< याकूबः 4 >
1 युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?
No kurienes kari un kaušanās jūsu starpā? Vai ne no turienes, no jūsu kārībām, kas karo jūsu locekļos?
2 यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।
Jūs iekārojiet, un jums nav nenieka; jūs ienīstiet un skaužat un nevarat iedabūt; jūs kaujat un karojat, tomēr jums nav nenieka, tādēļ ka jūs nelūdziet,
3 यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।
Jūs lūdziet un nedabūjiet, tāpēc ka nepareizi lūdziet, lai to savās kārībās varētu aprīt.
4 हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।
Jūs laulības pārkāpēji un laulības pārkāpējas, vai jūs nezināt, ka šīs pasaules draudzība ir Dieva nīšana? Kas tad grib būt pasaules draugs, tas paliek Dievam par ienaidnieku.
5 यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?
Jeb vai jums šķiet, ka tas Raksts velti saka: Tam Garam, kas iekš mums mājo, gribās(ilgojās) pret To (ar) skaudību?
6 तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥
Bet Viņš dod lielāku žēlastību; tādēļ (tas raksts) saka: Dievs lepniem turas pretī, bet pazemīgiem Viņš dod žēlastību.
7 अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।
Tad nu padodaties Dievam, stāviet velnam pretī, tad viņš bēgs no jums.
8 ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।
Nāciet tuvu pie Dieva, tad Viņš nāks tuvu pie jums. Šķīstiet rokas, jūs grēcinieki, un dariet sirdis šķīstas, jūs divprātīgie!
9 यूयम् उद्विजध्वं शोचत विलपत च, युष्माकं हासः शोकाय, आनन्दश्च कातरतायै परिवर्त्तेतां।
Esiet bēdīgi un noskumuši un raudāt; jūsu smiekli lai pārvēršas par vaidiem, un jūsu līksmība par skumību.
10 प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।
Pazemojaties Tā Kunga priekšā, tad Viņš jūs paaugstinās.
11 हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।
Neaprunājiet cits citu, brāļi; kas brāli aprunā un savu brāli tiesā, tas aprunā bauslību un tiesā bauslību; bet ja tu bauslību tiesā, tad tu neesi bauslības darītājs, bet tiesātājs.
12 अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितुञ्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि?
Viens vienīgs ir Tas bauslības devējs un tiesātājs; Tas var pestīt un nomaitāt. Kas tu tāds esi, ka tu citu tiesā?
13 अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत।
Nu tad jūs, kas sakāt: šodien vai rītu mēs iesim uz šo vai to pilsētu un tur padzīvosim vienu gadu un pirksim un pārdosim un pelnīsimies;
14 श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं।
Un nezināt, kas rītu notiks, - jo kāda ir jūsu dzīvība? Tā ir tvaiks, kas mazu brīdi rādās un pēc iznīkst.
15 तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।
Tai vietā jums būtu jāsaka: Ja Tas Kungs gribēs un mēs dzīvosim, tad mēs šo vai to darīsim.
16 किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव।
Bet nu jūs lielāties savā lepnībā; visa tāda lielīšanās ir ļauna.
17 अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।
Tad nu, kas zina labu darīt un nedara, tam tas ir par grēku.