< प्रेरिताः 23 >
1 सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि।
And Paul, looking stedfastly on the council, said, Brethren, I have lived before God in all good conscience until this day.
2 अनेन हनानीयनामा महायाजकस्तं कपोले चपेटेनाहन्तुं समीपस्थलोकान् आदिष्टवान्।
And the high priest Ananias commanded them that stood by him to smite him on the mouth.
3 तदा पौलस्तमवदत्, हे बहिष्परिष्कृत, ईश्वरस्त्वां प्रहर्त्तुम् उद्यतोस्ति, यतो व्यवस्थानुसारेण विचारयितुम् उपविश्य व्यवस्थां लङ्घित्वा मां प्रहर्त्तुम् आज्ञापयसि।
Then said Paul unto him, God shall smite thee, thou whited wall: and sittest thou to judge me according to the law, and commandest me to be smitten contrary to the law?
4 ततो निकटस्था लोका अकथयन्, त्वं किम् ईश्वरस्य महायाजकं निन्दसि?
And they that stood by said, Revilest thou God’s high priest?
5 ततः पौलः प्रतिभाषितवान् हे भ्रातृगण महायाजक एष इति न बुद्धं मया तदन्यच्च स्वलोकानाम् अधिपतिं प्रति दुर्व्वाक्यं मा कथय, एतादृशी लिपिरस्ति।
And Paul said, I knew not, brethren, that he was high priest: for it is written, Thou shalt not speak evil of a ruler of thy people.
6 अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।
But when Paul perceived that the one part were Sadducees and the other Pharisees, he cried out in the council, Brethren, I am a Pharisee, a son of Pharisees: touching the hope and resurrection of the dead I am called in question.
7 इति कथायां कथितायां फिरूशिसिदूकिनोः परस्परं भिन्नवाक्यत्वात् सभाया मध्ये द्वौ संघौ जातौ।
And when he had so said, there arose a dissension between the Pharisees and Sadducees; and the assembly was divided.
8 यतः सिदूकिलोका उत्थानं स्वर्गीयदूता आत्मानश्च सर्व्वेषाम् एतेषां कमपि न मन्यन्ते, किन्तु फिरूशिनः सर्व्वम् अङ्गीकुर्व्वन्ति।
For the Sadducees say that there is no resurrection, neither angel, nor spirit; but the Pharisees confess both.
9 ततः परस्परम् अतिशयकोलाहले समुपस्थिते फिरूशिनां पक्षीयाः सभास्था अध्यापकाः प्रतिपक्षा उत्तिष्ठन्तो ऽकथयन्, एतस्य मानवस्य कमपि दोषं न पश्यामः; यदि कश्चिद् आत्मा वा कश्चिद् दूत एनं प्रत्यादिशत् तर्हि वयम् ईश्वरस्य प्रातिकूल्येन न योत्स्यामः।
And there arose a great clamor: and some of the scribes of the Pharisees’ part stood up, and strove, saying, We find no evil in this man: and what if a spirit hath spoken to him, or an angel?
10 तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।
And when there arose a great dissension, the chief captain, fearing lest Paul should be torn in pieces by them, commanded the soldiers to go down and take him by force from among them, and bring him into the castle.
11 रात्रो प्रभुस्तस्य समीपे तिष्ठन् कथितवान् हे पौल निर्भयो भव यथा यिरूशालम्नगरे मयि साक्ष्यं दत्तवान् तथा रोमानगरेपि त्वया दातव्यम्।
And the night following the Lord stood by him, and said, Be of good cheer: for as thou hast testified concerning me at Jerusalem, so must thou bear witness also at Rome.
12 दिने समुपस्थिते सति कियन्तो यिहूदीयलोका एकमन्त्रणाः सन्तः पौलं न हत्वा भोजनपाने करिष्याम इति शपथेन स्वान् अबध्नन्।
And when it was day, the Jews banded together, and bound themselves under a curse, saying that they would neither eat nor drink till they had killed Paul.
13 चत्वारिंशज्जनेभ्योऽधिका लोका इति पणम् अकुर्व्वन्।
And they were more than forty that made this conspiracy.
14 ते महायाजकानां प्राचीनलोकानाञ्च समीपं गत्वा कथयन्, वयं पौलं न हत्वा किमपि न भोक्ष्यामहे दृढेनानेन शपथेन बद्ध्वा अभवाम।
And they came to the chief priests and the elders, and said, We have bound ourselves under a great curse, to taste nothing until we have killed Paul.
15 अतएव साम्प्रतं सभासद्लोकैः सह वयं तस्मिन् कञ्चिद् विशेषविचारं करिष्यामस्तदर्थं भवान् श्वो ऽस्माकं समीपं तम् आनयत्विति सहस्रसेनापतये निवेदनं कुरुत तेन युष्माकं समीपं उपस्थितेः पूर्व्वं वयं तं हन्तु सज्जिष्याम।
Now therefore do ye with the council signify to the chief captain that he bring him down unto you, as though ye would judge of his case more exactly: and we, before he comes near, are ready to slay him.
16 तदा पौलस्य भागिनेयस्तेषामिति मन्त्रणां विज्ञाय दुर्गं गत्वा तां वार्त्तां पौलम् उक्तवान्।
But Paul’s sister’s son heard of their lying in wait, and he came and entered into the castle and told Paul.
17 तस्मात् पौल एकं शतसेनापतिम् आहूय वाक्यमिदम् भाषितवान् सहस्रसेनापतेः समीपेऽस्य युवमनुष्यस्य किञ्चिन्निवेदनम् आस्ते, तस्मात् तत्सविधम् एनं नय।
And Paul called unto him one of the centurions, and said, Bring this young man unto the chief captain; for he hath something to tell him.
18 ततः स तमादाय सहस्रसेनापतेः समीपम् उपस्थाय कथितवान्, भवतः समीपेऽस्य किमपि निवेदनमास्ते तस्मात् बन्दिः पौलो मामाहूय भवतः समीपम् एनम् आनेतुं प्रार्थितवान्।
So he took him, and brought him to the chief captain, and saith, Paul the prisoner called me unto him, and asked me to bring this young man unto thee, who hath something to say to thee.
19 तदा सहस्रसेनापतिस्तस्य हस्तं धृत्वा निर्जनस्थानं नीत्वा पृष्ठवान् तव किं निवेदनं? तत् कथय।
And the chief captain took him by the hand, and going aside asked him privately, What is it that thou hast to tell me?
20 ततः सोकथयत्, यिहूदीयलाकाः पौले कमपि विशेषविचारं छलं कृत्वा तं सभां नेतुं भवतः समीपे निवेदयितुं अमन्त्रयन्।
And he said, The Jews have agreed to ask thee to bring down Paul to-morrow unto the council, as though thou wouldest inquire somewhat more exactly concerning him.
21 किन्तु मवता तन्न स्वीकर्त्तव्यं यतस्तेषां मध्येवर्त्तिनश्चत्वारिंशज्जनेभ्यो ऽधिकलोका एकमन्त्रणा भूत्वा पौलं न हत्वा भोजनं पानञ्च न करिष्याम इति शपथेन बद्धाः सन्तो घातका इव सज्जिता इदानीं केवलं भवतो ऽनुमतिम् अपेक्षन्ते।
Do not thou therefore yield unto them: for there lie in wait for him of them more than forty men, who have bound themselves under a curse, neither to eat nor to drink till they have slain him: and now are they ready, looking for the promise from thee.
22 यामिमां कथां त्वं निवेदितवान् तां कस्मैचिदपि मा कथयेत्युक्त्वा सहस्रसेनापतिस्तं युवानं विसृष्टवान्।
So the chief captain let the young man go, charging him, Tell no man that thou hast signified these things to me.
23 अनन्तरं सहस्रसेनापति र्द्वौ शतसेनापती आहूयेदम् आदिशत्, युवां रात्रौ प्रहरैकावशिष्टायां सत्यां कैसरियानगरं यातुं पदातिसैन्यानां द्वे शते घोटकारोहिसैन्यानां सप्ततिं शक्तिधारिसैन्यानां द्वे शते च जनान् सज्जितान् कुरुतं।
And he called unto him two of the centurions, and said, Make ready two hundred soldiers to go as far as Cæsarea, and horsemen threescore and ten, and spearmen two hundred, at the third hour of the night:
24 पौलम् आरोहयितुं फीलिक्षाधिपतेः समीपं निर्व्विघ्नं नेतुञ्च वाहनानि समुपस्थापयतं।
and [he bade them] provide beasts, that they might set Paul thereon, and bring him safe unto Felix the governor.
25 अपरं स पत्रं लिखित्वा दत्तवान् तल्लिखितमेतत्,
And he wrote a letter after this form:
26 महामहिमश्रीयुक्तफीलिक्षाधिपतये क्लौदियलुषियस्य नमस्कारः।
Claudius Lysias unto the most excellent governor Felix, greeting.
27 यिहूदीयलोकाः पूर्व्वम् एनं मानवं धृत्वा स्वहस्तै र्हन्तुम् उद्यता एतस्मिन्नन्तरे ससैन्योहं तत्रोपस्थाय एष जनो रोमीय इति विज्ञाय तं रक्षितवान्।
This man was seized by the Jews, and was about to be slain of them, when I came upon them with the soldiers and rescued him, having learned that he was a Roman.
28 किन्निमित्तं ते तमपवदन्ते तज्ज्ञातुं तेषा सभां तमानायितवान्।
And desiring to know the cause wherefore they accused him, I brought him down unto their council:
29 ततस्तेषां व्यवस्थाया विरुद्धया कयाचन कथया सोऽपवादितोऽभवत्, किन्तु स शृङ्खलबन्धनार्हो वा प्राणनाशार्हो भवतीदृशः कोप्यपराधो मयास्य न दृष्टः।
whom I found to be accused about questions of their law, but to have nothing laid to his charge worthy of death or of bonds.
30 तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्।
And when it was shown to me that there would be a plot against the man, I sent him to thee forthwith, charging his accusers also to speak against him before thee.
31 सैन्यगण आज्ञानुसारेण पौलं गृहीत्वा तस्यां रजन्याम् आन्तिपात्रिनगरम् आनयत्।
So the soldiers, as it was commanded them, took Paul and brought him by night to Antipatris.
32 परेऽहनि तेन सह यातुं घोटकारूढसैन्यगणं स्थापयित्वा परावृत्य दुर्गं गतवान्।
But on the morrow they left the horsemen to go with him, and returned to the castle:
33 ततः परे घोटकारोहिसैन्यगणः कैसरियानगरम् उपस्थाय तत्पत्रम् अधिपतेः करे समर्प्य तस्य समीपे पौलम् उपस्थापितवान्।
and they, when they came to Cæsarea and delivered the letter to the governor, presented Paul also before him.
34 तदाधिपतिस्तत्पत्रं पठित्वा पृष्ठवान् एष किम्प्रदेशीयो जनः? स किलिकियाप्रदेशीय एको जन इति ज्ञात्वा कथितवान्,
And when he had read it, he asked of what province he was; and when he understood that he was of Cilicia,
35 तवापवादकगण आगते तव कथां श्रोष्यामि। हेरोद्राजगृहे तं स्थापयितुम् आदिष्टवान्।
I will hear thee fully, said he, when thine accusers also are come: and he commanded him to be kept in Herod’s palace.