< योहनः 18 >

1 ताः कथाः कथयित्वा यीशुः शिष्यानादाय किद्रोन्नामकं स्रोत उत्तीर्य्य शिष्यैः सह तत्रत्योद्यानं प्राविशत्।
When Jesus had spoken these words, he went forth with his disciples over the brook Kedron, where was a garden, into which he entered, and his disciples.
2 किन्तु विश्वासघातियिहूदास्तत् स्थानं परिचीयते यतो यीशुः शिष्यैः सार्द्धं कदाचित् तत् स्थानम् अगच्छत्।
And Judas also, who betrayed him, knew the place: for Jesus often resorted thither with his disciples.
3 तदा स यिहूदाः सैन्यगणं प्रधानयाजकानां फिरूशिनाञ्च पदातिगणञ्च गृहीत्वा प्रदीपान् उल्कान् अस्त्राणि चादाय तस्मिन् स्थान उपस्थितवान्।
Judas then, having received a band [of men] and officers from the chief priests and Pharisees, cometh thither with lanterns, and torches, and weapons.
4 स्वं प्रति यद् घटिष्यते तज् ज्ञात्वा यीशुरग्रेसरः सन् तानपृच्छत् कं गवेषयथ?
Jesus therefore, knowing all things that were coming upon him, went forth, and said to them, Whom seek ye?
5 ते प्रत्यवदन्, नासरतीयं यीशुं; ततो यीशुरवादीद् अहमेव सः; तैः सह विश्वासघाती यिहूदाश्चातिष्ठत्।
They answered him, Jesus of Nazareth. Jesus saith to them, I am [he]. And Judas also, who betrayed him, stood with them.
6 तदाहमेव स तस्यैतां कथां श्रुत्वैव ते पश्चादेत्य भूमौ पतिताः।
As soon then as he had said to them, I am [he], they went backward, and fell to the ground.
7 ततो यीशुः पुनरपि पृष्ठवान् कं गवेषयथ? ततस्ते प्रत्यवदन् नासरतीयं यीशुं।
Then he asked them again, Whom seek ye? And they said, Jesus of Nazareth.
8 तदा यीशुः प्रत्युदितवान् अहमेव स इमां कथामचकथम्; यदि मामन्विच्छथ तर्हीमान् गन्तुं मा वारयत।
Jesus answered, I have told you that I am [he]: If therefore ye seek me, let these go away:
9 इत्थं भूते मह्यं याल्लोकान् अददास्तेषाम् एकमपि नाहारयम् इमां यां कथां स स्वयमकथयत् सा कथा सफला जाता।
That the saying might be fulfilled which he spoke, Of them whom thou gavest to me, I have lost none.
10 तदा शिमोन्पितरस्य निकटे खङ्गल्स्थितेः स तं निष्कोषं कृत्वा महायाजकस्य माल्खनामानं दासम् आहत्य तस्य दक्षिणकर्णं छिन्नवान्।
Then Simon Peter, having a sword, drew it, and smote the servant of the high priest, and cut off his right ear. The servant's name was Malchus.
11 ततो यीशुः पितरम् अवदत्, खङ्गं कोषे स्थापय मम पिता मह्यं पातुं यं कंसम् अददात् तेनाहं किं न पास्यामि?
Then said Jesus to Peter, Put up thy sword into the sheath: the cup which my Father hath given me, shall I not drink it?
12 तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्।
Then the band, and the captain, and officers of the Jews took Jesus, and bound him,
13 स कियफास्तस्मिन् वत्सरे महायाजत्वपदे नियुक्तः
And led him away to Annas first, (for he was father-in-law to Caiaphas, who was the high priest that same year.)
14 सन् साधारणलोकानां मङ्गलार्थम् एकजनस्य मरणमुचितम् इति यिहूदीयैः सार्द्धम् अमन्त्रयत्।
Now Caiaphas was he who gave counsel to the Jews, that it was expedient that one man should die for the people.
15 तदा शिमोन्पितरोऽन्यैकशिष्यश्च यीशोः पश्चाद् अगच्छतां तस्यान्यशिष्यस्य महायाजकेन परिचितत्वात् स यीशुना सह महायाजकस्याट्टालिकां प्राविशत्।
And Simon Peter followed Jesus, and [so did] another disciple. That disciple was known to the high priest, and went in with Jesus into the palace of the high priest.
16 किन्तु पितरो बहिर्द्वारस्य समीपेऽतिष्ठद् अतएव महायाजकेन परिचितः स शिष्यः पुनर्बहिर्गत्वा दौवायिकायै कथयित्वा पितरम् अभ्यन्तरम् आनयत्।
But Peter stood at the door without. Then went out that other disciple who was known to the high priest, and spoke to her that kept the door, and brought in Peter.
17 तदा स द्वाररक्षिका पितरम् अवदत् त्वं किं न तस्य मानवस्य शिष्यः? ततः सोवदद् अहं न भवामि।
Then saith the damsel that kept the door to Peter, Art not thou also [one] of this man's disciples? He saith, I am not.
18 ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत।
And the servants and officers stood there, who had made a fire of coals; (for it was cold) and they warmed themselves: and Peter stood with them, and warmed himself.
19 तदा शिष्येषूपदेशे च महायाजकेन यीशुः पृष्टः
The high priest then asked Jesus concerning his disciples, and concerning his doctrine.
20 सन् प्रत्युक्तवान् सर्व्वलोकानां समक्षं कथामकथयं गुप्तं कामपि कथां न कथयित्वा यत् स्थानं यिहूदीयाः सततं गच्छन्ति तत्र भजनगेहे मन्दिरे चाशिक्षयं।
Jesus answered him, I spoke openly to the world; I ever taught in the synagogue and in the temple, whither the Jews always resort; and in secret have I said nothing.
21 मत्तः कुतः पृच्छसि? ये जना मदुपदेशम् अशृण्वन् तानेव पृच्छ यद्यद् अवदं ते तत् जानिन्त।
Why dost thou ask me? ask them who heard me, what I have said to them: behold, they know what I have said.
22 तदेत्थं प्रत्युदितत्वात् निकटस्थपदाति र्यीशुं चपेटेनाहत्य व्याहरत् महायाजकम् एवं प्रतिवदसि?
And when he had thus spoken, one of the officers who stood by, struck Jesus with the palm of his hand, saying, Answerest thou the high priest so?
23 ततो यीशुः प्रतिगदितवान् यद्ययथार्थम् अचकथं तर्हि तस्यायथार्थस्य प्रमाणं देहि, किन्तु यदि यथार्थं तर्हि कुतो हेतो र्माम् अताडयः?
Jesus answered him, If I have spoken evil, bear testimony of the evil: but if well, why smitest thou me?
24 पूर्व्वं हानन् सबन्धनं तं कियफामहायाजकस्य समीपं प्रैषयत्।
(Now Annas had sent him bound to Caiaphas the high priest.)
25 शिमोन्पितरस्तिष्ठन् वह्नितापं सेवते, एतस्मिन् समये कियन्तस्तम् अपृच्छन् त्वं किम् एतस्य जनस्य शिष्यो न? ततः सोपह्नुत्याब्रवीद् अहं न भवामि।
And Simon Peter stood and warmed himself. They said therefore to him, Art not thou also [one] of his disciples? He denied [it], and said, I am not.
26 तदा महायाजकस्य यस्य दासस्य पितरः कर्णमच्छिनत् तस्य कुटुम्बः प्रत्युदितवान् उद्याने तेन सह तिष्ठन्तं त्वां किं नापश्यं?
One of the servants of the high priest (being the kinsman of him whose ear Peter cut off) saith, Did not I see thee in the garden with him?
27 किन्तु पितरः पुनरपह्नुत्य कथितवान्; तदानीं कुक्कुटोऽरौत्।
Peter then denied again, and immediately the cock crowed.
28 तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।
Then they led Jesus from Caiaphas to the hall of judgment: and it was early; and they themselves went not into the judgment-hall, lest they should be defiled; but that they might eat the passover.
29 अपरं पीलातो बहिरागत्य तान् पृष्ठवान् एतस्य मनुष्यस्य कं दोषं वदथ?
Pilate then went out to them, and said, What accusation bring ye against this man?
30 तदा ते पेत्यवदन् दुष्कर्म्मकारिणि न सति भवतः समीपे नैनं समार्पयिष्यामः।
They answered and said to him, If he were not a malefactor, we would not have delivered him up to thee.
31 ततः पीलातोऽवदद् यूयमेनं गृहीत्वा स्वेषां व्यवस्थया विचारयत। तदा यिहूदीयाः प्रत्यवदन् कस्यापि मनुष्यस्य प्राणदण्डं कर्त्तुं नास्माकम् अधिकारोऽस्ति।
Then said Pilate to them, Take ye him, and judge him according to your law. The Jews therefore said to him, It is not lawful for us to put any man to death:
32 एवं सति यीशुः स्वस्य मृत्यौ यां कथां कथितवान् सा सफलाभवत्।
That the saying of Jesus might be fulfilled, which he spoke, signifying what death he should die.
33 तदनन्तरं पीलातः पुनरपि तद् राजगृहं गत्वा यीशुमाहूय पृष्टवान् त्वं किं यिहूदीयानां राजा?
Then Pilate entered into the judgment-hall again, and called Jesus, and said to him, Art thou the King of the Jews?
34 यीशुः प्रत्यवदत् त्वम् एतां कथां स्वतः कथयसि किमन्यः कश्चिन् मयि कथितवान्?
Jesus answered him, Sayest thou this thing from thyself, or did others tell it thee concerning me?
35 पीलातोऽवदद् अहं किं यिहूदीयः? तव स्वदेशीया विशेषतः प्रधानयाजका मम निकटे त्वां समार्पयन, त्वं किं कृतवान्?
Pilate answered, Am I a Jew? Thy own nation, and the chief priests, have delivered thee to me: What hast thou done?
36 यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।
Jesus answered, My kingdom is not of this world: if my kingdom were of this world, then would my servants fight, that I should not be delivered to the Jews: but now is my kingdom not from hence.
37 तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति।
Pilate therefore said to him, Art thou a King then? Jesus answered, Thou sayest that I am a King. To this end was I born, and for this cause came I into the world, that I should testify to the truth. Every one that is of the truth heareth my voice.
38 तदा सत्यं किं? एतां कथां पष्ट्वा पीलातः पुनरपि बहिर्गत्वा यिहूदीयान् अभाषत, अहं तस्य कमप्यपराधं न प्राप्नोमि।
Pilate saith to him, What is truth? And when he had said this, he went out again to the Jews, and saith to them, I find in him no fault.
39 निस्तारोत्सवसमये युष्माभिरभिरुचित एको जनो मया मोचयितव्य एषा युष्माकं रीतिरस्ति, अतएव युष्माकं निकटे यिहूदीयानां राजानं किं मोचयामि, युष्माकम् इच्छा का?
But ye have a custom that I should release to you one at the passover: will ye therefore that I release to you the King of the Jews?
40 तदा ते सर्व्वे रुवन्तो व्याहरन् एनं मानुषं नहि बरब्बां मोचय। किन्तु स बरब्बा दस्युरासीत्।
Then they all cried again, saying, Not this man, but Barabbas. Now Barabbas was a robber.

< योहनः 18 >