< इब्रिणः 7 >
1 शालमस्य राजा सर्व्वोपरिस्थस्येश्वरस्य याजकश्च सन् यो नृपतीनां मारणात् प्रत्यागतम् इब्राहीमं साक्षात्कृत्याशिषं गदितवान्,
麦基洗德曾是撒冷王,是至高上帝的祭司。亚伯拉罕战胜众王回来时,麦基洗德曾迎接他,并且给他祝福。
2 यस्मै चेब्राहीम् सर्व्वद्रव्याणां दशमांशं दत्तवान् स मल्कीषेदक् स्वनाम्नोऽर्थेन प्रथमतो धर्म्मराजः पश्चात् शालमस्य राजार्थतः शान्तिराजो भवति।
亚伯拉罕也把自己得来的一切,拿出十分之一来给他。麦基洗德的名字意思为“公正之王”;而撒冷王则是“平安之王”的意思。
3 अपरं तस्य पिता माता वंशस्य निर्णय आयुष आरम्भो जीवनस्य शेषश्चैतेषाम् अभावो भवति, इत्थं स ईश्वरपुत्रस्य सदृशीकृतः, स त्वनन्तकालं यावद् याजकस्तिष्ठति।
关于他的父亲、母亲或族谱,我们不得而知。也不知道他何时生死。就像上帝之子,他永远都是一名祭司。
4 अतएवास्माकं पूर्व्वपुरुष इब्राहीम् यस्मै लुठितद्रव्याणां दशमांशं दत्तवान् स कीदृक् महान् तद् आलोचयत।
想想这个人多伟大,即使祖先亚伯拉罕也要从战利品中拿出十分之一给他。
5 याजकत्वप्राप्ता लेवेः सन्ताना व्यवस्थानुसारेण लोकेभ्योऽर्थत इब्राहीमो जातेभ्यः स्वीयभ्रातृभ्यो दशमांशग्रहणस्यादेशं लब्धवन्तः।
是的,利未的子孙也是祭司,奉命按照律法向人民——也就是自己的兄弟姐妹、亚伯拉罕的后裔们,收取十分之一。
6 किन्त्वसौ यद्यपि तेषां वंशात् नोत्पन्नस्तथापीब्राहीमो दशमांशं गृहीतवान् प्रतिज्ञानाम् अधिकारिणम् आशिषं गदितवांश्च।
麦基洗德并非来自同一家族谱系,也收下了亚伯拉罕的十分之一,给这获得上帝承诺之人祝福。
7 अपरं यः श्रेयान् स क्षुद्रतरायाशिषं ददातीत्यत्र कोऽपि सन्देहो नास्ति।
更伟大之人向更渺小之人祝福,这一点毫无疑问。
8 अपरम् इदानीं ये दशमांशं गृह्लन्ति ते मृत्योरधीना मानवाः किन्तु तदानीं यो गृहीतवान् स जीवतीतिप्रमाणप्राप्तः।
在这里,收取十分之一之人都是必死之人;一但在这种情况下,他们被一个据说是永远活着的人所接受
9 अपरं दशमांशग्राही लेविरपीब्राहीम्द्वारा दशमांशं दत्तवान् एतदपि कथयितुं शक्यते।
可以这样说,连那收取十分之一的利未,也通过亚伯拉罕缴纳了十分之一。
10 यतो यदा मल्कीषेदक् तस्य पितरं साक्षात् कृतवान् तदानीं स लेविः पितुरुरस्यासीत्।
因为麦基洗德迎接亚伯拉罕时,利未还未从其父那里诞生。
11 अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्?
如果借着利未人的祭司制度能达到完美(人民是在这制度下领受律法的),为什么还需要照着麦基洗德的体系,另外指认一位祭司,而不是按照亚伦的体系呢?
12 यतो याजकवर्गस्य विनिमयेन सुतरां व्यवस्थाया अपि विनिमयो जायते।
如果祭司制度更改了,律法也必须更改。
13 अपरञ्च तद् वाक्यं यस्योद्देश्यं सोऽपरेण वंशेन संयुक्ताऽस्ति तस्य वंशस्य च कोऽपि कदापि वेद्याः कर्म्म न कृतवान्।
因为我们所指的那位,原属于另外一个支派的,这支派向来没有人在祭坛前供职。
14 वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं।
我们的主明明是犹大支派的后裔,关于这个支派,摩西并没有提及祭司。
15 तस्य स्पष्टतरम् अपरं प्रमाणमिदं यत् मल्कीषेदकः सादृश्यवतापरेण तादृशेन याजकेनोदेतव्यं,
让人更清楚的是,当另一位与麦基洗德相似的祭司出现时。
16 यस्य निरूपणं शरीरसम्बन्धीयविधियुक्तया व्यवस्थाया न भवति किन्त्वक्षयजीवनयुक्तया शक्त्या भवति।
他成为祭司,并非按着律法上人类祖先的条例,却是按照不能终止生命的能量。
17 यत ईश्वर इदं साक्ष्यं दत्तवान्, यथा, "त्वं मक्लीषेदकः श्रेण्यां याजकोऽसि सदातनः।" (aiōn )
所以他才会说:“你永远作祭司,按照麦基洗德的秩序。” (aiōn )
18 अनेनाग्रवर्त्तिनो विधे दुर्ब्बलताया निष्फलतायाश्च हेतोरर्थतो व्यवस्थया किमपि सिद्धं न जातमितिहेतोस्तस्य लोपो भवति।
从前的条例因为没有力量,所以没有用处,就废弃了
19 यया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते।
(因为律法从来没有让任何事变得完美)。但它却带来了更美的希望,借着这希望,我们就可以亲近上帝。
20 अपरं यीशुः शपथं विना न नियुक्तस्तस्मादपि स श्रेष्ठनियमस्य मध्यस्थो जातः।
这还要说道誓言,尽管那些人成为祭司并非通过誓言;
21 यतस्ते शपथं विना याजका जाताः किन्त्वसौ शपथेन जातः यतः स इदमुक्तः, यथा,
只有耶稣同时誓言确立,因为上帝对他说:“主已经庄严起誓,决不改变心意,你永远是祭司。” (aiōn )
22 "परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।" (aiōn )
耶稣既然是用誓言确立,就成了与上帝之间更美好约定关系的保证。
23 ते च बहवो याजका अभवन् यतस्ते मृत्युना नित्यस्थायित्वात् निवारिताः,
从前那些作祭司的,因为死亡妨碍他们无法长久留任,所以人数众多。
24 किन्त्वसावनन्तकालं यावत् तिष्ठति तस्मात् तस्य याजकत्वं न परिवर्त्तनीयं। (aiōn )
但由于耶稣永远长存,他的祭祀职位永不更改。 (aiōn )
25 ततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति।
因此,他能拯救那些通过他来到上帝面前之人;因为他永远活着,会为他们代求。
26 अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।
我们就需要他这样的大祭司:圣洁,没有错误;纯洁,区别于罪人,在最高的天堂中有自己的位置。
27 अपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं।
他不必像那些大祭司,天天先为自己的罪献祭,然后为人民的罪献祭;因为他献上了自己,就把这事一次而永远地做完了。
28 यतो व्यवस्थया ये महायाजका निरूप्यन्ते ते दौर्ब्बल्ययुक्ता मानवाः किन्तु व्यवस्थातः परं शपथयुक्तेन वाक्येन यो महायाजको निरूपितः सो ऽनन्तकालार्थं सिद्धः पुत्र एव। (aiōn )
律法所立的大祭司,都是不完美之人;但在律法以后,上帝用其誓言所立的儿子,却是永远完美。 (aiōn )