< रोमिणः 11 >

1 ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतोऽहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोकोऽस्मि।
I ask then, did God reject His people? Certainly not! I am an Israelite myself, a descendant of Abraham, from the tribe of Benjamin.
2 ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?
God did not reject His people, whom He foreknew. Do you not know what the Scripture says about Elijah, how he appealed to God against Israel:
3 हे परमेश्वर लोकास्त्वदीयाः सर्व्वा यज्ञवेदीरभञ्जन् तथा तव भविष्यद्वादिनः सर्व्वान् अघ्नन् केवल एकोऽहम् अवशिष्ट आसे ते ममापि प्राणान् नाशयितुं चेष्टनते, एतां कथाम् इस्रायेलीयलोकानां विरुद्धम् एलिय ईश्वराय निवेदयामास।
“Lord, they have killed Your prophets and torn down Your altars. I am the only one left, and they are seeking my life as well”?
4 ततस्तं प्रतीश्वरस्योत्तरं किं जातं? बाल्नाम्नो देवस्य साक्षात् यै र्जानूनि न पातितानि तादृशाः सप्त सहस्राणि लोका अवशेषिता मया।
And what was the divine reply to him? “I have reserved for Myself seven thousand men who have not bowed the knee to Baal.”
5 तद्वद् एतस्मिन् वर्त्तमानकालेऽपि अनुग्रहेणाभिरुचितास्तेषाम् अवशिष्टाः कतिपया लोकाः सन्ति।
In the same way, at the present time there is a remnant chosen by grace.
6 अतएव तद् यद्यनुग्रहेण भवति तर्हि क्रियया न भवति नो चेद् अनुग्रहोऽननुग्रह एव, यदि वा क्रियया भवति तर्ह्यनुग्रहेण न भवति नो चेत् क्रिया क्रियैव न भवति।
And if it is by grace, then it is no longer by works. Otherwise, grace would no longer be grace.
7 तर्हि किं? इस्रायेलीयलोका यद् अमृगयन्त तन्न प्रापुः। किन्त्वभिरुचितलोकास्तत् प्रापुस्तदन्ये सर्व्व अन्धीभूताः।
What then? What Israel was seeking, it failed to obtain, but the elect did. The others were hardened,
8 यथा लिखितम् आस्ते, घोरनिद्रालुताभावं दृष्टिहीने च लोचने। कर्णौ श्रुतिविहीनौ च प्रददौ तेभ्य ईश्वरः॥
as it is written: “God gave them a spirit of stupor, eyes that could not see, and ears that could not hear, to this very day.”
9 एतेस्मिन् दायूदपि लिखितवान् यथा, अतो भुक्त्यासनं तेषाम् उन्माथवद् भविष्यति। वा वंशयन्त्रवद् बाधा दण्डवद् वा भविष्यति॥
And David says: “May their table become a snare and a trap, a stumbling block and a retribution to them.
10 भविष्यन्ति तथान्धास्ते नेत्रैः पश्यन्ति नो यथा। वेपथुः कटिदेशस्य तेषां नित्यं भविष्यति॥
May their eyes be darkened so they cannot see, and their backs be bent forever.”
11 पतनार्थं ते स्खलितवन्त इति वाचं किमहं वदामि? तन्न भवतु किन्तु तान् उद्योगिनः कर्त्तुं तेषां पतनाद् इतरदेशीयलोकैः परित्राणं प्राप्तं।
I ask then, did they stumble so as to fall beyond recovery? Certainly not! However, because of their trespass, salvation has come to the Gentiles to make Israel jealous.
12 तेषां पतनं यदि जगतो लोकानां लाभजनकम् अभवत् तेषां ह्रासोऽपि यदि भिन्नदेशिनां लाभजनकोऽभवत् तर्हि तेषां वृद्धिः कति लाभजनिका भविष्यति?
But if their trespass means riches for the world, and their failure means riches for the Gentiles, how much greater riches will their fullness bring!
13 अतो हे अन्यदेशिनो युष्मान् सम्बोध्य कथयामि निजानां ज्ञातिबन्धूनां मनःसूद्योगं जनयन् तेषां मध्ये कियतां लोकानां यथा परित्राणं साधयामि
I am speaking to you Gentiles. Inasmuch as I am the apostle to the Gentiles, I magnify my ministry
14 तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।
in the hope that I may provoke my own people to jealousy and save some of them.
15 तेषां निग्रहेण यदीश्वरेण सह जगतो जनानां मेलनं जातं तर्हि तेषाम् अनुगृहीतत्वं मृतदेहे यथा जीवनलाभस्तद्वत् किं न भविष्यति?
For if their rejection is the reconciliation of the world, what will their acceptance be but life from the dead?
16 अपरं प्रथमजातं फलं यदि पवित्रं भवति तर्हि सर्व्वमेव फलं पवित्रं भविष्यति; तथा मूलं यदि पवित्रं भवति तर्हि शाखा अपि तथैव भविष्यन्ति।
If the first part of the dough is holy, so is the whole batch; if the root is holy, so are the branches.
17 कियतीनां शाखानां छेदने कृते त्वं वन्यजितवृक्षस्य शाखा भूत्वा यदि तच्छाखानां स्थाने रोपिता सति जितवृक्षीयमूलस्य रसं भुंक्षे,
Now if some branches have been broken off, and you, a wild olive shoot, have been grafted in among the others to share in the nourishment of the olive root,
18 तर्हि तासां भिन्नशाखानां विरुद्धं मां गर्व्वीः; यदि गर्व्वसि तर्हि त्वं मूलं यन्न धारयसि किन्तु मूलं त्वां धारयतीति संस्मर।
do not boast over those branches. If you do, remember this: You do not support the root, but the root supports you.
19 अपरञ्च यदि वदसि मां रोपयितुं ताः शाखा विभन्ना अभवन्;
You will say then, “Branches were broken off so that I could be grafted in.”
20 भद्रम्, अप्रत्ययकारणात् ते विभिन्ना जातास्तथा विश्वासकारणात् त्वं रोपितो जातस्तस्माद् अहङ्कारम् अकृत्वा ससाध्वसो भव।
That is correct: They were broken off because of unbelief, but you stand by faith. Do not be arrogant, but be afraid.
21 यत ईश्वरो यदि स्वाभाविकीः शाखा न रक्षति तर्हि सावधानो भव चेत् त्वामपि न स्थापयति।
For if God did not spare the natural branches, He will certainly not spare you either.
22 इत्यत्रेश्वरस्य यादृशी कृपा तादृशं भयानकत्वमपि त्वया दृश्यतां; ये पतितास्तान् प्रति तस्य भयानकत्वं दृश्यतां, त्वञ्च यदि तत्कृपाश्रितस्तिष्ठसि तर्हि त्वां प्रति कृपा द्रक्ष्यते; नो चेत् त्वमपि तद्वत् छिन्नो भविष्यसि।
Take notice, therefore, of the kindness and severity of God: severity to those who fell, but kindness to you, if you continue in His kindness. Otherwise you also will be cut off.
23 अपरञ्च ते यद्यप्रत्यये न तिष्ठन्ति तर्हि पुनरपि रोपयिष्यन्ते यस्मात् तान् पुनरपि रोपयितुम् इश्वरस्य शक्तिरास्ते।
And if they do not persist in unbelief, they will be grafted in, for God is able to graft them in again.
24 वन्यजितवृक्षस्य शाखा सन् त्वं यदि ततश्छिन्नो रीतिव्यत्ययेनोत्तमजितवृक्षे रोेेपितोऽभवस्तर्हि तस्य वृक्षस्य स्वीया याः शाखास्ताः किं पुनः स्ववृक्षे संलगितुं न शक्नुवन्ति?
For if you were cut from a wild olive tree, and contrary to nature were grafted into one that is cultivated, how much more readily will these, the natural branches, be grafted into their own olive tree!
25 हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वाञ्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;
I do not want you to be ignorant of this mystery, brothers, so that you will not be conceited: A hardening in part has come to Israel, until the full number of the Gentiles has come in.
26 पश्चात् ते सर्व्वे परित्रास्यन्ते; एतादृशं लिखितमप्यास्ते, आगमिष्यति सीयोनाद् एको यस्त्राणदायकः। अधर्म्मं याकुबो वंशात् स तु दूरीकरिष्यति।
And so all Israel will be saved, as it is written: “The Deliverer will come from Zion; He will remove godlessness from Jacob.
27 तथा दूरीकरिष्यामि तेषां पापान्यहं यदा। तदा तैरेव सार्द्धं मे नियमोऽयं भविष्यति।
And this is My covenant with them when I take away their sins.”
28 सुसंवादात् ते युष्माकं विपक्षा अभवन् किन्त्वभिरुचितत्वात् ते पितृलोकानां कृते प्रियपात्राणि भवन्ति।
Regarding the gospel, they are enemies on your account; but regarding election, they are loved on account of the patriarchs.
29 यत ईश्वरस्य दानाद् आह्वानाञ्च पश्चात्तापो न भवति।
For God’s gifts and His call are irrevocable.
30 अतएव पूर्व्वम् ईश्वरेऽविश्वासिनः सन्तोऽपि यूयं यद्वत् सम्प्रति तेषाम् अविश्वासकारणाद् ईश्वरस्य कृपापात्राणि जातास्तद्वद्
Just as you who formerly disobeyed God have now received mercy through their disobedience,
31 इदानीं तेऽविश्वासिनः सन्ति किन्तु युष्माभि र्लब्धकृपाकारणात् तैरपि कृपा लप्स्यते।
so they too have now disobeyed, in order that they too may now receive mercy through the mercy shown to you.
32 ईश्वरः सर्व्वान् प्रति कृपां प्रकाशयितुं सर्व्वान् अविश्वासित्वेन गणयति। (eleēsē g1653)
For God has consigned everyone to disobedience so that He may have mercy on everyone. (eleēsē g1653)
33 अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।
O, the depth of the riches of the wisdom and knowledge of God! How unsearchable are His judgments, and untraceable His ways!
34 परमेश्वरस्य सङ्कल्पं को ज्ञातवान्? तस्य मन्त्री वा कोऽभवत्?
“Who has known the mind of the Lord? Or who has been His counselor?”
35 को वा तस्योपकारी भृत्वा तत्कृते तेन प्रत्युपकर्त्तव्यः?
“Who has first given to God, that God should repay him?”
36 यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति। (aiōn g165)
For from Him and through Him and to Him are all things. To Him be the glory forever! Amen. (aiōn g165)

< रोमिणः 11 >