< रोमिणः 13 >

1 युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।
Euery soule be suget to heiyere powers. For ther is no power but of God, and tho thingis that ben of God, ben ordeyned.
2 इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।
Therfor he that ayenstondith power, ayenstondith the ordynaunce of God; and thei that ayenstonden, geten to hem silf dampnacioun.
3 शास्ता सदाचारिणां भयप्रदो नहि दुराचारिणामेव भयप्रदो भवति; त्वं किं तस्मान् निर्भयो भवितुम् इच्छसि? तर्हि सत्कर्म्माचर, तस्माद् यशो लप्स्यसे,
For princes ben not to the drede of good work, but of yuel. But wilt thou, that thou drede not power? Do thou good thing, and thou schalt haue preisyng of it;
4 यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।
for he is the mynystre of God to thee in to good. But if thou doist yuel, drede thou; for not with outen cause he berith the swerd, for he is the mynystre of God, vengere in to wraththe to hym that doith yuel.
5 अतएव केवलदण्डभयान्नहि किन्तु सदसद्बोधादपि तस्य वश्येन भवितव्यं।
And therfor bi nede be ye suget, not oneli for wraththe, but also for conscience.
6 एतस्माद् युष्माकं राजकरदानमप्युचितं यस्माद् ये करं गृह्लन्ति त ईश्वरस्य किङ्करा भूत्वा सततम् एतस्मिन् कर्म्मणि निविष्टास्तिष्ठन्ति।
For therfor ye yyuen tributis, thei ben the mynystris of God, and seruen for this same thing.
7 अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।
Therfor yelde ye to alle men dettis, to whom tribut, tribut, to whom tol, tol, to whom drede, drede, to whom onour, onour.
8 युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।
To no man owe ye ony thing, but that ye loue togidere. For he that loueth his neiybore, hath fulfillid the lawe.
9 वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।
For, Thou schalt do no letcherie, Thou schalt not sle, Thou schalt not stele, Thou schalt not seie fals witnessyng, Thou schalt not coueyte the thing of thi neiybore, and if ther be ony othere maundement, it is instorid in this word, Thou schalt loue thi neiybore as thi silf.
10 यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।
The loue of neiybore worchith not yuel; therfor loue is the fulfillyng of the lawe.
11 प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।
And we knowen this tyme, that the our is now, that we rise fro sleep; for now oure heelthe is neer, than whanne we bileueden.
12 बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या।
The nyyt wente bifore, but the dai hath neiyed. Therfor caste we awei the werkis of derknessis, and be we clothid in the armeris of liyt.
13 अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः।
As in dai wandre we onestli, not in superflu feestis and drunkenessis, not in beddis and vnchastitees, not in strijf and in enuye;
14 यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।
but be ye clothid in the Lord Jhesu Crist, and do ye not the bisynesse of fleisch in desiris.

< रोमिणः 13 >