< प्रेरिताः 22 >
1 हे पितृगणा हे भ्रातृगणाः, इदानीं मम निवेदने समवधत्त।
Britheren and fadris, here ye what resoun Y yelde now to you.
2 तदा स इब्रीयभाषया कथां कथयतीति श्रुत्वा सर्व्वे लोका अतीव निःशब्दा सन्तोऽतिष्ठन्।
And whanne sum herden that in Ebrew tunge he spak to hem, thei yauen the more silence.
3 पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः, एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।
And he seide, Y am a man a Jew, borun at Tharse of Cilicie, nurischid and in this citee bisidis the feet of Gamaliel, tauyt bi the treuthe of fadris lawe, a louyere of the lawe, as also ye alle ben to dai.
4 मतमेतद् द्विष्ट्वा तद्ग्राहिनारीपुरुषान् कारायां बद्ध्वा तेषां प्राणनाशपर्य्यन्तां विपक्षताम् अकरवम्।
And Y pursuede this weie til to the deth, byndynge and bitakinge `in to holdis men and wymmen,
5 महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।
as the prince of prestis yeldith witnessyng to me, and alle the grettest in birth. Of whom also Y took pistlis to britheren, and wente to Damask, to bring fro thennys men boundun in to Jerusalem, that thei schulden be peyned.
6 किन्तु गच्छन् तन्नगरस्य समीपं प्राप्तवान् तदा द्वितीयप्रहरवेलायां सत्याम् अकस्माद् गगणान्निर्गत्य महती दीप्ति र्मम चतुर्दिशि प्रकाशितवती।
And it was don, while Y yede, and neiyede to Damask, at myddai sudeynli fro heuene a greet plente of liyt schoon aboute me.
7 ततो मयि भूमौै पतिते सति, हे शौल हे शौल कुतो मां ताडयसि? माम्प्रति भाषित एतादृश एको रवोपि मया श्रुतः।
And Y felde doun to the erthe, and herde a voice fro heuene, seiynge to me, Saul, Saul, what pursuest thou me? It is hard to thee to kike ayens the pricke.
8 तदाहं प्रत्यवदं, हे प्रभे को भवान्? ततः सोऽवादीत् यं त्वं ताडयसि स नासरतीयो यीशुरहं।
And Y answeride, Who art thou, Lord? And he seide to me, Y am Jhesu of Nazareth, whom thou pursuest.
9 मम सङ्गिनो लोकास्तां दीप्तिं दृष्ट्वा भियं प्राप्ताः, किन्तु माम्प्रत्युदितं तद्वाक्यं तेे नाबुध्यन्त।
And thei that weren with me sien but the liyt, but thei herden not the vois of hym, that spak with me.
10 ततः परं पृष्टवानहं, हे प्रभो मया किं कर्त्तव्यं? ततः प्रभुरकथयत्, उत्थाय दम्मेषकनगरं याहि त्वया यद्यत् कर्त्तव्यं निरूपितमास्ते तत् तत्र त्वं ज्ञापयिष्यसे।
And Y seide, Lord, what schal Y do? And the Lord seide to me, Rise thou, and go to Damask; and there it schal be seid to thee, of alle thingis which it bihoueth thee to do.
11 अनन्तरं तस्याः खरतरदीप्तेः कारणात् किमपि न दृष्ट्वा सङ्गिगणेन धृतहस्तः सन् दम्मेषकनगरं व्रजितवान्।
And whanne Y saye not, for the clerete of that liyt, Y was led bi the hond of felowis, and Y cam to Damask.
12 तन्नगरनिवासिनां सर्व्वेषां यिहूदीयानां मान्यो व्यवस्थानुसारेण भक्तश्च हनानीयनामा मानव एको
And a man, Ananye, that bi the lawe hadde wytnessyng of alle Jewis dwellinge in Damask,
13 मम सन्निधिम् एत्य तिष्ठन् अकथयत्, हे भ्रातः शौल सुदृष्टि र्भव तस्मिन् दण्डेऽहं सम्यक् तं दृष्टवान्।
cam to me, and stood niy, and seide to me, Saul, brother, biholde. And Y in the same our biheelde in to hym.
14 ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं।
And he seide, God of oure fadris hath bifor ordeyned thee, that thou schuldist knowe the wille of him, and schuldist se the riytful man, and here the vois of his mouth.
15 यतो यद्यद् अद्राक्षीरश्रौषीश्च सर्व्वेषां मानवानां समीपे त्वं तेषां साक्षी भविष्यसि।
For thou schalt be his witnesse to alle men, of tho thingis that thou hast seyn and herd.
16 अतएव कुतो विलम्बसे? प्रभो र्नाम्ना प्रार्थ्य निजपापप्रक्षालनार्थं मज्जनाय समुत्तिष्ठ।
And now, what dwellist thou? Rise vp, and be baptisid, and waische awei thi synnes, bi the name of hym clepid to help.
17 ततः परं यिरूशालम्नगरं प्रत्यागत्य मन्दिरेऽहम् एकदा प्रार्थये, तस्मिन् समयेऽहम् अभिभूतः सन् प्रभूं साक्षात् पश्यन्,
And it was don to me, as Y turnede ayen in to Jerusalem, and preyede in the temple, that Y was maad in rauysching of soule,
18 त्वं त्वरया यिरूशालमः प्रतिष्ठस्व यतो लोकामयि तव साक्ष्यं न ग्रहीष्यन्ति, माम्प्रत्युदितं तस्येदं वाक्यम् अश्रौषम्।
and Y siy him seiynge to me, Hiye thou, and go out faste of Jerusalem, for thei schulen not resseyue thi witnessing of me.
19 ततोहं प्रत्यवादिषम् हे प्रभो प्रतिभजनभवनं त्वयि विश्वासिनो लोकान् बद्ध्वा प्रहृतवान्,
And Y seide, Lord, thei witen, that Y was closing togidir `in to prisoun, and betinge bi synagogis hem that bileueden `in to thee.
20 तथा तव साक्षिणः स्तिफानस्य रक्तपातनसमये तस्य विनाशं सम्मन्य सन्निधौ तिष्ठन् हन्तृलोकानां वासांसि रक्षितवान्, एतत् ते विदुः।
And whanne the blood of Steuene, thi witnesse, was sched out, Y stood niy, and consentide, and kept the clothis of men that slowen hym.
21 ततः सोऽकथयत् प्रतिष्ठस्व त्वां दूरस्थभिन्नदेशीयानां समीपं प्रेषयिष्ये।
And he seide to me, Go thou, for Y schal sende thee fer to naciouns.
22 तदा लोका एतावत्पर्य्यन्तां तदीयां कथां श्रुत्वा प्रोच्चैरकथयन्, एनं भूमण्डलाद् दूरीकुरुत, एतादृशजनस्य जीवनं नोचितम्।
And thei herden him til this word; and thei reiseden her vois, and seiden, Take awei fro the erthe siche a maner man; for it is not leueful, that he lyue.
23 इत्युच्चैः कथयित्वा वसनानि परित्यज्य गगणं प्रति धूलीरक्षिपन्
And whanne thei crieden, and kesten awei her clothis, and threwen dust in to the eir,
24 ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्।
the tribune comaundide hym to be led in to castels, and to be betun with scourgis, and to be turmentid, that he wiste, for what cause thei crieden so to him.
25 पदातयश्चर्म्मनिर्म्मितरज्जुभिस्तस्य बन्धनं कर्त्तुमुद्यतास्तास्तदानीं पौलः सम्मुखस्थितं शतसेनापतिम् उक्तवान् दण्डाज्ञायाम् अप्राप्तायां किं रोमिलोकं प्रहर्त्तुं युष्माकम् अधिकारोस्ति?
And whanne thei hadden boundun hym with cordis, Poul seide to a centurien stondinge niy to hym, Whether it is leueful to you, to scourge a Romayn, and vndampned?
26 एनां कथां श्रुत्वा स सहस्रसेनापतेः सन्निधिं गत्वा तां वार्त्तामवदत् स रोमिलोक एतस्मात् सावधानः सन् कर्म्म कुरु।
And whanne this thing was herd, the centurien wente to the tribune, and telde to hym, and seide, What art thou to doynge? for this man is a citeseyn of Rome.
27 तस्मात् सहस्रसेनापति र्गत्वा तमप्राक्षीत् त्वं किं रोमिलोकः? इति मां ब्रूहि। सोऽकथयत् सत्यम्।
And the tribune cam niy, and seide to hym, Seie thou to me, whether thou art a Romayn?
28 ततः सहस्रसेनापतिः कथितवान् बहुद्रविणं दत्त्वाहं तत् पौरसख्यं प्राप्तवान्; किन्तु पौलः कथितवान् अहं जनुना तत् प्राप्तोऽस्मि।
And he seide, Yhe. And the tribune answeride, Y with myche summe gat this fredom. And Poul seide, And Y was borun a citeseyn of Rome.
29 इत्थं सति ये प्रहारेण तं परीक्षितुं समुद्यता आसन् ते तस्य समीपात् प्रातिष्ठन्त; सहस्रसेनापतिस्तं रोमिलोकं विज्ञाय स्वयं यत् तस्य बन्धनम् अकार्षीत् तत्कारणाद् अबिभेत्।
Therfor anoon thei that schulden haue turmentid hym, departiden awei fro hym. And the tribune dredde, aftir that he wiste, that he was a citeseyn of Rome, and for he hadde boundun hym.
30 यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्।
But in the dai suynge he wolde wite more diligentli, for what cause he were accusid of the Jewis, and vnbounde hym, and comaundide prestis and al the counsel to come togidir. And he brouyte forth Poul, and sette hym among hem.