< रोमिणः 2 >

1 हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।
Wherfor thou art vnexcusable, ech man that demest, for in what thing thou demest anothir man, thou condempnest thi silf; for thou doist the same thingis whiche thou demest.
2 किन्त्वेतादृगाचारिभ्यो यं दण्डम् ईश्वरो निश्चिनोति स यथार्थ इति वयं जानीमः।
And we witen, that the doom of God is aftir treuthe ayens hem, that don siche thingis.
3 अतएव हे मानुष त्वं यादृगाचारिणो दूषयसि स्वयं यदि तादृगाचरसि तर्हि त्वम् ईश्वरदण्डात् पलायितुं शक्ष्यसीति किं बुध्यसे?
But gessist thou, man, that demest hem that doen siche thingis, and thou doist tho thingis, that thou schalt ascape the doom of God?
4 अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?
Whether `dispisist thou the richessis of his goodnesse, and the pacience, and the long abidyng? Knowist thou not, that the benygnyte of God ledith thee to forthenkyng?
5 तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?
But aftir thin hardnesse and vnrepentaunt herte, thou tresorist to thee wraththe in the dai of wraththe and of schewyng of the riytful doom of God,
6 किन्तु स एकैकमनुजाय तत्कर्म्मानुसारेण प्रतिफलं दास्यति;
that schal yelde to ech man aftir his werkis;
7 वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति। (aiōnios g166)
sotheli to hem that ben bi pacience of good werk, glorie, and onour, and vncorrupcioun, to hem that seken euerlastynge lijf; (aiōnios g166)
8 अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।
but to hem that ben of strijf, and that assenten not to treuthe, but bileuen to wickidnesse, wraththe and indignacioun, tribulacioun and angwisch,
9 आ यिहूदिनोऽन्यदेशिनः पर्य्यन्तं यावन्तः कुकर्म्मकारिणः प्राणिनः सन्ति ते सर्व्वे दुःखं यातनाञ्च गमिष्यन्ति;
in to ech soule of man that worchith yuel, to the Jew first, and to the Greke;
10 किन्तु आ यिहूदिनो भिन्नदेशिपर्य्यन्ता यावन्तः सत्कर्म्मकारिणो लोकाः सन्ति तान् प्रति महिमा सत्कारः शान्तिश्च भविष्यन्ति।
but glorie, and honour, and pees, to ech man that worchith good thing, to the Jew first, and to the Greke.
11 ईश्वरस्य विचारे पक्षपातो नास्ति।
For accepcioun of persones is not anentis God.
12 अलब्धव्यवस्थाशास्त्रै र्यैः पापानि कृतानि व्यवस्थाशास्त्रालब्धत्वानुरूपस्तेषां विनाशो भविष्यति; किन्तु लब्धव्यवस्थाशास्त्रा ये पापान्यकुर्व्वन् व्यवस्थानुसारादेव तेषां विचारो भविष्यति।
For who euere han synned without the lawe, schulen perische withouten the lawe; and who euere han synned in the lawe, thei schulen be demyd bi the lawe.
13 व्यवस्थाश्रोतार ईश्वरस्य समीपे निष्पापा भविष्यन्तीति नहि किन्तु व्यवस्थाचारिण एव सपुण्या भविष्यन्ति।
For the hereris of lawe ben not iust anentis God, but the doeris of the lawe schulen be maad iust.
14 यतो ऽलब्धव्यवस्थाशास्त्रा भिन्नदेशीयलोका यदि स्वभावतो व्यवस्थानुरूपान् आचारान् कुर्व्वन्ति तर्ह्यलब्धशास्त्राः सन्तोऽपि ते स्वेषां व्यवस्थाशास्त्रमिव स्वयमेव भवन्ति।
For whanne hethene men that han not lawe, don kyndli tho thingis that ben of the lawe, thei not hauynge suche manere lawe, ben lawe to hem silf,
15 तेषां मनसि साक्षिस्वरूपे सति तेषां वितर्केषु च कदा तान् दोषिणः कदा वा निर्दोषान् कृतवत्सु ते स्वान्तर्लिखितस्य व्यवस्थाशास्त्रस्य प्रमाणं स्वयमेव ददति।
that schewen the werk of the lawe writun in her hertis. For the conscience of hem yeldith to hem a witnessyng bytwixe hem silf of thouytis that ben accusynge or defendynge,
16 यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।
in the dai whanne God schal deme the priuy thingis of men aftir my gospel, bi Jhesu Crist.
17 पश्य त्वं स्वयं यिहूदीति विख्यातो व्यवस्थोपरि विश्वासं करोषि,
But if thou art named a Jew, and restist in the lawe, and hast glorie in God,
18 ईश्वरमुद्दिश्य स्वं श्लाघसे, तथा व्यवस्थया शिक्षितो भूत्वा तस्याभिमतं जानासि, सर्व्वासां कथानां सारं विविंक्षे,
and hast knowe his wille, and thou lerud bi lawe preuest the more profitable thingis,
19 अपरं ज्ञानस्य सत्यतायाश्चाकरस्वरूपं शास्त्रं मम समीपे विद्यत अतो ऽन्धलोकानां मार्गदर्शयिता
and tristist thi silf to be a ledere of blynde men, the liyt of hem that ben in derknessis,
20 तिमिरस्थितलोकानां मध्ये दीप्तिस्वरूपोऽज्ञानलोकेभ्यो ज्ञानदाता शिशूनां शिक्षयिताहमेवेति मन्यसे।
a techere of vnwise men, a maistir of yonge children, that hast the foorme of kunnyng and of treuthe in the lawe;
21 परान् शिक्षयन् स्वयं स्वं किं न शिक्षयसि? वस्तुतश्चौर्य्यनिषेधव्यवस्थां प्रचारयन् त्वं किं स्वयमेव चोरयसि?
what thanne techist thou another, and techist not thi silf? Thou that prechist that me schal not stele, stelist?
22 तथा परदारगमनं प्रतिषेधन् स्वयं किं परदारान् गच्छसि? तथा त्वं स्वयं प्रतिमाद्वेषी सन् किं मन्दिरस्य द्रव्याणि हरसि?
Thou that techist that me schal `do no letcherie, doist letcherie? Thou that wlatist maumetis, doist sacrilegie?
23 यस्त्वं व्यवस्थां श्लाघसे स त्वं किं व्यवस्थाम् अवमत्य नेश्वरं सम्मन्यसे?
Thou that hast glorie in the lawe, vnworschipist God bi brekyng of the lawe?
24 शास्त्रे यथा लिखति "भिन्नदेशिनां समीपे युष्माकं दोषाद् ईश्वरस्य नाम्नो निन्दा भवति।"
For the name of God is blasfemed bi you among hethene men, as is writun.
25 यदि व्यवस्थां पालयसि तर्हि तव त्वक्छेदक्रिया सफला भवति; यति व्यवस्थां लङ्घसे तर्हि तव त्वक्छेदोऽत्वक्छेदो भविष्यति।
For circumcisioun profitith, if thou kepe the lawe; but if thou be a trespassour ayens the lawe, thi circumsicioun is maad prepucie.
26 यतो व्यवस्थाशास्त्रादिष्टधर्म्मकर्म्माचारी पुमान् अत्वक्छेदी सन्नपि किं त्वक्छेदिनां मध्ये न गणयिष्यते?
Therfor if prepucie kepe the riytwisnessis of the lawe, whethir his prepucie schal not be arettid in to circumcisioun?
27 किन्तु लब्धशास्त्रश्छिन्नत्वक् च त्वं यदि व्यवस्थालङ्घनं करोषि तर्हि व्यवस्थापालकाः स्वाभाविकाच्छिन्नत्वचो लोकास्त्वां किं न दूषयिष्यन्ति?
And the prepucie of kynde that fulfillith the lawe, schal deme thee, that bi lettre and circumcisioun art trespassour ayens the lawe.
28 तस्माद् यो बाह्ये यिहूदी स यिहूदी नहि तथाङ्गस्य यस्त्वक्छेदः स त्वक्छेदो नहि;
For he that is in opene is not a Jew, nether it is circumsicioun that is openli in the fleisch;
29 किन्तु यो जन आन्तरिको यिहूदी स एव यिहूदी अपरञ्च केवललिखितया व्यवस्थया न किन्तु मानसिको यस्त्वक्छेदो यस्य च प्रशंसा मनुष्येभ्यो न भूत्वा ईश्वराद् भवति स एव त्वक्छेदः।
but he that is a Jew in hid, and the circumcisioun of herte, in spirit, not bi the lettre, whos preisyng is not of men, but of God.

< रोमिणः 2 >