< २ करिन्थिनः 3 >

1 वयं किम् आत्मप्रशंसनं पुनरारभामहे? युष्मान् प्रति युष्मत्तो वा परेषां केषाञ्चिद् इवास्माकमपि किं प्रशंसापत्रेषु प्रयोजनम् आस्ते?
Bigynnen we therfor eftsoone to preise vs silf? or whether we neden, as summen, pistlis of preisinge to you, or of you?
2 यूयमेवास्माकं प्रशंसापत्रं तच्चास्माकम् अन्तःकरणेषु लिखितं सर्व्वमानवैश्च ज्ञेयं पठनीयञ्च।
Ye ben oure pistle, writun in oure hertis, which is knowun and red of alle men,
3 यतो ऽस्माभिः सेवितं ख्रीष्टस्य पत्रं यूयपेव, तच्च न मस्या किन्त्वमरस्येश्वरस्यात्मना लिखितं पाषाणपत्रेषु तन्नहि किन्तु क्रव्यमयेषु हृत्पत्रेषु लिखितमिति सुस्पष्टं।
and maad opyn, for ye ben the pistle of Crist mynystrid of vs, and writun, not with enke, but bi the spirit of the lyuynge God; not in stony tablis, but in fleischli tablis of herte.
4 ख्रीष्टेनेश्वरं प्रत्यस्माकम् ईदृशो दृढविश्वासो विद्यते;
For we han such trist bi Crist to God;
5 वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते।
not that we ben sufficient to thenke ony thing of vs, as of vs, but oure sufficience is of God.
6 तेन वयं नूतननियमस्यार्थतो ऽक्षरसंस्थानस्य तन्नहि किन्त्वात्मन एव सेवनसामर्थ्यं प्राप्ताः। अक्षरसंस्थानं मृत्युजनकं किन्त्वात्मा जीवनदायकः।
Which also made vs able mynystris of the newe testament, not bi lettre, but bi spirit; for the lettre sleeth, but the spirit quykeneth.
7 अक्षरै र्विलिखितपाषाणरूपिणी या मृत्योः सेवा सा यदीदृक् तेजस्विनी जाता यत्तस्याचिरस्थायिनस्तेजसः कारणात् मूससो मुखम् इस्रायेलीयलोकैः संद्रष्टुं नाशक्यत,
And if the mynystracioun of deth write bi lettris in stoonys was in glorie, so that the children of Israel myyten not biholde in to the face of Moises, for the glorie of his cheer, which is auoidid,
8 तर्ह्यात्मनः सेवा किं ततोऽपि बहुतेजस्विनी न भवेत्?
hou schal not the mynystracioun of the spirit be more in glorie?
9 दण्डजनिका सेवा यदि तेजोयुक्ता भवेत् तर्हि पुण्यजनिका सेवा ततोऽधिकं बहुतेजोयुक्ता भविष्यति।
For if the mynystracioun of dampnacioun was in glorie, myche more the mynysterie of riytwisnesse is plenteuouse in glorie.
10 उभयोस्तुलनायां कृतायाम् एकस्यास्तेजो द्वितीयायाः प्रखरतरेण तेजसा हीनतेजो भवति।
For nether that that was cleer was glorified in this part for the excellent glorie; and if that that is auoidid,
11 यस्माद् यत् लोपनीयं तद् यदि तेजोयुक्तं भवेत् तर्हि यत् चिरस्थायि तद् बहुतरतेजोयुक्तमेव भविष्यति।
was bi glorie, myche more that that dwellith stille is in glorie.
12 ईदृशीं प्रत्याशां लब्ध्वा वयं महतीं प्रगल्भतां प्रकाशयामः।
Therfor we that han suche hope, vsen myche trist;
13 इस्रायेलीयलोका यत् तस्य लोपनीयस्य तेजसः शेषं न विलोकयेयुस्तदर्थं मूसा यादृग् आवरणेन स्वमुखम् आच्छादयत् वयं तादृक् न कुर्म्मः।
and not as Moises leide a veil on his face, that the children of Israel schulden not biholde in to his face, which veil is auoidid.
14 तेषां मनांसि कठिनीभूतानि यतस्तेषां पठनसमये स पुरातनो नियमस्तेनावरणेनाद्यापि प्रच्छन्नस्तिष्ठति।
But the wittis of hem ben astonyed; for in to this dai the same veil in reding of the olde testament dwellith not schewid, for it is auoidid in Crist, but in to this dai,
15 तच्च न दूरीभवति यतः ख्रीष्टेनैव तत् लुप्यते। मूससः शास्त्रस्य पाठसमयेऽद्यापि तेषां मनांसि तेनावरणेन प्रच्छाद्यन्ते।
whanne Moises is red, the veil is put on her hertis.
16 किन्तु प्रभुं प्रति मनसि परावृत्ते तद् आवरणं दूरीकारिष्यते।
But whanne Israel schal be conuertid to God, the veil schal be don awei.
17 यः प्रभुः स एव स आत्मा यत्र च प्रभोरात्मा तत्रैव मुक्तिः।
And the spirit is the Lord; and where the spirit of the Lord is, there is fredom.
18 वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।
And alle we that with open face seen the glorie of the Lord, ben transformed in to the same ymage, fro clerenesse in to clerenesse, as of the spirit of the Lord.

< २ करिन्थिनः 3 >