< २ थिषलनीकिनः 1 >

1 पौलः सिल्वानस्तीमथियश्चेतिनामानो वयम् अस्मदीयतातम् ईश्वरं प्रभुं यीशुख्रीष्टञ्चाश्रितां थिषलनीकिनां समितिं प्रति पत्रं लिखामः।
保祿和息爾瓦諾及弟茂德,致書給在天主我們的父及耶穌基督內的德撒洛尼人的教會。
2 अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मास्वनुग्रहं शान्तिञ्च क्रियास्तां।
願恩寵與平安,由天主父和主耶穌基督賜與你們!
3 हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।
弟兄們,我們常該為你們感謝天主,這真是相稱的,你們的信德大有進步,你們眾人的間彼此的愛德更為增進,
4 तस्माद् युष्माभि र्यावन्त उपद्रवक्लेशाः सह्यन्ते तेषु यद् धेैर्य्यं यश्च विश्वासः प्रकाश्यते तत्कारणाद् वयम् ईश्वरीयसमितिषु युष्माभिः श्लाघामहे।
以致我們可在天主的各教會中,為你們誇口,因為你們在所受的一切迫害和磨難中,仍保持了焣忍和信德。
5 तच्चेश्वरस्य न्यायविचारस्य प्रमाणं भवति यतो यूयं यस्य कृते दुःखं सहध्वं तस्येश्वरीयराज्यस्य योग्या भवथ।
這正是天主公義審判的明證,好使你們堪得天主的國,你們也正是為這國才受了苦難。
6 यतः स्वकीयस्वर्गदूतानां बलैः सहितस्य प्रभो र्यीशोः स्वर्गाद् आगमनकाले युष्माकं क्लेशकेभ्यः क्लेशेन फलदानं सार्द्धमस्माभिश्च
既然天主是公義的,必要以苦難報復難為你們的人,
7 क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;
卻嘗你們受難為的人,同我們一起安寧;主耶穌由天上偕同衪大能的天使出現時,
8 तदानीम् ईश्वरानभिज्ञेभ्यो ऽस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते;
要在火焰中報復雖然不認識天主,和不聽從我們的主耶穌福音的人。
9 ते च प्रभो र्वदनात् पराक्रमयुक्तविभवाच्च सदातनविनाशरूपं दण्डं लप्स्यन्ते, (aiōnios g166)
這些人要受永遠喪亡之罰,遠離主的面,遠離衪威能的光榮。 (aiōnios g166)
10 किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि।
當衪在一日降來的時候,要在衪的聖徒身上受光榮,在一切信眾身上受讚美。你們也在其中,因為你們確信了我們的證言。
11 अतोऽस्माकम् ईश्वरो युष्मान् तस्याह्वानस्य योग्यान् करोतु सौजन्यस्य शुभफलं विश्वासस्य गुणञ्च पराक्रमेण साधयत्विति प्रार्थनास्माभिः सर्व्वदा युष्मन्निमित्तं क्रियते,
為此,我們也為你們,求我們的天主使你們相稱衪的召叫;求衪以德能,成全你們各種樂意向善的心,和信德的行為,
12 यतस्तथा सत्यस्माकम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहाद् अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्नो गौरवं युष्मासु युष्माकमपि गौरवं तस्मिन् प्रकाशिष्यते।
好使我們的主耶穌基督的恩寵受光榮。

< २ थिषलनीकिनः 1 >