< २ थिषलनीकिनः 3 >

1 हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्यञ्च भवेत्;
Britheren, fro hennus forward preye ye for vs, that the word of God renne, and be clarified, as it is anentis you;
2 यच्च वयम् अविवेचकेभ्यो दुष्टेभ्यश्च लोकेभ्यो रक्षां प्राप्नुयाम यतः सर्व्वेषां विश्वासो न भवति।
and that we be delyuered fro noyous and yuele men; for feith is not of alle men.
3 किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।
But the Lord is trewe, that schal conferme you, and schal kepe fro yuel.
4 यूयम् अस्माभि र्यद् आदिश्यध्वे तत् कुरुथ करिष्यथ चेति विश्वासो युष्मानधि प्रभुनास्माकं जायते।
And, britheren, we trusten of you in the Lord, for what euere thingis we comaunden to you, bothe ye don and schulen do.
5 ईश्वरस्य प्रेम्नि ख्रीष्टस्य सहिष्णुतायाञ्च प्रभुः स्वयं युष्माकम् अन्तःकरणानि विनयतु।
And the Lord dresse youre hertis, in the charite of God, and in the pacience of Crist.
6 हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।
But, britheren, we denouncen to you in the name of oure Lord Jhesu Crist, that ye withdrawe you from ech brother that wandrith out of ordre, and not aftir the techyng, that thei resseyueden of vs.
7 यतो वयं युष्माभिः कथम् अनुकर्त्तव्यास्तद् यूयं स्वयं जानीथ। युष्माकं मध्ये वयम् अविहिताचारिणो नाभवाम,
For `ye silf witen, hou it bihoueth to sue vs. For we weren not vnpesible among you,
8 विनामूल्यं कस्याप्यन्नं नाभुंज्महि किन्तु कोऽपि यद् अस्माभि र्भारग्रस्तो न भवेत् तदर्थं श्रमेण क्लेशेन च दिवानिशं कार्य्यम् अकुर्म्म।
nethir with outen oure owne trauel we eeten breed of ony man, but in trauel and werynesse worchiden niyt and dai, that we greuyden noon of you.
9 अत्रास्माकम् अधिकारो नास्तीत्थं नहि किन्त्वस्माकम् अनुकरणाय युष्मान् दृष्टान्तं दर्शयितुम् इच्छन्तस्तद् अकुर्म्म।
Not as we hadden not power, but that we schulden yyue vs silf ensaumple to you to sue vs.
10 यतो येन कार्य्यं न क्रियते तेनाहारोऽपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकालेऽपि युष्मान् आदिशाम।
For also whanne we weren among you, we denounsiden this thing to you, that if ony man wole not worche, nethir ete he.
11 युष्मन्मध्ये ऽविहिताचारिणः केऽपि जना विद्यन्ते ते च कार्य्यम् अकुर्व्वन्त आलस्यम् आचरन्तीत्यस्माभिः श्रूयते।
For we han herd that summe among you goon in reste, and no thing worchen, but don curiousli.
12 तादृशान् लोकान् अस्मतप्रभो र्यीशुख्रीष्टस्य नाम्ना वयम् इदम् आदिशाम आज्ञापयामश्च, ते शान्तभावेन कार्य्यं कुर्व्वन्तः स्वकीयमन्नं भुञ्जतां।
But we denouncen to hem that ben suche men, and bisechen in the Lord Jhesu Crist, that thei worchen with silence, and ete her owne breed.
13 अपरं हे भ्रातरः, यूयं सदाचरणे न क्लाम्यत।
But nyle ye, britheren, faile wel doynge.
14 यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज्ञां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते।
That if ony man obeie not to oure word bi epistle, marke ye him, and comyne ye not with hym, that he be schamed;
15 किन्तु तं न शत्रुं मन्यमाना भ्रातरमिव चेतयत।
and nyle ye gesse hym as an enemye, but repreue ye hym as a brother. And God hym silf of pees yyue to you euerlastinge pees in al place.
16 शान्तिदाता प्रभुः सर्व्वत्र सर्व्वथा युष्मभ्यं शान्तिं देयात्। प्रभु र्युष्माकं सर्व्वेषां सङ्गी भूयात्।
The Lord be with `you alle.
17 नमस्कार एष पौलस्य मम करेण लिखितोऽभूत् सर्व्वस्मिन् पत्र एतन्मम चिह्नम् एतादृशैरक्षरै र्मया लिख्यते।
My salutacioun bi the hoond of Poul; which signe in ech epistle Y write thus.
18 अस्माकं प्रभो र्यीशुख्रीष्टस्यानुुग्रहः सर्व्वेषु युष्मासु भूयात्। आमेन्।
The grace of oure Lord Jhesu Crist be with `alle you. Amen.

< २ थिषलनीकिनः 3 >