< प्रेरिताः 25 >
1 अनन्तरं फीष्टो निजराज्यम् आगत्य दिनत्रयात् परं कैसरियातो यिरूशालम्नगरम् आगमत्।
第八項 パウロ、フェストの法廷に出頭す フェスト赴任して三日の後、カイザリアよりエルザレムに上りければ、
2 तदा महायाजको यिहूदीयानां प्रधानलोकाश्च तस्य समक्षं पौलम् अपावदन्त।
司祭長等及びユデア人の重立ちたる者、パウロを訴へんとて其許に至り、
3 भवान् तं यिरूशालमम् आनेतुम् आज्ञापयत्विति विनीय ते तस्माद् अनुग्रहं वाञ्छितवन्तः।
御恵には命じてパウロをエルザレムに連行かしめ給へ、と願へり。是途中に待伏して、彼を殺さんとすればなり。
4 यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि।
フェスト答へて、パウロは守られてカイザリアに在り、我程なく出立すべければ、
5 ततस्तस्य मानुषस्य यदि कश्चिद् अपराधस्तिष्ठति तर्हि युष्माकं ये शक्नुवन्ति ते मया सह तत्र गत्वा तमपवदन्तु स एतां कथां कथितवान्।
若彼人に罪あらば、汝等の中の然るべき人々、我と共に下りて之を訴ふべし、と言へり。
6 दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्।
斯てフェストは、八日か十日ばかり彼等の中に滞在してカイザリアに下り、翌日法廷に坐し、命じてパウロを引出させしが、
7 पौले समुपस्थिते सति यिरूशालम्नगराद् आगता यिहूदीयलोकास्तं चतुर्दिशि संवेष्ट्य तस्य विरुद्धं बहून् महादोषान् उत्थापितवन्तः किन्तु तेषां किमपि प्रमाणं दातुं न शक्नुवन्तः।
パウロ召出されければ、エルザレムより下りたるユデア人等之を取圍みて、種々の重罪を負はせたれど、之を證する事能はざりき。
8 ततः पौलः स्वस्मिन् उत्तरमिदम् उदितवान्, यिहूदीयानां व्यवस्थाया मन्दिरस्य कैसरस्य वा प्रतिकूलं किमपि कर्म्म नाहं कृतवान्।
パウロは自ら弁解して、我ユデア人の律法に對しても、神殿に對しても、セザルに對しても、何らの罪を犯したる事なし、と言へり。
9 किन्तु फीष्टो यिहूदीयान् सन्तुष्टान् कर्त्तुम् अभिलषन् पौलम् अभाषत त्वं किं यिरूशालमं गत्वास्मिन् अभियोगे मम साक्षाद् विचारितो भविष्यसि?
フェストユデア人を喜ばせんとて、パウロに答へて、汝エルザレムに上り、彼處にて我前に裁判を受けん事を欲するか、と云ひしかば、
10 ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति।
パウロ云ひけるは、我はセザルの法廷に立てり、此處にて裁判せらるべし。汝の能く知れるが如く、我はユデア人に害を加へたる事なし、
11 कञ्चिदपराधं किञ्चन वधार्हं कर्म्म वा यद्यहम् अकरिष्यं तर्हि प्राणहननदण्डमपि भोक्तुम् उद्यतोऽभविष्यं, किन्तु ते मम समपवादं कुर्व्वन्ति स यदि कल्पितमात्रो भवति तर्हि तेषां करेषु मां समर्पयितुं कस्याप्यधिकारो नास्ति, कैसरस्य निकटे मम विचारो भवतु।
若害を加へたるか、或は死刑に當る何事をか為したらんには、我死を辞せず、然れど彼等が我に負はする事一も立たずば、誰も我を彼等に交付し得べからず、我セザルに上告す、と。
12 तदा फीष्टो मन्त्रिभिः सार्द्धं संमन्त्र्य पौलाय कथितवान्, कैसरस्य निकटे किं तव विचारो भविष्यति? कैसरस्य समीपं गमिष्यसि।
是に於てフェスト、陪席と談じて後答へけるは、汝セザルに上告したればセザルの許に往くべし、と。
13 कियद्दिनेभ्यः परम् आग्रिप्पराजा बर्णीकी च फीष्टं साक्षात् कर्त्तुं कैसरियानगरम् आगतवन्तौ।
數日を経てアグリッパ王及びベルニケは、フェストの安否を問はんとてカイザリアに下り、
14 तदा तौ बहुदिनानि तत्र स्थितौ ततः फीष्टस्तं राजानं पौलस्य कथां विज्ञाप्य कथयितुम् आरभत पौलनामानम् एकं बन्दि फीलिक्षो बद्धं संस्थाप्य गतवान्।
數日間滞在しければ、フェストパウロの事を王に告げて云ひけるは、茲にフェリクスより遺し置かれたる一人の囚人あり、
15 यिरूशालमि मम स्थितिकाले महायाजको यिहूदीयानां प्राचीनलोकाश्च तम् अपोद्य तम्प्रति दण्डाज्ञां प्रार्थयन्त।
我エルザレムに居りし時、司祭長、ユデア人の長老等、我許に來りて、之が宣告を願ひしかど、
16 ततोहम् इत्युत्तरम् अवदं यावद् अपोदितो जनः स्वापवादकान् साक्षात् कृत्वा स्वस्मिन् योऽपराध आरोपितस्तस्य प्रत्युत्तरं दातुं सुयोगं न प्राप्नोति, तावत्कालं कस्यापि मानुषस्य प्राणनाशाज्ञापनं रोमिलोकानां रीति र्नहि।
我、何人にもあれ、被告人が原告人と對面して罪を弁解する機を得ざる中に、之を刑罰するは、ロマ人の慣例に非ず、と答へたり。
17 ततस्तेष्वत्रागतेषु परस्मिन् दिवसेऽहम् अविलम्बं विचारासन उपविश्य तं मानुषम् आनेतुम् आज्ञापयम्।
是に由て彼等、時を移さず此處に集來りたれば。翌日我法廷に坐し、命じて彼人を引出さしめ、
18 तदनन्तरं तस्यापवादका उपस्थाय यादृशम् अहं चिन्तितवान् तादृशं कञ्चन महापवादं नोत्थाप्य
原告人等之に立會ひしに、我が嫌疑を懸けたる如き罪をば一點も負はせず、
19 स्वेषां मते तथा पौलो यं सजीवं वदति तस्मिन् यीशुनामनि मृतजने च तस्य विरुद्धं कथितवन्तः।
己が宗教及び活き居れりとパウロが断言せる一人の死者イエズスに関する問題を提出したるのみ、
20 ततोहं तादृग्विचारे संशयानः सन् कथितवान् त्वं यिरूशालमं गत्वा किं तत्र विचारितो भवितुम् इच्छसि?
我斯る問題には當惑したれば彼人に向ひて、汝エルザレムに至り、是に就きて裁判を受くる事を望むか、と云ひしに、
21 तदा पौलो महाराजस्य निकटे विचारितो भवितुं प्रार्थयत, तस्माद् यावत्कालं तं कैसरस्य समीपं प्रेषयितुं न शक्नोमि तावत्कालं तमत्र स्थापयितुम् आदिष्टवान्।
パウロはオグストの裁判に保留せらるる様上告せしかば、我命じて、セザルの許に送るまで守らせ置けり、と。
22 तत आग्रिप्पः फीष्टम् उक्तवान्, अहमपि तस्य मानुषस्य कथां श्रोतुम् अभिलषामि। तदा फीष्टो व्याहरत् श्वस्तदीयां कथां त्वं श्रोष्यसि।
アグリッパ、我も彼人に聞きたし、とフェストに謂ひしかば、汝明日之に聞くべし、と云へり。
23 परस्मिन् दिवसे आग्रिप्पो बर्णीकी च महासमागमं कृत्वा प्रधानवाहिनीपतिभि र्नगरस्थप्रधानलोकैश्च सह मिलित्वा राजगृहमागत्य समुपस्थितौ तदा फीष्टस्याज्ञया पौल आनीतोऽभवत्।
翌日アグリッパとベルニケと華美を盡して來り、千夫長及び市の重立ちたる人々と共に公判廷に入りしかば、フェストの命令の下にパウロ引出されたり。
24 तदा फीष्टः कथितवान् हे राजन् आग्रिप्प हे उपस्थिताः सर्व्वे लोका यिरूशालम्नगरे यिहूदीयलोकसमूहो यस्मिन् मानुषे मम समीपे निवेदनं कृत्वा प्रोच्चैः कथामिमां कथितवान् पुनरल्पकालमपि तस्य जीवनं नोचितं तमेतं मानुषं पश्यत।
斯てフェスト云ひけるは、アグリッパ王及び此處に我等と列席せる人等よ、汝等の見る此人は、ユデア人の群衆挙りて我に訴へ、最早活くべき者に非ず、と叫びつつ願ひし者なり。
25 किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्।
然して我は死に値する何等の罪なき事を彼に認めたれど、彼オグストに上告せしにより、之を送付すべしと決せり。
26 किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये।
我君に上書せんとするに確乎なる事實なきを以て、之を汝等の前、殊にアグリッパ王よ、御前に引出し、尋問して上書すべき事柄を得んとす、
27 यतो बन्दिप्रेषणसमये तस्याभियोगस्य किञ्चिदलेखनम् अहम् अयुक्तं जानामि।
其は囚人を送りて其罪案を書添へざる事の無理なるを惟へばなり、と。