< प्रेरिताः 14 >

1 तौ द्वौ जनौ युगपद् इकनियनगरस्थयिहूदीयानां भजनभवनं गत्वा यथा बहवो यिहूदीया अन्यदेेशीयलोकाश्च व्यश्वसन् तादृशीं कथां कथितवन्तौ।
But it bifelde at Yconye, that thei entriden togidir in to the synagoge of Jewis, and spaken, so that ful greet multitude of Jewis and Grekis bileueden.
2 किन्तु विश्वासहीना यिहूदीया अन्यदेशीयलोकान् कुप्रवृत्तिं ग्राहयित्वा भ्रातृगणं प्रति तेषां वैरं जनितवन्तः।
But the Jewis that weren vnbileueful, reiseden persecucioun, and stiriden to wraththe the soulis of hethene men ayens the britheren; but the Lord yaf soone pees.
3 अतः स्वानुग्रहकथायाः प्रमाणं दत्वा तयो र्हस्तै र्बहुलक्षणम् अद्भुतकर्म्म च प्राकाशयद् यः प्रभुस्तस्य कथा अक्षोभेन प्रचार्य्य तौ तत्र बहुदिनानि समवातिष्ठेतां।
Therfor thei dwelliden myche tyme, and diden tristili in the Lord, berynge witnessyng to the word of his grace, yyuynge signes and wondris to be maad bi the hondis of hem.
4 किन्तु कियन्तो लोका यिहूदीयानां सपक्षाः कियन्तो लोकाः प्रेरितानां सपक्षा जाताः, अतो नागरिकजननिवहमध्ये भिन्नवाक्यत्वम् अभवत्।
But the multitude of the citee was departid, and sum weren with the Jewis, and sum with the apostlis.
5 अन्यदेशीया यिहूदीयास्तेषाम् अधिपतयश्च दौरात्म्यं कुत्वा तौ प्रस्तरैराहन्तुम् उद्यताः।
But whanne ther was maad `an asaute of the hethene men and the Jewis, with her princis, to turmenten and to stonen hem,
6 तौ तद्वार्त्तां प्राप्य पलायित्वा लुकायनियादेशस्यान्तर्व्वर्त्तिलुस्त्रादर्ब्बो
thei vndurstoden, and fledden togidere to the citees of Licaonye, and Listris, and Derben, and into al the cuntre aboute.
7 तत्समीपस्थदेशञ्च गत्वा तत्र सुसंवादं प्रचारयतां।
And thei prechiden there the gospel, and al the multitude was moued togider in the teching of hem. Poul and Barnabas dwelten at Listris.
8 तत्रोभयपादयोश्चलनशक्तिहीनो जन्मारभ्य खञ्जः कदापि गमनं नाकरोत् एतादृश एको मानुषो लुस्त्रानगर उपविश्य पौलस्य कथां श्रुतवान्।
And a man at Listris was sijk in the feet, and hadde sete crokid fro his modris wombe, which neuer hadde goen.
9 एतस्मिन् समये पौलस्तम्प्रति दृष्टिं कृत्वा तस्य स्वास्थ्ये विश्वासं विदित्वा प्रोच्चैः कथितवान्
This herde Poul spekinge; and Poul biheld hym, and siy that he hadde feith, that he schulde be maad saaf,
10 पद्भ्यामुत्तिष्ठन् ऋजु र्भव।ततः स उल्लम्फं कृत्वा गमनागमने कुतवान्।
and seide with a greet vois, Rise thou `vp riyt on thi feet. And he lippide, and walkide.
11 तदा लोकाः पौलस्य तत् कार्य्यं विलोक्य लुकायनीयभाषया प्रोच्चैः कथामेतां कथितवन्तः, देवा मनुष्यरूपं धृत्वास्माकं समीपम् अवारोहन्।
And the puple, whanne thei hadde seyn that that Poul dide, reriden her vois in Licaon tunge, and seiden, Goddis maad lijk to men ben comun doun to vs.
12 ते बर्णब्बां यूपितरम् अवदन् पौलश्च मुख्यो वक्ता तस्मात् तं मर्कुरियम् अवदन्।
And thei clepiden Barnabas Jubiter, and Poul Mercurie, for he was ledere of the word.
13 तस्य नगरस्य सम्मुखे स्थापितस्य यूपितरविग्रहस्य याजको वृषान् पुष्पमालाश्च द्वारसमीपम् आनीय लोकैः सर्द्धं तावुद्दिश्य समुत्सृज्य दातुम् उद्यतः।
And the preest of Jubiter that was bifor the citee, brouyte boolis and crownes bifor the yatis, with puplis, and wolde haue maad sacrifice.
14 तद्वार्त्तां श्रुत्वा बर्णब्बापौलौ स्वीयवस्त्राणि छित्वा लोकानां मध्यं वेगेन प्रविश्य प्रोच्चैः कथितवन्तौ,
And whanne the apostlis Barnabas and Poul herden this, thei to-renten her cootis; and thei skipten out among the puple,
15 हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः।
and crieden, and seiden, Men, what don ye this thing? and we ben deedli men lijk you, and schewen to you, that ye be conuertid fro these veyn thingis to the lyuynge God, that maad heuene, and erthe, and the see, and alle thingis that ben in hem;
16 स ईश्वरः पूर्व्वकाले सर्व्वदेशीयलोकान् स्वस्वमार्गे चलितुमनुमतिं दत्तवान्,
which in generaciouns passid suffride alle folkis to gon in to her owne weies.
17 तथापि आकाशात् तोयवर्षणेन नानाप्रकारशस्योत्पत्या च युष्माकं हितैषी सन् भक्ष्यैराननदेन च युष्माकम् अन्तःकरणानि तर्पयन् तानि दानानि निजसाक्षिस्वरूपाणि स्थपितवान्।
And yit he lefte not hym silf with out witnessing in wel doyng, for he yaf reyns fro heuene, and times beringe fruyt, and fulfillide youre hertis with meete and gladnesse.
18 किन्तु तादृशायां कथायां कथितायामपि तयोः समीप उत्सर्जनात् लोकनिवहं प्रायेण निवर्त्तयितुं नाशक्नुताम्।
And thei seiynge these thingis, vnnethis swagiden the puple, that thei offriden not to hem.
19 आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।
But sum Jewis camen ouer fro Antioche and Iconye, and counseilden the puple, and stonyden Poul, and drowen out of the citee, and gessiden that he was deed.
20 किन्तु शिष्यगणे तस्य चतुर्दिशि तिष्ठति सति स स्वयम् उत्थाय पुनरपि नगरमध्यं प्राविशत् तत्परेऽहनि बर्णब्बासहितो दर्ब्बीनगरं गतवान्।
But whanne disciplis weren comun aboute him, he roos, and wente in to the citee; and in the dai suynge he wente forth with Barnabas in to Derben.
21 तत्र सुसंवादं प्रचार्य्य बहुलोकान् शिष्यान् कृत्वा तौ लुस्त्राम् इकनियम् आन्तियखियाञ्च परावृत्य गतौ।
And whanne thei hadden prechid to the ilk citee, and tauyte manye, thei turneden ayen to Listris, and Iconye, and to Antioche; confermynge the soulis of disciplis,
22 बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।
and monestinge, that thei schulden dwelle in feith, and seiden, That bi many tribulaciouns it bihoueth vs to entre in to the kingdom of heuenes.
23 मण्डलीनां प्राचीनवर्गान् नियुज्य प्रार्थनोपवासौ कृत्वा यत्प्रभौ ते व्यश्वसन् तस्य हस्ते तान् समर्प्य
And whanne thei hadden ordeined prestis to hem bi alle citees, and hadden preied with fastyngis, thei bitoken hem to the Lord, in whom thei bileueden.
24 पिसिदियामध्येन पाम्फुलियादेशं गतवन्तौ।
And thei passiden Persidie, and camen to Pamfilie;
25 पश्चात् पर्गानगरं गत्वा सुसंवादं प्रचार्य्य अत्तालियानगरं प्रस्थितवन्तौ।
and thei spaken the word `of the Lord in Pergen, and camen doun in to Italie.
26 तस्मात् समुद्रपथेन गत्वा ताभ्यां यत् कर्म्म सम्पन्नं तत्कर्म्म साधयितुं यन्नगरे दयालोरीश्वरस्य हस्ते समर्पितौ जातौ तद् आन्तियखियानगरं गतवन्ता।
And fro thennys thei wenten bi boot to Antiochie, fro whennus thei weren takun to the grace of God, in to the werk that thei filliden.
27 तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।
And whanne thei weren comun, and hadden gaderid the chirche, thei telden hou grete thingis God dide with hem, and that he hadde openyde to hethene men the dore of feith.
28 ततस्तौ शिर्य्यैः सार्द्धं तत्र बहुदिनानि न्यवसताम्।
And thei dwelliden not a litil tyme with the disciplis.

< प्रेरिताः 14 >