< १ तीमथियः 1 >
1 अस्माकं त्राणकर्त्तुरीश्वरस्यास्माकं प्रत्याशाभूमेः प्रभो र्यीशुख्रीष्टस्य चाज्ञानुसारतो यीशुख्रीष्टस्य प्रेरितः पौलः स्वकीयं सत्यं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखति।
我救主にて在す神及び我等が希望にて在すキリスト、イエズスの命によりてキリスト、イエズスの使徒たるパウロ、信仰上の實子チモテオに[書簡を贈る]。
2 अस्माकं तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि अनुग्रहं दयां शान्तिञ्च कुर्य्यास्तां।
願はくは父にて在す神及び我主キリスト、イエズスより恩寵と慈悲と平安とを賜はらん事を。
3 माकिदनियादेशे मम गमनकाले त्वम् इफिषनगरे तिष्ठन् इतरशिक्षा न ग्रहीतव्या, अनन्तेषूपाख्यानेषु वंशावलिषु च युष्माभि र्मनो न निवेशितव्यम्
第一項 教會の為に善く戰ふべし 第一編 教會の為に要求する所 我曾てマケドニアに往きし時汝に願ひし如く、汝はエフェゾに留り、或人々に命じて異なる事を教へざらしめ、
4 इति कांश्चित् लोकान् यद् उपदिशेरेतत् मयादिष्टोऽभवः, यतः सर्व्वैरेतै र्विश्वासयुक्तेश्वरीयनिष्ठा न जायते किन्तु विवादो जायते।
且信仰に基ける神の道を立つるにはあらで却て様々の議論を起さする寓言と、究極なき系圖とに從事する事なからしめよ。
5 उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।
抑此命令の目的は、潔き心と善き良心と偽なき信仰とに出づる愛なり。
6 केचित् जनाश्च सर्व्वाण्येतानि विहाय निरर्थककथानाम् अनुगमनेन विपथगामिनोऽभवन्,
然れども彼人々は、是等の事に外れて無益なる談話に移り、
7 यद् भाषन्ते यच्च निश्चिन्वन्ति तन्न बुध्यमाना व्यवस्थोपदेष्टारो भवितुम् इच्छन्ति।
自ら律法の教師たらんと欲して、其言ふ所をも断言する所をも覚らざるなり。
8 सा व्यवस्था यदि योग्यरूपेण गृह्यते तर्ह्युत्तमा भवतीति वयं जानीमः।
然れども我等、律法は人正しく之を用ふれば善きものなることを知れり。
9 अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता
律法の設けられしは義人の為に非ずして、不法人、反抗者、不敬者、罪人、無宗教者、卑俗者、父を殺す者、母を殺す者、殺人者、
10 वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा,
私通者、男色者、誘拐者、虚言者、偽證者、及び健全なる教に反する他の一切の事の為なりと知るべきなり、
11 तथा सच्चिदानन्देश्वरस्य यो विभवयुक्तः सुसंवादो मयि समर्पितस्तदनुयायिहितोपदेशस्य विपरीतं यत् किञ्चिद् भवति तद्विरुद्धा सा व्यवस्थेति तद्ग्राहिणा ज्ञातव्यं।
我に委られたる至福に在す神の光榮の福音に在るが如し。
12 मह्यं शक्तिदाता योऽस्माकं प्रभुः ख्रीष्टयीशुस्तमहं धन्यं वदामि।
我を堅固ならしめ給ひし我主キリスト、イエズスに感謝し奉る。其は我を聖役に任じて忠信なる者とし給ひたればなり。
13 यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं।
即ち我曩には冒涜者、迫害者、侮辱者たりしかど、信ぜざる時知らずして為ししが故に、慈悲を蒙りて、
14 अपरं ख्रीष्टे यीशौ विश्वासप्रेमभ्यां सहितोऽस्मत्प्रभोरनुग्रहो ऽतीव प्रचुरोऽभत्।
キリスト、イエズスに於る信仰及び愛と共に、我主の恩寵身に餘れり。
15 पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च।
眞實にして全く信ずべき談なる哉、キリスト、イエズスの世に來り給ひしは罪人を救はん為なる事。我は其罪人の第一なり。
16 तेषां पापिनां मध्येऽहं प्रथम आसं किन्तु ये मानवा अनन्तजीवनप्राप्त्यर्थं तस्मिन् विश्वसिष्यन्ति तेषां दृष्टान्ते मयि प्रथमे यीशुना ख्रीष्टेन स्वकीया कृत्स्ना चिरसहिष्णुता यत् प्रकाश्यते तदर्थमेवाहम् अनुकम्पां प्राप्तवान्। (aiōnios )
然るに慈悲を蒙りしはキリスト、イエズス其諸の堪忍を我に於て第一に顕し給ひ、永遠の生命を得んとて将に信ぜんとする人々に例を示し給はん為なり。 (aiōnios )
17 अनादिरक्षयोऽदृश्यो राजा योऽद्वितीयः सर्व्वज्ञ ईश्वरस्तस्य गौरवं महिमा चानन्तकालं यावद् भूयात्। आमेन्। (aiōn )
願はくは萬世の王に在し不朽にして見え給はざる唯一の神に、世々尊崇と光榮と在らん事を、アメン。 (aiōn )
18 हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि
我子チモテオよ、汝に関はれる豫ての預言に從ひ、此命令を汝に寄す、之に應じて善き戰を戰ひ、
19 विश्वासं सत्संवेदञ्च धारयसि च। अनयोः परित्यागात् केषाञ्चिद् विश्वासतरी भग्नाभवत्।
信仰と善き良心とを保て。或人々は之を棄て、信仰に就きて破船せしが、
20 हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ।
其中にヒメネオとアレキサンデルと在りしを、冒涜せざる事を學ばしめんとて我之をサタンに付せり。