< प्रेरिताः 9 >

1 तत्कालपर्य्यनतं शौलः प्रभोः शिष्याणां प्रातिकूल्येन ताडनाबधयोः कथां निःसारयन् महायाजकस्य सन्निधिं गत्वा
Meanwhile Saul, still breathing murderous threats against the disciples of the Lord, went to the high priest,
2 स्त्रियं पुरुषञ्च तन्मतग्राहिणं यं कञ्चित् पश्यति तान् धृत्वा बद्ध्वा यिरूशालमम् आनयतीत्याशयेन दम्मेषक्नगरीयं धर्म्मसमाजान् प्रति पत्रं याचितवान्।
and asked him to give him letters to the Jewish congregations at Damascus, authorizing him, if he found there any supporters of the Way, whether men or women, to have them put in chains and brought to Jerusalem.
3 गच्छन् तु दम्मेषक्नगरनिकट उपस्थितवान्; ततोऽकस्माद् आकाशात् तस्य चतुर्दिक्षु तेजसः प्रकाशनात् स भूमावपतत्।
While on his journey, as he was nearing Damascus, suddenly a light from the heavens flashed around him.
4 पश्चात् हे शौल हे शौल कुतो मां ताडयसि? स्वं प्रति प्रोक्तम् एतं शब्दं श्रुत्वा
He fell to the ground and heard a voice saying to him – “Saul, Saul, why are you persecuting me?”
5 स पृष्टवान्, हे प्रभो भवान् कः? तदा प्रभुरकथयत् यं यीशुं त्वं ताडयसि स एवाहं; कण्टकस्य मुखे पदाघातकरणं तव कष्टम्।
“Who are you, Lord?” he asked. “I am Jesus, whom you are persecuting,” the voice answered;
6 तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।
“Yet stand up and go into the city, and you will be told what you must do.”
7 तस्य सङ्गिनो लोका अपि तं शब्दं श्रुतवन्तः किन्तु कमपि न दृष्ट्वा स्तब्धाः सन्तः स्थितवन्तः।
The men traveling with Saul were meanwhile standing speechless; they heard the sound of the voice, but saw no one.
8 अनन्तरं शौलो भूमित उत्थाय चक्षुषी उन्मील्य कमपि न दृष्टवान्। तदा लोकास्तस्य हस्तौ धृत्वा दम्मेषक्नगरम् आनयन्।
When Saul got up from the ground, though his eyes were open, he could see nothing. So his men led him by the hand, and brought him into Damascus;
9 ततः स दिनत्रयं यावद् अन्धो भूत्वा न भुक्तवान् पीतवांश्च।
and for three days he was unable to see, and took nothing either to eat or to drink.
10 तदनन्तरं प्रभुस्तद्दम्मेषक्नगरवासिन एकस्मै शिष्याय दर्शनं दत्वा आहूतवान् हे अननिय। ततः स प्रत्यवादीत्, हे प्रभो पश्य शृणोमि।
Now there was at Damascus a disciple named Ananias, to whom, in a vision, the Lord said, “Ananias.” “Yes, Lord,” he answered.
11 तदा प्रभुस्तमाज्ञापयत् त्वमुत्थाय सरलनामानं मार्गं गत्वा यिहूदानिवेशने तार्षनगरीयं शौलनामानं जनं गवेषयन् पृच्छ;
“Go at once,” said the Lord, “to the Straight Street, and ask at Judas’s house for a man named Saul, from Tarsus. He is at this moment praying,
12 पश्य स प्रार्थयते, तथा अननियनामक एको जनस्तस्य समीपम् आगत्य तस्य गात्रे हस्तार्पणं कृत्वा दृष्टिं ददातीत्थं स्वप्ने दृष्टवान्।
and he has seen, in a vision, a man named Ananias coming in and placing his hands on him, so that he may recover his sight.”
13 तस्माद् अननियः प्रत्यवदत् हे प्रभो यिरूशालमि पवित्रलोकान् प्रति सोऽनेकहिंसां कृतवान्;
“Lord,” exclaimed Ananias, “I have heard from many people about this man – how much harm he has done at Jerusalem to your people there.
14 अत्र स्थाने च ये लोकास्तव नाम्नि प्रार्थयन्ति तानपि बद्धुं स प्रधानयाजकेभ्यः शक्तिं प्राप्तवान्, इमां कथाम् अहम् अनेकेषां मुखेभ्यः श्रुतवान्।
And, here, too, he holds authority from the chief priests to put in chains all those who invoke your name.”
15 किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।
But the Lord said to him, “Go, for this man is my chosen instrument to uphold my name before the Gentiles and their kings, and the people of Israel.
16 मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि।
I will myself show him all that he has to suffer for my name.”
17 ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्।
So Ananias went, entered the house, and, placing his hands on Saul, said, “Saul, my brother, I have been sent by the Lord – by Jesus, who appeared to you on your way here – so that you may recover your sight and be filled with the Holy Spirit.”
18 इत्युक्तमात्रे तस्य चक्षुर्भ्याम् मीनशल्कवद् वस्तुनि निर्गते तत्क्षणात् स प्रसन्नचक्षु र्भूत्वा प्रोत्थाय मज्जितोऽभवत् भुक्त्वा पीत्वा सबलोभवच्च।
Instantly it seemed as if a film fell from Saul’s eyes, and his sight was restored. Then he got up and was baptized,
19 ततः परं शौलः शिष्यैः सह कतिपयदिवसान् तस्मिन् दम्मेषकनगरे स्थित्वाऽविलम्बं
and, after he had taken food, he felt his strength return. Saul stayed for some days with the disciples who were at Damascus,
20 सर्व्वभजनभवनानि गत्वा यीशुरीश्वरस्य पुत्र इमां कथां प्राचारयत्।
and at once began in the synagogues to proclaim Jesus as the Son of God.
21 तस्मात् सर्व्वे श्रोतारश्चमत्कृत्य कथितवन्तो यो यिरूशालम्नगर एतन्नाम्ना प्रार्थयितृलोकान् विनाशितवान् एवम् एतादृशलोकान् बद्ध्वा प्रधानयाजकनिकटं नयतीत्याशया एतत्स्थानमप्यागच्छत् सएव किमयं न भवति?
All who heard him were amazed. “Is not this,” they asked, “the man who worked havoc in Jerusalem among those that invoke this name, and who had also come here for the express purpose of having such persons put in chains and taken before the chief priests?”
22 किन्तु शौलः क्रमश उत्साहवान् भूत्वा यीशुरीश्वरेणाभिषिक्तो जन एतस्मिन् प्रमाणं दत्वा दम्मेषक्-निवासियिहूदीयलोकान् निरुत्तरान् अकरोत्।
Saul’s influence, however, kept steadily increasing, and he confounded the Jewish people who lived in Damascus by the proofs that he gave that Jesus was the Christ.
23 इत्थं बहुतिथे काले गते यिहूदीयलोकास्तं हन्तुं मन्त्रयामासुः
After some time some of them laid a plot to kill Saul,
24 किन्तु शौलस्तेषामेतस्या मन्त्रणाया वार्त्तां प्राप्तवान्। ते तं हन्तुं तु दिवानिशं गुप्ताः सन्तो नगरस्य द्वारेऽतिष्ठन्;
but it became known to him. They even watched the gates day and night, to kill him;
25 तस्मात् शिष्यास्तं नीत्वा रात्रौ पिटके निधाय प्राचीरेणावारोहयन्।
but his disciples let him down by night through an opening in the wall, lowering him in a basket.
26 ततः परं शौलो यिरूशालमं गत्वा शिष्यगणेन सार्द्धं स्थातुम् ऐहत्, किन्तु सर्व्वे तस्मादबिभयुः स शिष्य इति च न प्रत्ययन्।
On his arrival in Jerusalem, Saul attempted to join the disciples, but they were all afraid of him, as they did not believe that he was really a disciple.
27 एतस्माद् बर्णब्बास्तं गृहीत्वा प्रेरितानां समीपमानीय मार्गमध्ये प्रभुः कथं तस्मै दर्शनं दत्तवान् याः कथाश्च कथितवान् स च यथाक्षोभः सन् दम्मेषक्नगरे यीशो र्नाम प्राचारयत् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवान्।
Barnabas, however, taking him by the hand, brought him to the apostles, and told them the whole story of how Saul on his journey had seen the Lord, and how the Lord had talked to him, and how in Damascus he had spoken out fearlessly in the name of Jesus.
28 ततः शौलस्तैः सह यिरूशालमि कालं यापयन् निर्भयं प्रभो र्यीशो र्नाम प्राचारयत्।
After that, Saul remained in Jerusalem, in close contact with the apostles; and he spoke fearlessly in the name of the Lord,
29 तस्माद् अन्यदेशीयलोकैः सार्द्धं विवादस्योपस्थितत्वात् ते तं हन्तुम् अचेष्टन्त।
talking and arguing with the Jews of foreign birth, who, however, made attempts to kill him.
30 किन्तु भ्रातृगणस्तज्ज्ञात्वा तं कैसरियानगरं नीत्वा तार्षनगरं प्रेषितवान्।
But, when the followers found this out, they took him down to Caesarea, and sent him on his way to Tarsus.
31 इत्थं सति यिहूदियागालील्शोमिरोणदेशीयाः सर्व्वा मण्डल्यो विश्रामं प्राप्तास्ततस्तासां निष्ठाभवत् प्रभो र्भिया पवित्रस्यात्मनः सान्त्वनया च कालं क्षेपयित्वा बहुसंख्या अभवन्।
And so it came about that the church, throughout Judea, Galilee, and Samaria, enjoyed peace and became firmly established; and, ordering its life by respect for the Lord and the help of the Holy Spirit, it increased in numbers.
32 ततः परं पितरः स्थाने स्थाने भ्रमित्वा शेषे लोद्नगरनिवासिपवित्रलोकानां समीपे स्थितवान्।
Peter, while traveling from place to place throughout the country, went down to visit the people of Christ living at Lydda.
33 तदा तत्र पक्षाघातव्याधिनाष्टौ वत्सरान् शय्यागतम् ऐनेयनामानं मनुष्यं साक्षत् प्राप्य तमवदत्,
There he found a man named Aeneas, who had been bedridden for eight years with paralysis.
34 हे ऐनेय यीशुख्रीष्टस्त्वां स्वस्थम् अकार्षीत्, त्वमुत्थाय स्वशय्यां निक्षिप, इत्युक्तमात्रे स उदतिष्ठत्।
“Aeneas,” Peter said to him, “Jesus Christ cures you. Get up, and make your bed.” Aeneas got up at once;
35 एतादृशं दृष्ट्वा लोद्शारोणनिवासिनो लोकाः प्रभुं प्रति परावर्त्तन्त।
and all the inhabitants of Lydda and of the Plain of Sharon saw him, and came over to the Lord’s side.
36 अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी
At Joppa there lived a disciple whose name was Tabitha, which is in Greek ‘Dorcas’ – a Gazelle. Her life was spent in doing kind and charitable actions.
37 तस्मिन् समये रुग्ना सती प्राणान् अत्यजत्, ततो लोकास्तां प्रक्षाल्योपरिस्थप्रकोष्ठे शाययित्वास्थापयन्।
Just at that time she was taken ill, and died; and they had washed her body and laid it out in an upstairs room.
38 लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्।
Joppa was near Lydda, and the disciples, having heard that Peter was at Lydda, sent two men with the request that he come to them without delay.
39 तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्।
Peter returned with them at once. On his arrival, he was taken upstairs, and all the widows came around him in tears, showing the coats and other clothing which Dorcas had made while she was among them.
40 किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।
But Peter sent everybody out of the room, and knelt down and prayed. Then, turning to the body, he said, “Tabitha! Stand up.” She opened her eyes, and, seeing Peter, sat up.
41 ततः पितरस्तस्याः करौ धृत्वा उत्तोल्य पवित्रलोकान् विधवाश्चाहूय तेषां निकटे सजीवां तां समार्पयत्।
Giving her his hand, Peter raised her up, and, calling in the widows and others of Christ’s people, presented her to them alive.
42 एषा कथा समस्तयाफोनगरं व्याप्ता तस्माद् अनेके लोकाः प्रभौ व्यश्वसन्।
This became known all through Joppa, and numbers of people came to believe in the Lord.
43 अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।
And Peter stayed some days at Joppa with a tanner named Simon.

< प्रेरिताः 9 >