< इब्रिणः 5 >
1 यः कश्चित् महायाजको भवति स मानवानां मध्यात् नीतः सन् मानवानां कृत ईश्वरोद्देश्यविषयेऽर्थत उपहाराणां पापार्थकबलीनाञ्च दान नियुज्यते।
For ech bischop takun of men, is ordeyned for men in these thingis `that ben to God, that he offre yiftis and sacrifices for synnes.
2 स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।
Which may togidere sorewe with hem, that beth vnkunnynge and erren; for also he is enuyrounned with infirmytee.
3 एतस्मात् कारणाच्च यद्वत् लोकानां कृते तद्वद् आत्मकृतेऽपि पापार्थकबलिदानं तेन कर्त्तव्यं।
And therfor he owith, as for the puple, so also for hym silf, to offre for synnes.
4 स घोच्चपदः स्वेच्छातः केनापि न गृह्यते किन्तु हारोण इव य ईश्वरेणाहूयते तेनैव गृह्यते।
Nethir ony man taketh to hym onour, but he that is clepid of God, as Aaron was.
5 एवम्प्रकारेण ख्रीष्टोऽपि महायाजकत्वं ग्रहीतुं स्वीयगौरवं स्वयं न कृतवान्, किन्तु "मदीयतनयोऽसि त्वम् अद्यैव जनितो मयेति" वाचं यस्तं भाषितवान् स एव तस्य गौरवं कृतवान्।
So Crist clarifiede not hym silf, that he were bischop, but he that spak to hym, Thou art my sone, to dai Y gendride thee.
6 तद्वद् अन्यगीतेऽपीदमुक्तं, त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः। (aiōn )
As `in anothere place he seith, Thou art a prest with outen ende, aftir the ordre of Melchisedech. (aiōn )
7 स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थनाञ्च कृत्वा तत्फलरूपिणीं शङ्कातो रक्षां प्राप्य च
Which in the daies of his fleisch offride, with greet cry and teeris, preieris and bisechingis to hym that myyte make hym saaf fro deth, and was herd for his reuerence.
8 यद्यपि पुत्रोऽभवत् तथापि यैरक्लिश्यत तैराज्ञाग्रहणम् अशिक्षत।
And whanne he was Goddis sone, he lernyde obedience of these thingis that be suffride;
9 इत्थं सिद्धीभूय निजाज्ञाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो ऽभवत्। (aiōnios )
and he brouyt to the ende is maad cause of euerlastinge heelthe to alle that obeischen to hym, (aiōnios )
10 तस्मात् स मल्कीषेदकः श्रेणीभुक्तो महायाजक ईश्वरेणाख्यातः।
and is clepid of God a bischop, bi the ordre of Melchisedech.
11 तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः।
Of whom ther is to vs a greet word for to seie, and able to be expowned, for ye ben maad feble to here.
12 यतो यूयं यद्यपि समयस्य दीर्घत्वात् शिक्षका भवितुम् अशक्ष्यत तथापीश्वरस्य वाक्यानां या प्रथमा वर्णमाला तामधि शिक्षाप्राप्ति र्युष्माकं पुनरावश्यका भवति, तथा कठिनद्रव्ये नहि किन्तु दुग्धे युष्माकं प्रयोजनम् आस्ते।
For whanne ye ouyten to be maistris for tyme, eftsoone ye neden that ye be tauyt, whiche ben the lettris of the bigynnyng of Goddis wordis. And ye ben maad thilke, to whiche is nede of mylk, and not sad mete.
13 यो दुग्धपायी स शिशुरेवेतिकारणात् धर्म्मवाक्ये तत्परो नास्ति।
For ech that is parcenere of mylk, is with out part of the word of riytwisnesse, for he is a litil child.
14 किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।
But of perfit men is sad mete, of hem that for custom han wittis exercisid to discrecioun of good and of yuel.