< १ तीमथियः 5 >

1 त्वं प्राचीनं न भर्त्सय किन्तु तं पितरमिव यूनश्च भ्रातृनिव
Do not rebuke an older man, but exhort him as a father; the younger men as brothers;
2 वृद्धाः स्त्रियश्च मातृनिव युवतीश्च पूर्णशुचित्वेन भगिनीरिव विनयस्व।
the older women as mothers; the younger as sisters, in all purity.
3 अपरं सत्यविधवाः सम्मन्यस्व।
Honor widows who are widows indeed.
4 कस्याश्चिद् विधवाया यदि पुत्राः पौत्रा वा विद्यन्ते तर्हि ते प्रथमतः स्वीयपरिजनान् सेवितुं पित्रोः प्रत्युपकर्त्तुञ्च शिक्षन्तां यतस्तदेवेश्वरस्य साक्षाद् उत्तमं ग्राह्यञ्च कर्म्म।
But if any widow has children or grandchildren, let them learn first to show piety towards their own family, and to repay their parents, for this is acceptable in the sight of God.
5 अपरं या नारी सत्यविधवा नाथहीना चास्ति सा ईश्वरस्याश्रये तिष्ठन्ती दिवानिशं निवेदनप्रार्थनाभ्यां कालं यापयति।
Now she who is a widow indeed, and desolate, has her hope set on God, and continues in petitions and prayers night and day.
6 किन्तु या विधवा सुखभोगासक्ता सा जीवत्यपि मृता भवति।
But she who gives herself to pleasure is dead while she lives.
7 अतएव ता यद् अनिन्दिता भवेयूस्तदर्थम् एतानि त्वया निदिश्यन्तां।
Also command these things, so that they will be without fault.
8 यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।
But if anyone does not provide for his own, and especially his own household, he has denied the faith, and is worse than an unbeliever.
9 विधवावर्गे यस्या गणना भवति तया षष्टिवत्सरेभ्यो न्यूनवयस्कया न भवितव्यं; अपरं पूर्व्वम् एकस्वामिका भूत्वा
Let no one be enrolled as a widow under sixty years old, having been the wife of one man,
10 सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।
being approved by good works, if she has brought up children, if she has been hospitable to strangers, if she has washed the saints' feet, if she has relieved the afflicted, and if she has diligently followed every good work.
11 किन्तु युवती र्विधवा न गृहाण यतः ख्रीष्टस्य वैपरीत्येन तासां दर्पे जाते ता विवाहम् इच्छन्ति।
But refuse younger widows, for whenever their passions lead them away from Christ, they desire to marry;
12 तस्माच्च पूर्व्वधर्म्मं परित्यज्य दण्डनीया भवन्ति।
having condemnation, because they have rejected their first pledge.
13 अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।
Besides, they also learn to be idle, going about from house to house. Not only idle, but also gossips and busybodies, saying things which they ought not.
14 अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।
I desire therefore that the younger widows marry, bear children, rule the household, and give no occasion to the adversary for reviling.
15 यत इतः पूर्व्वम् अपि काश्चित् शयतानस्य पश्चाद्गामिन्यो जाताः।
For already some have turned aside after Satan.
16 अपरं विश्वासिन्या विश्वासिनो वा कस्यापि परिवाराणां मध्ये यदि विधवा विद्यन्ते तर्हि स ताः प्रतिपालयतु तस्मात् समितौ भारे ऽनारोपिते सत्यविधवानां प्रतिपालनं कर्त्तुं तया शक्यते।
If any believing woman has widows, let her assist them, and do not let the church be burdened; that it might help those widows who are truly in need.
17 ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।
Let the elders who rule well be counted worthy of double honor, especially those who labor in the word and in teaching.
18 यस्मात् शास्त्रे लिखितमिदमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं मा बधानेति, अपरमपि कार्य्यकृद् वेतनस्य योग्यो भवतीति।
For the Scripture says, "Do not muzzle the ox when it treads out the grain." And, "The laborer is worthy of his wages."
19 द्वौ त्रीन् वा साक्षिणो विना कस्याचित् प्राचीनस्य विरुद्धम् अभियोगस्त्वया न गृह्यतां।
Do not receive an accusation against an elder, except at the word of two or three witnesses.
20 अपरं ये पापमाचरन्ति तान् सर्व्वेषां समक्षं भर्त्सयस्व तेनापरेषामपि भीति र्जनिष्यते।
Those who sin, reprove in the sight of all, that the rest also may be in fear.
21 अहम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य मनोनीतदिव्यदूतानाञ्च गोचरे त्वाम् इदम् आज्ञापयामि त्वं कस्याप्यनुरोधेन किमपि न कुर्व्वन विनापक्षपातम् एतान विधीन् पालय।
I command you in the sight of God, and Christ Jesus, and the chosen angels, that you observe these things without prejudice, doing nothing by partiality.
22 कस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष।
Do not ordain anyone hastily, nor participate in the sins of others. Keep yourself pure.
23 अपरं तवोदरपीडायाः पुनः पुन दुर्ब्बलतायाश्च निमित्तं केवलं तोयं न पिवन् किञ्चिन् मद्यं पिव।
Be no longer a drinker of water only, but use a little wine for your stomach's sake and your frequent infirmities.
24 केषाञ्चित् मानवानां पापानि विचारात् पूर्व्वं केषाञ्चित् पश्चात् प्रकाशन्ते।
The sins of some people are obvious, going before them to judgment, but those of others show up later.
25 तथैव सत्कर्म्माण्यपि प्रकाशन्ते तदन्यथा सति प्रच्छन्नानि स्थातुं न शक्नुवन्ति।
In the same way also there are good works that are obvious, and those that are otherwise cannot be hidden.

< १ तीमथियः 5 >