< इब्रिणः 9 >
1 स प्रथमो नियम आराधनाया विविधरीतिभिरैहिकपवित्रस्थानेन च विशिष्ट आसीत्।
抑前の約には拝禮の規定あり、世に属する聖所ありき。
2 यतो दूष्यमेकं निरमीयत तस्य प्रथमकोष्ठस्य नाम पवित्रस्थानमित्यासीत् तत्र दीपवृक्षो भोजनासनं दर्शनीयपूपानां श्रेणी चासीत्।
即ち第一の幕屋を造り、是に燈台と机と供の\麪と在りて、之を聖所と云ふ。
3 तत्पश्चाद् द्वितीयायास्तिरष्करिण्या अभ्यन्तरे ऽतिपवित्रस्थानमितिनामकं कोष्ठमासीत्,
又第二の幕の後に至聖所と云ふ幕屋ありて、
4 तत्र च सुवर्णमयो धूपाधारः परितः सुवर्णमण्डिता नियममञ्जूषा चासीत् तन्मध्ये मान्नायाः सुवर्णघटो हारोणस्य मञ्जरितदण्डस्तक्षितौ नियमप्रस्तरौ,
其内に、金の香台と全面金を着せたる契約の櫃と在り、其櫃の内には、マンナを入れたる金の壷と、芽ざしたりしアアロンの杖と、契約の二の石標と在り、
5 तदुपरि च करुणासने छायाकारिणौ तेजोमयौ किरूबावास्ताम्, एतेषां विशेषवृत्तान्तकथनाय नायं समयः।
尚其櫃の上に、贖罪所を覆る光榮の[二]ケルビム有しが、是等に就きては今逐一言ふに及ばず。
6 एतेष्वीदृक् निर्म्मितेषु याजका ईश्वरसेवाम् अनुतिष्ठनतो दूष्यस्य प्रथमकोष्ठं नित्यं प्रविशन्ति।
然て是等の物の備はる事斯の如くにして、第一の幕屋には禮拝を行ふ司祭等常に入れども、
7 किन्तु द्वितीयं कोष्ठं प्रतिवर्षम् एककृत्व एकाकिना महायाजकेन प्रविश्यते किन्त्वात्मनिमित्तं लोकानाम् अज्ञानकृतपापानाञ्च निमित्तम् उत्सर्ज्जनीयं रुधिरम् अनादाय तेन न प्रविश्यते।
第二の幕屋には一年に一度大司祭のみ入り、而も己が為、又民の不知罪の為に献ぐる血を持たざる事なかりき。
8 इत्यनेन पवित्र आत्मा यत् ज्ञापयति तदिदं तत् प्रथमं दूष्यं यावत् तिष्ठति तावत् महापवित्रस्थानगामी पन्था अप्रकाशितस्तिष्ठति।
是聖霊が、第一の幕屋の存する間は、聖所に入る道の未開けざるを示し給ふ所以にして、
9 तच्च दूष्यं वर्त्तमानसमयस्य दृष्टान्तः, यतो हेतोः साम्प्रतं संशोधनकालं यावद् यन्निरूपितं तदनुसारात् सेवाकारिणो मानसिकसिद्धिकरणेऽसमर्थाभिः
現時の為の前表なり。即ち供物と犠牲とは献げらると雖も、是等の物は禮拝者をして其良心をも完全ならしむる能はず、
10 केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति।
唯改正の時まで設けられたる飲食物、種々の洗潔、肉身上の掟に止れり。
11 अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा
然るにキリストは、将來の恵の大司祭として來り給ひ、更に広く、更に完全にして、人の手に成らざる、即ち此造物ならざる幕屋を経て、
12 छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्। (aiōnios )
牡山羊、犢の血を用ひず、己が血を以て一度聖所に入り、不朽の贖を得させ給ひしなり。 (aiōnios )
13 वृषछागानां रुधिरेण गवीभस्मनः प्रक्षेपेण च यद्यशुचिलोकाः शारीरिशुचित्वाय पूयन्ते,
蓋牡山羊、牡牛の血、及び若き牝牛の焼灰を注ぐ事は、穢れたる人々を、肉身上に於て潔めて聖とするものなれば、
14 तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते? (aiōnios )
况や聖霊を以て、己が穢なき身を神に献げ給ひしキリストの御血は、活き給へる神に事へ奉らしめん為に、死せる業より我等の良心を潔むべきをや。 (aiōnios )
15 स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्। (aiōnios )
故にキリストは新約の仲介者に在して、死を凌ぎて前の約の下に犯されたる過を贖ひ、召されたる人々に永遠の世嗣の約束を得させ給ふなり。 (aiōnios )
16 यत्र नियमो भवति तत्र नियमसाधकस्य बले र्मृत्युना भवितव्यं।
遺言書ある時は遺言者の死を要す、
17 यतो हतेन बलिना नियमः स्थिरीभवति किन्तु नियमसाधको बलि र्यावत् जीवति तावत् नियमो निरर्थकस्तिष्ठति।
其は遺言書は人死して後に効力あり、遺言せる人の存命せる間は、未だ其効あらざればなり。
18 तस्मात् स पूर्व्वनियमोऽपि रुधिरपातं विना न साधितः।
然れば第一の約も、血なくして立てられしには非ず、
19 फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे,
蓋モイゼ、律法によれる掟を悉く民一同に読聞かせし後、緋色の毛、ヒソッポと共に犢の血と牡山羊の血と水とを取り、律法の巻物と一般の民とに沃ぎて、
20 युष्मान् अधीश्वरो यं नियमं निरूपितवान् तस्य रुधिरमेतत्।
言ひけるは、是ぞ神の汝等に命じ給へる約の血なる、と、
21 तद्वत् स दूष्येऽपि सेवार्थकेषु सर्व्वपात्रेषु च रुधिरं प्रक्षिप्तवान्।
又幕屋と凡ての祭器とにも同じく血を沃ぎたり。
22 अपरं व्यवस्थानुसारेण प्रायशः सर्व्वाणि रुधिरेण परिष्क्रियन्ते रुधिरपातं विना पापमोचनं न भवति च।
斯て律法に從ひては、殆ど一切のもの血を以て潔められ、血を流す事なくしては赦さるる事なし。
23 अपरं यानि स्वर्गीयवस्तूनां दृष्टान्तास्तेषाम् एतैः पावनम् आवश्यकम् आसीत् किन्तु साक्षात् स्वर्गीयवस्तूनाम् एतेभ्यः श्रेष्ठेै र्बलिदानैः पावनमावश्यकं।
然れば在天の事物に象りたるものすら、血によりて潔まれば、在天の事物其物は、是等に優る犠牲によりて潔められざるべからず。
24 यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।
蓋イエズスの入り給ひしは、眞實のものの象に過ぎざる、手にて造られし聖所には非ず、天其物に入り給ひて、今は我等の為に、神の御目前に謁給ふなり。
25 यथा च महायाजकः प्रतिवर्षं परशोणितमादाय महापवित्रस्थानं प्रविशति तथा ख्रीष्टेन पुनः पुनरात्मोत्सर्गो न कर्त्तव्यः,
又大司祭が他のものの血を持ちて年々至聖所に入るが如く、屡己を献げ給はんとに非ず、
26 कर्त्तव्ये सति जगतः सृष्टिकालमारभ्य बहुवारं तस्य मृत्युभोग आवश्यकोऽभवत्; किन्त्विदानीं स आत्मोत्सर्गेण पापनाशार्थम् एककृत्वो जगतः शेषकाले प्रचकाशे। (aiōn )
然らずんば、開闢以來屡苦しみ給ふべかりしなり。然れど今世の末に當りて、己を犠牲として罪を亡ぼさん為に、一度現れ給ひしなり。 (aiōn )
27 अपरं यथा मानुषस्यैककृत्वो मरणं तत् पश्चाद् विचारो निरूपितोऽस्ति,
斯て人一度死して然る後に審判ある事の定まれるが如く、
28 तद्वत् ख्रीष्टोऽपि बहूनां पापवहनार्थं बलिरूपेणैककृत्व उत्ससृजे, अपरं द्वितीयवारं पापाद् भिन्नः सन् ये तं प्रतीक्षन्ते तेषां परित्राणार्थं दर्शनं दास्यति।
キリストも多くの人の罪を贖はんとて一度身を献げ給ひ、然て之を待ち奉る人々を救はん為に、再び罪を負はずして現れ給ふべし。