< प्रेरिताः 5 >
1 तदा अनानियनामक एको जनो यस्य भार्य्याया नाम सफीरा स स्वाधिकारं विक्रीय
But a man, Anany bi name, with Safira, his wijf,
2 स्वभार्य्यां ज्ञापयित्वा तन्मूल्यस्यैकांशं सङ्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्।
seelde a feeld, and defraudide of the prijs of the feeld; and his wijf was witinge. And he brouyte a part, and leide bifor the feet of the apostlis.
3 तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?
And Petre seide to hym, Anany, whi hath Sathanas temptid thin herte, that thou lye to the Hooli Goost, and to defraude of the prijs of the feeld?
4 सा भूमि र्यदा तव हस्तगता तदा किं तव स्वीया नासीत्? तर्हि स्वान्तःकरणे कुत एतादृशी कुकल्पना त्वया कृता? त्वं केवलमनुष्यस्य निकटे मृषावाक्यं नावादीः किन्त्वीश्वरस्य निकटेऽपि।
Whethir it vnseld was not thin; and whanne it was seld, it was in thi power? Whi hast thou put this thing in thin herte? Thou hast not lied to men, but to God.
5 एतां कथां श्रुत्वैव सोऽनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्।
Anany herde these wordis, and felde doun, and was deed. And greet drede was maad on alle that herden.
6 तदा युवलोकास्तं वस्त्रेणाच्छाद्य बहि र्नीत्वा श्मशानेऽस्थापयन्।
And yonge men risen, and mouyden hym awei, and baren hym out, and birieden.
7 ततः प्रहरैकानन्तरं किं वृत्तं तन्नावगत्य तस्य भार्य्यापि तत्र समुपस्थिता।
And ther was maad as a space of thre ouris, and his wijf knewe not that thing that was don, and entride.
8 ततः पितरस्ताम् अपृच्छत्, युवाभ्याम् एतावन्मुद्राभ्यो भूमि र्विक्रीता न वा? एतत्वं वद; तदा सा प्रत्यवादीत् सत्यम् एतावद्भ्यो मुद्राभ्य एव।
And Petre answerde to hir, Womman, seie to me, whether ye seelden the feeld for so mych? And sche seide, Yhe, for so mych.
9 ततः पितरोकथयत् युवां कथं परमेश्वरस्यात्मानं परीक्षितुम् एकमन्त्रणावभवतां? पश्य ये तव पतिं श्मशाने स्थापितवन्तस्ते द्वारस्य समीपे समुपतिष्ठन्ति त्वामपि बहिर्नेष्यन्ति।
And Petre seide to hyr, What bifelde to you, to tempte the spirit of the Lord? Lo! the feet of hem that han birieden thin hosebonde ben at the dore, and thei schulen bere thee out.
10 ततः सापि तस्य चरणसन्निधौ पतित्वा प्राणान् अत्याक्षीत्। पश्चात् ते युवानोऽभ्यन्तरम् आगत्य तामपि मृतां दृष्ट्वा बहि र्नीत्वा तस्याः पत्युः पार्श्वे श्मशाने स्थापितवन्तः।
Anoon sche felde doun at hise feet, and diede. And the yonge men entriden, and founden hir deed, and thei baren hir out, and birieden to hir hosebonde.
11 तस्मात् मण्डल्याः सर्व्वे लोका अन्यलोकाश्च तां वार्त्तां श्रुत्वा साध्वसं गताः।
And greet drede was maad in al the chirche, and in to alle that herden these thingis.
12 ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो ऽलिन्दे सम्भूयासन्।
And bi the hoondis of the apostlis signes and many wondris weren maad in the puple. And alle weren of oon acord in the porche of Salomon.
13 तेषां सङ्घान्तर्गो भवितुं कोपि प्रगल्भतां नागमत् किन्तु लोकास्तान् समाद्रियन्त।
But no man of othere durste ioyne hymsilf with hem, but the puple magnyfiede hem.
14 स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः।
And the multitude of men and of wymmen bileuynge in the Lord was more encreessid,
15 पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः।
so that thei brouyten out sike men in to stretis, and leiden in litle beddis and couchis, that whanne Petre cam, nameli the schadew of hym schulde schadewe ech of hem, and thei schulden be delyuerid fro her syknessis.
16 चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणोऽपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त।
And the multitude of citees niy to Jerusalem ran, bryngynge sijk men, and that weren trauelid of vnclene spiritis, whiche alle weren heelid.
17 अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च
But the prince of preestis roos vp, and alle that weren with hym, that is the eresye of Saduceis, and weren fillid with enuye;
18 महाक्रोधान्त्विताः सन्तः प्रेरितान् धृत्वा नीचलोकानां कारायां बद्ध्वा स्थापितवन्तः।
and leiden hondis on the apostlis, and puttiden hem in the comyn warde.
19 किन्तु रात्रौ परमेश्वरस्य दूतः काराया द्वारं मोचयित्वा तान् बहिरानीयाकथयत्,
But the aungel of the Lord openyde bi nyyt the yatis of the prisoun, and ledde hem out, and seide, Go ye,
20 यूयं गत्वा मन्दिरे दण्डायमानाः सन्तो लोकान् प्रतीमां जीवनदायिकां सर्व्वां कथां प्रचारयत।
and stonde ye, and speke in the temple to the puple alle the wordis of this lijf.
21 इति श्रुत्वा ते प्रत्यूषे मन्दिर उपस्थाय उपदिष्टवन्तः। तदा सहचरगणेन सहितो महायाजक आगत्य मन्त्रिगणम् इस्रायेल्वंशस्य सर्व्वान् राजसभासदः सभास्थान् कृत्वा कारायास्तान् आपयितुं पदातिगणं प्रेरितवान्।
Whom whanne thei hadden herd, thei entriden eerli in to the temple, and tauyten. And the prince of preestis cam, and thei that weren with him, and clepiden togidre the counsel, and alle the eldre men of the children of Israel; and senten to the prisoun, that thei schulden be brouyt forth.
22 ततस्ते गत्वा कारायां तान् अप्राप्य प्रत्यागत्य इति वार्त्ताम् अवादिषुः,
And whanne the mynystris camen, founden hem not, and for the prisoun was openyd, thei turneden ayen,
23 वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः।
and teelden, and seiden, We founden the prisoun schit with al diligence, and the keperis stondynge at the yatis; but we opneden, and founden no man ther ynne.
24 एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्।
And as the maiestratis of the temple, and the princis of preestis herden these wordis, thei doutiden of hem, what was don.
25 एतस्मिन्नेव समये कश्चित् जन आगत्य वार्त्तामेताम् अवदत् पश्यत यूयं यान् मानवान् कारायाम् अस्थापयत ते मन्दिरे तिष्ठन्तो लोकान् उपदिशन्ति।
But a man cam, and teelde to hem, For lo! tho men whiche ye han put in to prisoun, ben in the temple, and stonden, and techen the puple.
26 तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।
Thanne the magistrat wente with the mynystris, and brouyte hem with out violence; for thei dredden the puple, lest thei schulden be stonyd.
27 ते महासभाया मध्ये तान् अस्थापयन् ततः परं महायाजकस्तान् अपृच्छत्,
And whanne thei hadden brouyt hem, thei settiden hem in the counsel; and the princes of prestis axiden hem,
28 अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे।
and seiden, In comaundement we comaundiden you, that ye schulden not teche in this name, and lo! ye han fillid Jerusalem with youre teching, and ye wolen bringe on vs the blood of this man.
29 ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्।
And Petre answeride, and the apostlis, and seiden, It bihoueth to obeie to God, more than to men.
30 यं यीशुं यूयं क्रुशे वेधित्वाहत तम् अस्माकं पैतृक ईश्वर उत्थाप्य
God of oure fadris reiside Jhesu, whom ye slowen, hangynge in a tre.
31 इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमाञ्च कर्त्तुं राजानं परित्रातारञ्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्।
God enhaunside with his riythond this prince and sauyour, that penaunce were yyue to Israel, and remyssioun of synnes.
32 एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।
And we ben witnessis of these wordis, and the Hooli Goost, whom God yaf to alle obeischinge to him.
33 एतद्वाक्ये श्रुते तेषां हृदयानि विद्धान्यभवन् ततस्ते तान् हन्तुं मन्त्रितवन्तः।
Whanne thei herden these thingis, thei weren turmentid, and thouyten to sle hem.
34 एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्,
But a man roos in the counsel, a Farise, Gamaliel bi name, a doctour of the lawe, a worschipful man to al the puple, and comaundide the men to be put without forth for a while.
35 हे इस्रायेल्वंशीयाः सर्व्वे यूयम् एतान् मानुषान् प्रति यत् कर्त्तुम् उद्यतास्तस्मिन् सावधाना भवत।
And he seide to hem, Ye men of Israel, take tent to you silf on these men, what ye schulen do.
36 इतः पूर्व्वं थूदानामैको जन उपस्थाय स्वं कमपि महापुरुषम् अवदत्, ततः प्रायेण चतुःशतलोकास्तस्य मतग्राहिणोभवन् पश्चात् स हतोभवत् तस्याज्ञाग्राहिणो यावन्तो लोकास्ते सर्व्वे विर्कीर्णाः सन्तो ऽकृतकार्य्या अभवन्।
For bifore these daies Teodas, that seide hym silf to be sum man, to whom a noumbre of men consentiden, aboute foure hundrid; which was slayn, and alle that bileueden to hym, weren disparplit, and brouyt to nouyt.
37 तस्माज्जनात् परं नामलेखनसमये गालीलीययिहूदानामैको जन उपस्थाय बहूल्लोकान् स्वमतं ग्राहीतवान् ततः सोपि व्यनश्यत् तस्याज्ञाग्राहिणो यावन्तो लोका आसन् ते सर्व्वे विकीर्णा अभवन्।
Aftir this, Judas of Galilee was in the daies of professioun, and turnyde awei the puple aftir hym; and alle hou manye euere consentiden to hym, weren scatered, and he perischide.
38 अधुना वदामि, यूयम् एतान् मनुष्यान् प्रति किमपि न कृत्वा क्षान्ता भवत, यत एष सङ्कल्प एतत् कर्म्म च यदि मनुष्यादभवत् तर्हि विफलं भविष्यति।
And now therfor Y seie to you, departe ye fro these men, and suffre ye hem; for if this counsel ether werk is of men, it schal be vndon;
39 यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ।
but if it is of God, ye moun not vndo hem, lest perauenture ye be foundun to repugne God.
40 तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्।
And thei consentiden to him; and thei clepiden togidere the apostlis, and denounsiden to hem, that weren betun, that thei schulden no more speke in the name of Jhesu, and thei leten hem go.
41 किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।
And thei wenten ioiynge fro the siyt of the counsel, that thei weren had worthi to suffre dispisyng for the name of Jhesu.
42 ततः परं प्रतिदिनं मन्दिरे गृहे गृहे चाविश्रामम् उपदिश्य यीशुख्रीष्टस्य सुसंवादं प्रचारितवन्तः।
But ech dai thei ceessiden not in the temple, and aboute housis, to teche and to preche Jhesu Crist.