< इफिषिणः 3 >

1 अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सोऽहं पौलो ब्रवीमि।
For this reason I, Paul, the prisoner of Jesus, the Christ, for the sake of you Gentiles –
2 युष्मदर्थम् ईश्वरेण मह्यं दत्तस्य वरस्य नियमः कीदृशस्तद् युष्माभिरश्रावीति मन्ये।
For you have heard, I suppose, of the responsible charge with which God entrusted me for your benefit,
3 अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं।
and also that it was by direct revelation that the hidden purpose of God was made known to me, as I have already briefly told you.
4 अतो युष्माभिस्तत् पठित्वा ख्रीष्टमधि तस्मिन्निगूढे भावे मम ज्ञानं कीदृशं तद् भोत्स्यते।
And, by reading what I have written, you will be able to judge how far I understand this hidden purpose of God in Christ.
5 पूर्व्वयुगेषु मानवसन्तानास्तं ज्ञापिता नासन् किन्त्वधुना स भावस्तस्य पवित्रान् प्रेरितान् भविष्यद्वादिनश्च प्रत्यात्मना प्रकाशितोऽभवत्;
In former generations it was not made known to humanity, as fully as it has now been revealed by the Spirit to the apostles and prophets among Christ’s people –
6 अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं,
That, by union with Christ Jesus and through the good news, the Gentiles are coheirs with us and members of one body, and that they share with us in God’s Promise.
7 तद्वारा ख्रीष्टेन भिन्नजातीया अन्यैः सार्द्धम् एकाधिकारा एकशरीरा एकस्याः प्रतिज्ञाया अंशिनश्च भविष्यन्तीति।
Of this good news I become an assistant, in virtue of the charge with which God entrusted me in the exercise of his power –
8 सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि,
Yes, to me, who am less than the least of all Christ’s people, was this charge entrusted! – to tell the Gentiles the good news of the boundless wealth to be found in the Christ,
9 कालावस्थातः पूर्व्वस्माच्च यो निगूढभाव ईश्वरे गुप्त आसीत् तदीयनियमं सर्व्वान् ज्ञापयामि। (aiōn g165)
and to make clear what is God’s way of working out that hidden purpose which from the first has been concealed in the mind of the Creator of all things; (aiōn g165)
10 यत ईश्वरस्य नानारूपं ज्ञानं यत् साम्प्रतं समित्या स्वर्गे प्राधान्यपराक्रमयुक्तानां दूतानां निकटे प्रकाश्यते तदर्थं स यीशुना ख्रीष्टेन सर्व्वाणि सृष्टवान्।
so that now to the archangels and to all the powers on high should be made known, through the church, the all-embracing wisdom of God,
11 यतो वयं यस्मिन् विश्वस्य दृढभक्त्या निर्भयताम् ईश्वरस्य समागमे सामर्थ्यञ्च
in accordance with that purpose which runs through all the ages and which he has now accomplished in Jesus, the Christ, our Master. (aiōn g165)
12 प्राप्तवन्तस्तमस्माकं प्रभुं यीशुं ख्रीष्टमधि स कालावस्थायाः पूर्व्वं तं मनोरथं कृतवान्। (aiōn g165)
And in union with him, and through our trust in him, we find courage to approach God with confidence.
13 अतोऽहं युष्मन्निमित्तं दुःखभोगेन क्लान्तिं यन्न गच्छामीति प्रार्थये यतस्तदेव युष्माकं गौरवं।
Therefore I beg you not to be disheartened at the sufferings that I am undergoing for your sakes; for they redound to your honor.
14 अतो हेतोः स्वर्गपृथिव्योः स्थितः कृत्स्नो वंशो यस्य नाम्ना विख्यातस्तम्
For this reason, then, I kneel before the Father –
15 अस्मत्प्रभो र्यीशुख्रीष्टस्य पितरमुद्दिश्याहं जानुनी पातयित्वा तस्य प्रभावनिधितो वरमिमं प्रार्थये।
from whom all ‘fatherhood’ in heaven and on earth derives its name –
16 तस्यात्मना युष्माकम् आन्तरिकपुरुषस्य शक्ते र्वृद्धिः क्रियतां।
and pray that, in proportion to the wealth of his glory, he will strengthen you with his power by breathing his Spirit into your inmost soul,
17 ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु।
so that the Christ, through your faith, may make his home within your hearts in love; and I pray that you, now firmly rooted and established, may, with all Christ’s people,
18 इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां,
have the power to comprehend in all its width and length and height and depth,
19 ज्ञानातिरिक्तं ख्रीष्टस्य प्रेम ज्ञायताम् ईश्वरस्य सम्पूर्णवृद्धिपर्य्यन्तं युष्माकं वृद्धि र्भवतु च।
and to understand – though it surpasses all understanding – the love of the Christ; and so be filled with all the fullness of God.
20 अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति
To him who, through his power which is at work within us, is able to do far more than anything that we can ask or conceive –
21 ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो भवतु। इति। (aiōn g165)
to him be all glory through the church and through Christ Jesus, for all generations, age after age. Amen. (aiōn g165)

< इफिषिणः 3 >