< १ तीमथियः 6 >
1 यावन्तो लोका युगधारिणो दासाः सन्ति ते स्वस्वस्वामिनं पूर्णसमादरयोग्यं मन्यन्तां नो चेद् ईश्वरस्य नाम्न उपदेशस्य च निन्दा सम्भविष्यति।
What euere seruauntis ben vndur yok, deme thei her lordis worthi al onour, lest the name of the Lord and the doctryn be blasfemyd.
2 येषाञ्च स्वामिनो विश्वासिनः भवन्ति तैस्ते भ्रातृत्वात् नावज्ञेयाः किन्तु ते कर्म्मफलभोगिनो विश्वासिनः प्रियाश्च भवन्तीति हेतोः सेवनीया एव, त्वम् एतानि शिक्षय समुपदिश च।
And thei that han feithful lordis, dispise hem not, for thei ben britheren; but more serue thei, for thei ben feithful and louyd, whiche ben parceneris of benefice. Teche thou these thingis, and moneste thou these thingis.
3 यः कश्चिद् इतरशिक्षां करोति, अस्माकं प्रभो र्यीशुख्रीष्टस्य हितवाक्यानीश्वरभक्ते र्योग्यां शिक्षाञ्च न स्वीकरोति
If ony man techith othere wise, and acordith not to the hoolsum wordis of oure Lord Jhesu Crist, and to that teching that is bi pitee,
4 स दर्पध्मातः सर्व्वथा ज्ञानहीनश्च विवादै र्वाग्युद्धैश्च रोगयुक्तश्च भवति।
he is proud, and kan no thing, but langwischith aboute questiouns and stryuyng of wordis, of the whiche ben brouyt forth enuyes, stryues, blasfemyes, yuele suspiciouns, fiytingis of men,
5 तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज्ञानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ।
that ben corrupt in soule, and that ben pryued fro treuthe, that demen wynnyng to be pitee.
6 संयतेच्छया युक्ता येश्वरभक्तिः सा महालाभोपायो भवतीति सत्यं।
But a greet wynnyng is pitee, with sufficience.
7 एतज्जगत्प्रवेशनकालेऽस्माभिः किमपि नानायि तत्तयजनकालेऽपि किमपि नेतुं न शक्ष्यत इति निश्चितं।
For we brouyten in no thing in to this world, and no doute, that we moun not bere `awey ony thing.
8 अतएव खाद्यान्याच्छादनानि च प्राप्यास्माभिः सन्तुष्टै र्भवितव्यं।
But we hauynge foodis, and with what thingus we schulen be hilid, be we paied with these thingis.
9 ये तु धनिनो भवितुं चेष्टन्ते ते परीक्षायाम् उन्माथे पतन्ति ये चाभिलाषा मानवान् विनाशे नरके च मज्जयन्ति तादृशेष्वज्ञानाहिताभिलाषेष्वपि पतन्ति।
For thei that wolen be maad riche, fallen in to temptacioun, and `in to snare of the deuel, and in to many vnprofitable desiris and noyous, whiche drenchen men in to deth and perdicioun.
10 यतोऽर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्।
For the rote of alle yuelis is coueytise, which summen coueitinge erriden fro the feith, and bisettiden hem with many sorewis.
11 हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।
But, thou, man of God, fle these thingis; but sue thou riytwisnesse, pite, feith, charite, pacience, myldenesse.
12 विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्। (aiōnios )
Stryue thou a good strijf of feith, catche euerlastinge lijf, in to which thou art clepid, and hast knoulechid a good knouleching bifor many witnessis. (aiōnios )
13 अपरं सर्व्वेषां जीवयितुरीश्वरस्य साक्षाद् यश्च ख्रीष्टो यीशुः पन्तीयपीलातस्य समक्षम् उत्तमां प्रतिज्ञां स्वीकृतवान् तस्य साक्षाद् अहं त्वाम् इदम् आज्ञापयामि।
I comaunde to thee bifor God, that quikeneth alle thingis, and bifor Crist Jhesu, that yeldide a witnessing vnder Pilat of Pounce, a good confessioun,
14 ईश्वरेण स्वसमये प्रकाशितव्यम् अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं यावत् त्वया निष्कलङ्कत्वेन निर्द्दोषत्वेन च विधी रक्ष्यतां।
that thou kepe the comaundement with out wem, with out repreef, in to the comyng of oure Lord Jhesu Crist;
15 स ईश्वरः सच्चिदानन्दः, अद्वितीयसम्राट्, राज्ञां राजा, प्रभूनां प्रभुः,
whom the blessid and aloone miyti king of kyngis and Lord of lordis schal schewe in his tymes.
16 अमरताया अद्वितीय आकरः, अगम्यतेजोनिवासी, मर्त्त्यानां केनापि न दृष्टः केनापि न दृश्यश्च। तस्य गौरवपराक्रमौ सदातनौ भूयास्तां। आमेन्। (aiōnios )
Which aloone hath vndeedlynesse, and dwellith in liyt, to which no man may come; whom no man say, nether may se; to whom glorie, and honour, and empire be with out ende. Amen. (aiōnios )
17 इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता (aiōn )
Comaunde thou to the riche men of this world, that thei vndurstonde not hiyli, nether that thei hope in vncerteynte of richessis, but in the lyuynge God, that yyueth to vs alle thingis plenteuously to vse; (aiōn )
18 योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु,
to do wel, to be maad riche in good werkis, liytli to yyue, to comyne,
19 यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।
to tresoure to hem silf a good foundement in to tyme to comynge, that thei catche euerlastinge lijf.
20 हे तीमथिय, त्वम् उपनिधिं गोपय काल्पनिकविद्याया अपवित्रं प्रलापं विरोधोक्तिञ्च त्यज च,
Thou Tymothe, kepe the thing bitakun to thee, eschewynge cursid noueltees of voicis, and opynyouns of fals name of kunnyng;
21 यतः कतिपया लोकास्तां विद्यामवलम्ब्य विश्वासाद् भ्रष्टा अभवन। प्रसादस्तव सहायो भूयात्। आमेन्।
which summen bihetinge, aboute the feith fellen doun. The grace of God be with thee. Amen.