्रिया चासीत् तां वदिष्याम्यहं प्रियां।
Y schal clepe not my puple my puple, and not my loued my louyd, and not getynge mercy getynge merci;
26 यूयं मदीयलोका न यत्रेति वाक्यमौच्यत। अमरेशस्य सन्ताना इति ख्यास्यन्ति तत्र ते।
and it schal be in the place, where it is seid to hem, Not ye my puple, there thei schulen be clepid the sones of `God lyuynge.
27 इस्रायेलीयलोकेषु यिशायियोऽपि वाचमेतां प्राचारयत्, इस्रायेलीयवंशानां या संख्या सा तु निश्चितं। समुद्रसिकतासंख्यासमाना यदि जायते। तथापि केवलं लोकैरल्पैस्त्राणं व्रजिष्यते।
But Isaye crieth for Israel, If the noumbre of Israel schal be as grauel of the see, the relifs schulen be maad saaf.
28 यतो न्यायेन स्वं कर्म्म परेशः साधयिष्यति। देशे सएव संक्षेपान्निजं कर्म्म करिष्यति।
Forsothe a word makynge an ende, and abreggynge in equyte, for the Lord schal make a word breggid on al the erthe.
29 यिशायियोऽपरमपि कथयामास, सैन्याध्यक्षपरेशेन चेत् किञ्चिन्नोदशिष्यत। तदा वयं सिदोमेवाभविष्याम विनिश्चितं। यद्वा वयम् अमोराया अगमिष्याम तुल्यतां।
And as Ysaye bifor seide, But God of oostis hadde left to vs seed, we hadden be maad as Sodom, and we hadden be lijk as Gommor.
30 तर्हि वयं किं वक्ष्यामः? इतरदेशीया लोका अपि पुण्यार्थम् अयतमाना विश्वासेन पुण्यम् अलभन्त;
Therfor what schulen we seie? That hethene men that sueden not riytwisnesse, han gete riytwisnesse, yhe, the riytwisnesse that is of feith.
31 किन्त्विस्रायेल्लोका व्यवस्थापालनेन पुण्यार्थं यतमानास्तन् नालभन्त।
But Israel suynge the lawe of riytwisnesse, cam not parfitli in to the lawe of riytwisnesse.
32 तस्य किं कारणं? ते विश्वासेन नहि किन्तु व्यवस्थायाः क्रियया चेष्टित्वा तस्मिन् स्खलनजनके पाषाणे पादस्खलनं प्राप्ताः।
Whi? For not of feith, but as of werkys. And thei spurneden ayens the stoon of offencioun,
33 लिखितं यादृशम् आस्ते, पश्य पादस्खलार्थं हि सीयोनि प्रस्तरन्तथा। बाधाकारञ्च पाषाणं परिस्थापितवानहम्। विश्वसिष्यति यस्तत्र स जनो न त्रपिष्यते।
as it is writun, Lo! Y putte a stoon of offensioun in Syon, and a stoon of sclaundre; and ech that schal bileue `in it, schal not be confoundid.