< प्रेरिताः 15 >

1 यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।
從猶太下來的幾個人教訓弟兄們說:「若是你們不按梅瑟的慣例行割損,不能得救。」
2 पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।
保祿和巴爾納伯同他們起了不少的爭執和辯論;大家就指定保祿和巴爾納伯,與他們中的幾個人,上耶路撒冷去見宗徒和長老,討論這問題。
3 ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।
他們由教會送走之後,就路過腓尼基和撒瑪黎雅,沿途敘述外邦人歸化的事,使眾弟兄非常喜歡。
4 यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।
他們到了耶路撒冷,為教會、宗徒和長老所歡迎,就報告了天主偕同他們所行的一切大事。
5 किन्तु विश्वासिनः कियन्तः फिरूशिमतग्राहिणो लोका उत्थाय कथामेतां कथितवन्तो भिन्नदेशीयानां त्वक्छेदं कर्त्तुं मूसाव्यवस्थां पालयितुञ्च समादेष्टव्यम्।
卻有幾個信教的法利塞黨人起來說:「必須叫外邦人受割損,又應該命他們遵守梅瑟法律。」
6 ततः प्रेरिता लोकप्राचीनाश्च तस्य विवेचनां कर्त्तुं सभायां स्थितवन्तः।
宗徒和長老們就開會商討此事。
7 बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।
辯論多時之後,伯多祿起來向他們說:「諸位仁人弟兄!你們深知,多時以前,天主就在你們中選定了,要藉我的口,為叫外邦人聽福音的道理而信從。
8 अन्तर्य्यामीश्वरो यथास्मभ्यं तथा भिन्नदेशीयेभ्यः पवित्रमात्मानं प्रदाय विश्वासेन तेषाम् अन्तःकरणानि पवित्राणि कृत्वा
洞察人心的天主,已為他們作了證,因為賜給了他們聖神,如同賜給了我們一樣;
9 तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।
在我們和他們中間沒有作任何區別,因他以信德淨化了他們的心。
10 अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?
既然如此,現今你們為什麼試探天主,在門徒的頸項上,放上連我們的祖先和我們自己都不能負荷的軛呢﹖
11 प्रभो र्यीशुख्रीष्टस्यानुग्रहेण ते यथा वयमपि तथा परित्राणं प्राप्तुम् आशां कुर्म्मः।
但是,我們信我們得救,是藉著主耶穌的恩寵,正和他們一樣。」
12 अनन्तरं बर्णब्बापौलाभ्याम् ईश्वरो भिन्नदेशीयानां मध्ये यद्यद् आश्चर्य्यम् अद्भुतञ्च कर्म्म कृतवान् तद्वृत्तान्तं तौ स्वमुखाभ्याम् अवर्णयतां सभास्थाः सर्व्वे नीरवाः सन्तः श्रुतवन्तः।
於是眾人都緘默不語,靜聽巴爾納伯和保祿述說天主藉著他們在外邦人中,行了怎樣大的徵兆與奇蹟。
13 तयोः कथायां समाप्तायां सत्यां याकूब् कथयितुम् आरब्धवान्
大家都不出聲之後,雅各伯接著說:「諸位仁人弟兄,請聽我說!
14 हे भ्रातरो मम कथायाम् मनो निधत्त। ईश्वरः स्वनामार्थं भिन्नदेशीयलोकानाम् मध्याद् एकं लोकसंघं ग्रहीतुं मतिं कृत्वा येन प्रकारेण प्रथमं तान् प्रति कृपावलेकनं कृतवान् तं शिमोन् वर्णितवान्।
西滿述說了天主當初怎樣關心外邦人,由他們中選拔一個百姓,屬於自己名下;
15 भविष्यद्वादिभिरुक्तानि यानि वाक्यानि तैः सार्द्धम् एतस्यैक्यं भवति यथा लिखितमास्ते।
先知的話也正與此相合,如經上記載:『
16 सर्व्वेषां कर्म्मणां यस्तु साधकः परमेश्वरः। स एवेदं वदेद्वाक्यं शेषाः सकलमानवाः। भिन्नदेशीयलोकाश्च यावन्तो मम नामतः। भवन्ति हि सुविख्यातास्ते यथा परमेशितुः।
以後我要回來,重建達味已傾倒的居所;已坍塌了的,要把它重建而豎立起來,
17 तत्वं सम्यक् समीहन्ते तन्निमित्तमहं किल। परावृत्य समागत्य दायूदः पतितं पुनः। दूष्यमुत्थापयिष्यामि तदीयं सर्व्ववस्तु च। पतितं पुनरुथाप्य सज्जयिष्यामि सर्व्वथा॥
為的是其餘的人,即一切以我的名得名的民族,要尋求上主:
18 आ प्रथमाद् ईश्वरः स्वीयानि सर्व्वकर्म्माणि जानाति। (aiōn g165)
這是很久以前,公佈這事的主說的。』 (aiōn g165)
19 अतएव मम निवेदनमिदं भिन्नदेशीयलोकानां मध्ये ये जना ईश्वरं प्रति परावर्त्तन्त तेषामुपरि अन्यं कमपि भारं न न्यस्य
因此,按我的意見,不要再加給由外邦歸依天主的人煩難,
20 देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः।
只要函告他們戒避偶像的玷污和奸淫,戒食窒死之物和血。
21 यतः पूर्व्वकालतो मूसाव्यवस्थाप्रचारिणो लोका नगरे नगरे सन्ति प्रतिविश्रामवारञ्च भजनभवने तस्याः पाठो भवति।
因為自古以來,在各城內都有宣講梅瑟的人,每安息日在會堂中誦讀他的書。」
22 ततः परं प्रेरितगणो लोकप्राचीनगणः सर्व्वा मण्डली च स्वेषां मध्ये बर्शब्बा नाम्ना विख्यातो मनोनीतौ कृत्वा पौलबर्णब्बाभ्यां सार्द्धम् आन्तियखियानगरं प्रति प्रेषणम् उचितं बुद्ध्वा ताभ्यां पत्रं प्रैषयन्।
當時,宗徒和長老同全教會決定,從他們中選幾個人,派他們同保祿和巴爾納伯去安提約基雅。所派的,有號稱巴爾撒巴的猶達和息拉,是弟兄中的領導人物。
23 तस्मिन् पत्रे लिखितमिंद, आन्तियखिया-सुरिया-किलिकियादेशस्थभिन्नदेशीयभ्रातृगणाय प्रेरितगणस्य लोकप्राचीनगणस्य भ्रातृगणस्य च नमस्कारः।
他們帶去的信如下:「宗徒和長老弟兄們,給在安提約基雅、敘利亞和基里基雅由外邦歸化的弟兄們請安。
24 विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।
我們聽說有幾個從我們這裏去的,而並非我們所派去的人,講話擾亂你們,混亂了你們的心。
25 तत्कारणाद् वयम् एकमन्त्रणाः सन्तः सभायां स्थित्वा प्रभो र्यीशुख्रीष्टस्य नामनिमित्तं मृत्युमुखगताभ्यामस्माकं
我們取得同意後,決定揀選幾個人,派他們同我們可愛的巴爾納伯和保祿,到你們那裏去。
26 प्रियबर्णब्बापौलाभ्यां सार्द्धं मनोनीतलोकानां केषाञ्चिद् युष्माकं सन्निधौ प्रेषणम् उचितं बुद्धवन्तः।
此二人為了我們主耶穌基督的名,已付出了自己的性命。
27 अतो यिहूदासीलौ युष्मान् प्रति प्रेषितवन्तः, एतयो र्मुखाभ्यां सर्व्वां कथां ज्ञास्यथ।
我們派猶達和息拉去,他們要親口報告同樣的事。
28 देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज्ञाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनोऽस्माकञ्च उचितज्ञानम् अभवत्।
因為聖神和我們決定,不再加給你們什麼重擔,除了這幾項重要的事:
29 अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।
即戒食祭邪神之物、血和窒死之物,並戒避奸淫;若你們戒絕了這一切,那就好了。祝你們安好!」
30 तेे विसृष्टाः सन्त आन्तियखियानगर उपस्थाय लोकनिवहं संगृह्य पत्रम् अददन्।
他們去後,就下到安提約基雅,聚集了眾人,遞上公函。
31 ततस्ते तत्पत्रं पठित्वा सान्त्वनां प्राप्य सानन्दा अभवन्।
人們讀了,對這勸慰的話都十分歡喜。
32 यिहूदासीलौ च स्वयं प्रचारकौ भूत्वा भ्रातृगणं नानोपदिश्य तान् सुस्थिरान् अकुरुताम्।
猶達和息拉,因為他們也是先知,就講了許多話,勸勉堅固弟兄們。
33 इत्थं तौ तत्र तैः साकं कतिपयदिनानि यापयित्वा पश्चात् प्रेरितानां समीपे प्रत्यागमनार्थं तेषां सन्निधेः कल्याणेन विसृष्टावभवतां।
過了一些時候,弟兄們打發他們帶著請安的話,回到派他們的人那裏。
34 किन्तु सीलस्तत्र स्थातुं वाञ्छितवान्।
【但是息拉決意留在那裏,只猶達一人回了耶路撒冷。】
35 अपरं पौलबर्णब्बौ बहवः शिष्याश्च लोकान् उपदिश्य प्रभोः सुसंवादं प्रचारयन्त आन्तियखियायां कालं यापितवन्तः।
保祿和巴爾納伯卻留在安提約基雅施教,同別的許多人宣講主的道理。
36 कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः।
過了些日子,保祿向巴爾納伯說:「我們要回去,視察我們曾講過主道的各城,看看弟兄怎麼樣了。」
37 तेन मार्कनाम्ना विख्यातं योहनं सङ्गिनं कर्त्तुं बर्णब्बा मतिमकरोत्,
巴爾納伯願意也帶號稱馬爾谷的若望同去,
38 किन्तु स पूर्व्वं ताभ्यां सह कार्य्यार्थं न गत्वा पाम्फूलियादेशे तौ त्यक्तवान् तत्कारणात् पौलस्तं सङ्गिनं कर्त्तुम् अनुचितं ज्ञातवान्।
但保祿認為不應帶他去,因為他從旁非里雅離開他們,沒有同他們一起去工作。
39 इत्थं तयोरतिशयविरोधस्योपस्थितत्वात् तौ परस्परं पृथगभवतां ततो बर्णब्बा मार्कं गृहीत्वा पोतेन कुप्रोपद्वीपं गतवान्;
二人於是起了爭執,以致彼此分離。巴爾納伯遂帶馬爾谷,乘船往塞浦路斯去了。
40 किन्तु पौलः सीलं मनोनीतं कृत्वा भ्रातृभिरीश्वरानुग्रहे समर्पितः सन् प्रस्थाय
保祿卻揀選了息拉,蒙弟兄們將他託於主的恩寵以後,
41 सुरियाकिलिकियादेशाभ्यां मण्डलीः स्थिरीकुर्व्वन् अगच्छत्।
也起身走了,他走遍了敘利亞和基里基雅,堅固各教會。

< प्रेरिताः 15 >