< प्रेरिताः 18 >

1 तद्घटनातः परं पौल आथीनीनगराद् यात्रां कृत्वा करिन्थनगरम् आगच्छत्।
随后保罗离开雅典,来到哥林多,
2 तस्मिन् समये क्लौदियः सर्व्वान् यिहूदीयान् रोमानगरं विहाय गन्तुम् आज्ञापयत्, तस्मात् प्रिस्किल्लानाम्ना जायया सार्द्धम् इतालियादेशात् किञ्चित्पूर्व्वम् आगमत् यः पन्तदेशे जात आक्किलनामा यिहूदीयलोकः पौलस्तं साक्षात् प्राप्य तयोः समीपमितवान्।
在这里遇到一位老家在本都的犹太人亚居拉。由于革老丢命令所有犹太人离开罗马,所以他最近和妻子百基拉从意大利来到这里,于是保罗去见他们。
3 तौ दूष्यनिर्म्माणजीविनौ, तस्मात् परस्परम् एकवृत्तिकत्वात् स ताभ्यां सह उषित्वा तत् कर्म्माकरोत्।
由于他们和保罗一样都是以做帐棚为生,于是保罗在他们家住了下来。
4 पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्।
每逢安息日,保罗都会到会堂进行辩论,劝导犹太人和希腊人。
5 सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।
西拉和提摩太从马其顿赶到这里与保罗会和,保罗就可以专心传扬主的道,向犹太人证明耶稣就是基督。
6 किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।
当犹太人反对他、诅咒他时,他就会抖动衣服,对他们说:“你们的罪由你们自己承担,与我无关。从现在起,我要到异教徒那里去了。”
7 स तस्मात् प्रस्थाय भजनभवनसमीपस्थस्य युस्तनाम्न ईश्वरभक्तस्य भिन्नदेशीयस्य निवेशनं प्राविशत्।
于是他离开那里,住到了敬拜上帝的提多·犹士都的家中,就在会堂的隔壁。
8 ततः क्रीष्पनामा भजनभवनाधिपतिः सपरिवारः प्रभौ व्यश्वसीत्, करिन्थनगरीया बहवो लोकाश्च समाकर्ण्य विश्वस्य मज्जिता अभवन्।
会堂主管基利司布和全家人信了主,很多哥林多人也在听了道之后信了主,接受了施洗。
9 क्षणदायां प्रभुः पौलं दर्शनं दत्वा भाषितवान्, मा भैषीः, मा निरसीः कथां प्रचारय।
夜里,主通过异象对保罗说:“不要怕,大胆宣讲,不要保持沉默!
10 अहं त्वया सार्द्धम् आस हिंसार्थं कोपि त्वां स्प्रष्टुं न शक्ष्यति नगरेऽस्मिन् मदीया लोका बहव आसते।
因为我与你同在,没有人会攻击你,因为在这座城里有许多人都追随我。”
11 तस्मात् पौलस्तन्नगरे प्रायेण सार्द्धवत्सरपर्य्यन्तं संस्थायेश्वरस्य कथाम् उपादिशत्।
保罗在那里住了一年零六个月,想向众人传授上帝之道。
12 गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा
但在迦流担任亚该亚省长期间,犹太人一致起来攻击保罗,将他带到了法院,
13 मानुष एष व्यवस्थाय विरुद्धम् ईश्वरभजनं कर्त्तुं लोकान् कुप्रवृत्तिं ग्राहयतीति निवेदितवन्तः।
说:“此人劝大家以违反律法的方式敬拜上帝。”
14 ततः पौले प्रत्युत्तरं दातुम् उद्यते सति गाल्लिया यिहूदीयान् व्याहरत्, यदि कस्यचिद् अन्यायस्य वातिशयदुष्टताचरणस्य विचारोऽभविष्यत् तर्हि युष्माकं कथा मया सहनीयाभविष्यत्।
保罗刚要开口为自己辩护,迦流就对犹太人说:“如果你们犹太人想要指控犯法或严重违法行为,我一定会听你们的讲述。
15 किन्तु यदि केवलं कथाया वा नाम्नो वा युष्माकं व्यवस्थाया विवादो भवति तर्हि तस्य विचारमहं न करिष्यामि, यूयं तस्य मीमांसां कुरुत।
但你们争论的只是文字、名字和你们的律法,那你们应当自己处理。我不会审判此类案子。”
16 ततः स तान् विचारस्थानाद् दूरीकृतवान्।
说罢,迦流就把他们从法院赶了出去。
17 तदा भिन्नदेशीयाः सोस्थिनिनामानं भजनभवनस्य प्रधानाधिपतिं धृत्वा विचारस्थानस्य सम्मुखे प्राहरन् तथापि गाल्लिया तेषु सर्व्वकर्म्मसु न मनो न्यदधात्।
随后众人转向攻击会堂主管苏提尼,在法院门外殴打他,但迦流对此完全不予理会。
18 पौलस्तत्र पुनर्बहुदिनानि न्यवसत्, ततो भ्रातृगणाद् विसर्जनं प्राप्य किञ्चनव्रतनिमित्तं किंक्रियानगरे शिरो मुण्डयित्वा प्रिस्किल्लाक्किलाभ्यां सहितो जलपथेन सुरियादेशं गतवान्।
保罗在这里住了一段时间后,便辞别了信徒,乘船去叙利亚,百基拉和亚居拉与他同行。因为他之前许下承诺,他就在坚革里剃光了头发。
19 तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।
一行人抵达以弗所后,保罗离开众人自己去了会堂,在那里跟犹太人辩论。
20 ते स्वैः सार्द्धं पुनः कतिपयदिनानि स्थातुं तं व्यनयन्, स तदनुररीकृत्य कथामेतां कथितवान्,
众人请他多住一段时间,但被他拒绝了。
21 यिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्।
他辞别众人,在以弗所乘船离开。临行前他告诉众人:“如果上帝允许,我还会回来。”
22 ततः कैसरियाम् उपस्थितः सन् नगरं गत्वा समाजं नमस्कृत्य तस्माद् आन्तियखियानगरं प्रस्थितवान्।
他在该撒利亚下船,与教会成员见了一面,然后启程去往安提阿。
23 तत्र कियत्कालं यापयित्वा तस्मात् प्रस्थाय सर्व्वेषां शिष्याणां मनांसि सुस्थिराणि कृत्वा क्रमशो गलातियाफ्रुगियादेशयो र्भ्रमित्वा गतवान्।
他在那里住了一段时间后,继续走遍加拉太地区和弗吕加的各个城镇,为众信徒带去鼓舞激励。
24 तस्मिन्नेव समये सिकन्दरियानगरे जात आपल्लोनामा शास्त्रवित् सुवक्ता यिहूदीय एको जन इफिषनगरम् आगतवान्।
与此同时,一位名叫亚波罗的犹太人来到以弗所。他老家在亚历山太,颇有口才,非常了解圣经。
25 स शिक्षितप्रभुमार्गो मनसोद्योगी च सन् योहनो मज्जनमात्रं ज्ञात्वा यथार्थतया प्रभोः कथां कथयन् समुपादिशत्।
他曾接受主之道的教诲,内心充满热情,无论讲话还是授道,都能准确讲述耶稣,但他只知晓约翰施洗之事。
26 एष जनो निर्भयत्वेन भजनभवने कथयितुम् आरब्धवान्, ततः प्रिस्किल्लाक्किलौ तस्योपदेशकथां निशम्य तं स्वयोः समीपम् आनीय शुद्धरूपेणेश्वरस्य कथाम् अबोधयताम्।
他开始在会堂里公开讲道。百基拉和亚居拉听说了他,就邀请他加入,更全面地解读上帝之道。
27 पश्चात् स आखायादेशं गन्तुं मतिं कृतवान्, तदा तत्रत्यः शिष्यगणो यथा तं गृह्लाति तदर्थं भ्रातृगणेन समाश्वस्य पत्रे लिखिते सति, आपल्लास्तत्रोपस्थितः सन् अनुग्रहेण प्रत्ययिनां बहूपकारान् अकरोत्,
后来他决定去亚该亚,信徒们就鼓励他,还给那里的使徒写信,请他们接待他。抵达亚该亚后,在当地人蒙受恩典相信上帝的过程中,他起了很大的作用,
28 फलतो यीशुरभिषिक्तस्त्रातेति शास्त्रप्रमाणं दत्वा प्रकाशरूपेण प्रतिपन्नं कृत्वा यिहूदीयान् निरुत्तरान् कृतवान्।
因为他能在公开辩论种有力驳斥犹太人,通过圣经证明耶稣既是基督。

< प्रेरिताः 18 >