< प्रेरिताः 2 >

1 अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्।
And whanne the daies of Pentecost weren fillid, alle the disciplis weren togidre in the same place.
2 एतस्मिन्नेव समयेऽकस्माद् आकाशात् प्रचण्डात्युग्रवायोः शब्दवद् एकः शब्द आगत्य यस्मिन् गृहे त उपाविशन् तद् गृहं समस्तं व्याप्नोत्।
And sodeynli ther was maad a sown fro heuene, as of a greet wynde comynge, and it fillide al the hous where thei saten.
3 ततः परं वह्निशिखास्वरूपा जिह्वाः प्रत्यक्षीभूय विभक्ताः सत्यः प्रतिजनोर्द्ध्वे स्थगिता अभूवन्।
And diuerse tungis as fier apperiden to hem, and it sat on ech of hem.
4 तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।
And alle weren fillid with the Hooli Goost, and thei bigunnen to speke diuerse langagis, as the Hooli Goost yaf to hem for to speke.
5 तस्मिन् समये पृथिवीस्थसर्व्वदेशेभ्यो यिहूदीयमतावलम्बिनो भक्तलोका यिरूशालमि प्रावसन्;
And ther weren in Jerusalem dwellinge Jewis, religiouse men, of ech nacioun that is vndur heuene.
6 तस्याः कथायाः किंवदन्त्या जातत्वात् सर्व्वे लोका मिलित्वा निजनिजभाषया शिष्याणां कथाकथनं श्रुत्वा समुद्विग्ना अभवन्।
And whanne this vois was maad, the multitude cam togidere, and thei weren astonyed in thouyt, for ech man herde hem spekinge in his langage.
7 सर्व्वएव विस्मयापन्ना आश्चर्य्यान्विताश्च सन्तः परस्परं उक्तवन्तः पश्यत ये कथां कथयन्ति ते सर्व्वे गालीलीयलोकाः किं न भवन्ति?
And alle weren astonyed, and wondriden, and seiden togidere, Whether not alle these that speken ben men of Galyle,
8 तर्हि वयं प्रत्येकशः स्वस्वजन्मदेशीयभाषाभिः कथा एतेषां शृणुमः किमिदं?
and hou herden we ech man his langage in which we ben borun?
9 पार्थी-मादी-अराम्नहरयिम्देशनिवासिमनो यिहूदा-कप्पदकिया-पन्त-आशिया-
Parthi, and Medi, and Elamyte, and thei that dwellen at Mesopotami, Judee, and Capodosie, and Ponte,
10 फ्रुगिया-पम्फुलिया-मिसरनिवासिनः कुरीणीनिकटवर्त्तिलूबीयप्रदेशनिवासिनो रोमनगराद् आगता यिहूदीयलोका यिहूदीयमतग्राहिणः क्रीतीया अराबीयादयो लोकाश्च ये वयम्
and Asie, Frigie, and Pamfilie, Egipt, and the parties of Libie, that is aboue Sirenen, and `comelingis Romayns, and Jewis,
11 अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः।
and proselitis, men of Crete, and of Arabie, we han herd hem spekynge in oure langagis the grete thingis of God.
12 इत्थं ते सर्व्वएव विस्मयापन्नाः सन्दिग्धचित्ताः सन्तः परस्परमूचुः, अस्य को भावः?
And alle weren astonyed, and wondriden, `and seiden togidere, What wole this thing be?
13 अपरे केचित् परिहस्य कथितवन्त एते नवीनद्राक्षारसेन मत्ता अभवन्।
And othere scorneden, and seiden, For these men ben ful of must.
14 तदा पितर एकादशभि र्जनैः साकं तिष्ठन् ताल्लोकान् उच्चैःकारम् अवदत्, हे यिहूदीया हे यिरूशालम्निवासिनः सर्व्वे, अवधानं कृत्वा मदीयवाक्यं बुध्यध्वं।
But Petre stood with the enleuene, and reiside vp his vois, and spak to hem, Ye Jewis, and alle that dwellen at Jerusalem, be this knowun to you, and with eris perseyue ye my wordis.
15 इदानीम् एकयामाद् अधिका वेला नास्ति तस्माद् यूयं यद् अनुमाथ मानवा इमे मद्यपानेन मत्तास्तन्न।
For not as ye wenen, these ben dronkun, whanne it is the thridde our of the dai;
16 किन्तु योयेल्भविष्यद्वक्त्रैतद्वाक्यमुक्तं यथा,
but this it is, that was seid bi the prophete Johel,
17 ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।
And it schal be in the laste daies, the Lord seith, Y schal helde out my spirit on ech fleisch; and youre sones and youre douytris schulen prophesie, and youre yonge men schulen se visiouns, and youre eldris schulen dreme sweuenes.
18 वर्षिष्यामि तदात्मानं दासदासीजनोपिरि। तेनैव भाविवाक्यं ते वदिष्यन्ति हि सर्व्वशः।
And on my seruauntis and myn handmaidens in tho daies Y schal schede out of my spirit, and thei schulen prophecie.
19 ऊर्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा।
And Y schal yyue grete wondris in heuene aboue, and signes in erthe bynethe, blood, and fier, and heete of smoke.
20 महाभयानकस्यैव तद्दिनस्य परेशितुः। पुरागमाद् रविः कृष्णो रक्तश्चन्द्रो भविष्यतः।
The sunne schal be turned in to derknessis, and the moone in to blood, bifor that the greet and the opyn dai of the Lord come.
21 किन्तु यः परमेशस्य नाम्नि सम्प्रार्थयिष्यते। सएव मनुजो नूनं परित्रातो भविष्यति॥
And it schal be, ech man which euere schal clepe to help the name of the Lord, schal be saaf.
22 अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।
Ye men of Israel, here ye these wordis. Jhesu of Nazareth, a man preued of God bifor you bi vertues, and wondris, and tokenes, which God dide bi hym in the myddil of you,
23 तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत।
as ye witen, ye turmentiden, and killiden hym bi the hoondis of wyckid men, bi counseil determyned and bitakun bi the forknouwyng of God.
24 किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।
Whom God reiside, whanne sorewis of helle weren vnboundun, bi that that it was impossible that he were holdun of it.
25 एतस्तिन् दायूदपि कथितवान् यथा, सर्व्वदा मम साक्षात्तं स्थापय परमेश्वरं। स्थिते मद्दक्षिणे तस्मिन् स्खलिष्यामि त्वहं नहि।
For Dauid seith of hym, Y saiy afer the Lord bifore me euermore, for he is on my riythalf, that Y be not mouyd.
26 आनन्दिष्यति तद्धेतो र्मामकीनं मनस्तु वै। आह्लादिष्यति जिह्वापि मदीया तु तथैव च। प्रत्याशया शरीरन्तु मदीयं वैशयिष्यते।
For this thing myn herte ioiede, and my tunge made ful out ioye, and more ouere my fleisch schal reste in hope.
27 परलोके यतो हेतोस्त्वं मां नैव हि त्यक्ष्यसि। स्वकीयं पुण्यवन्तं त्वं क्षयितुं नैव दास्यसि। एवं जीवनमार्गं त्वं मामेव दर्शयिष्यसि। (Hadēs g86)
For thou schalt not leeue my soule in helle, nethir thou schalt yiue thin hooli to se corrupcioun. (Hadēs g86)
28 स्वसम्मुखे य आनन्दो दक्षिणे स्वस्य यत् सुखं। अनन्तं तेन मां पूर्णं करिष्यसि न संशयः॥
Thou hast maad knowun to me the weies of lijf, thou schalt fille me in myrthe with thi face.
29 हे भ्रातरोऽस्माकं तस्य पूर्व्वपुरुषस्य दायूदः कथां स्पष्टं कथयितुं माम् अनुमन्यध्वं, स प्राणान् त्यक्त्वा श्मशाने स्थापितोभवद् अद्यापि तत् श्मशानम् अस्माकं सन्निधौ विद्यते।
Britheren, be it leueful boldli to seie to you of the patriark Dauid, for he is deed and biried, and his sepulcre is among vs in to this dai.
30 फलतो लौकिकभावेन दायूदो वंशे ख्रीष्टं जन्म ग्राहयित्वा तस्यैव सिंहासने समुवेष्टुं तमुत्थापयिष्यति परमेश्वरः शपथं कुत्वा दायूदः समीप इमम् अङ्गीकारं कृतवान्,
Therfore whanne he was a prophete, and wiste, that with a greet ooth God hadde sworn to hym, that of the fruyt of his leende schulde oon sitte on his seete,
31 इति ज्ञात्वा दायूद् भविष्यद्वादी सन् भविष्यत्कालीयज्ञानेन ख्रीष्टोत्थाने कथामिमां कथयामास यथा तस्यात्मा परलोके न त्यक्ष्यते तस्य शरीरञ्च न क्षेष्यति; (Hadēs g86)
he seynge afer spak of the resurreccioun of Crist, for nether he was left in helle, nether his fleisch saiy corrupcioun. (Hadēs g86)
32 अतः परमेश्वर एनं यीशुं श्मशानाद् उदस्थापयत् तत्र वयं सर्व्वे साक्षिण आस्महे।
God reiside this Jhesu, to whom we alle ben witnessis.
33 स ईश्वरस्य दक्षिणकरेणोन्नतिं प्राप्य पवित्र आत्मिन पिता यमङ्गीकारं कृतवान् तस्य फलं प्राप्य यत् पश्यथ शृणुथ च तदवर्षत्।
Therfor he was enhaunsid bi the riythoond of God, and thorouy the biheest of the Hooli Goost that he took of the fadir, he schedde out this spirit, that ye seen and heren.
34 यतो दायूद् स्वर्गं नारुरोह किन्तु स्वयम् इमां कथाम् अकथयद् यथा, मम प्रभुमिदं वाक्यमवदत् परमेश्वरः।
For Dauid stiede not in to heuene; but he seith, The Lord seide to my Lord,
35 तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षवार्श्व उपाविश।
Sitte thou on my riyt half, til Y putte thin enemyes a stool of thi feet.
36 अतो यं यीशुं यूयं क्रुशेऽहत परमेश्वरस्तं प्रभुत्वाभिषिक्तत्वपदे न्ययुंक्तेति इस्रायेलीया लोका निश्चितं जानन्तु।
Therfor moost certeynli wite al the hous of Israel, that God made hym bothe Lord and Crist, this Jhesu, whom ye crucefieden.
37 एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?
Whanne thei herden these thingis, thei weren compunct in herte; and thei seiden to Petre and othere apostlis, Britheren, what schulen we do?
38 ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।
And Petre seide to hem, Do ye penaunce, and eche of you be baptisid in the name of Jhesu Crist, in to remissioun of youre synnes; and ye schulen take the yifte of the Hooli Goost.
39 यतो युष्माकं युष्मत्सन्तानानाञ्च दूरस्थसर्व्वलोकानाञ्च निमित्तम् अर्थाद् अस्माकं प्रभुः परमेश्वरो यावतो लाकान् आह्वास्यति तेषां सर्व्वेषां निमित्तम् अयमङ्गीकार आस्ते।
For the biheest is to you, and to youre sones, and to alle that ben fer, which euer oure Lord God hath clepid.
40 एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत।
Also with othere wordis ful many he witnesside to hem, and monestide hem, and seide, Be ye sauyd fro this schrewid generacioun.
41 ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः
Thanne thei that resseyueden his word weren baptisid, and in that dai soulis weren encreesid, aboute thre thousinde;
42 प्रेरितानाम् उपदेशे सङ्गतौ पूपभञ्जने प्रार्थनासु च मनःसंयोगं कृत्वातिष्ठन्।
and weren lastynge stabli in the teching of the apostlis, and in comynyng of the breking of breed, in preieris.
43 प्रेरितै र्नानाप्रकारलक्षणेषु महाश्चर्य्यकर्ममसु च दर्शितेषु सर्व्वलोकानां भयमुपस्थितं।
And drede was maad to ech man. And many wondris and signes weren don bi the apostlis in Jerusalem, and greet drede was in alle.
44 विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत।
And alle that bileueden weren togidre, and hadden alle thingis comyn.
45 फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्।
Thei selden possessiouns and catel, and departiden tho thingis to alle men, as it was nede to ech.
46 सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।
And ech dai thei dwelliden stabli with o wille in the temple, and braken breed aboute housis, and token mete with ful out ioye and symplenesse of herte,
47 परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्।
and herieden togidere God, and hadden grace to al the folk. And the Lord encreside hem that weren maad saaf, ech dai in to the same thing.

< प्रेरिताः 2 >