< १ पितरः 5 >

1 ख्रीष्टस्य क्लेशानां साक्षी प्रकाशिष्यमाणस्य प्रतापस्यांशी प्राचीनश्चाहं युष्माकं प्राचीनान् विनीयेदं वदामि।
Starších, kteříž mezi vámi jsou, prosím já spolustarší, a svědek Kristových utrpení, a budoucí, kteráž zjevena bude, slávy účastník:
2 युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा।
Paste stádo Boží, kteréž při vás jest, opatrujíce je, ne bezděky, ale dobrovolně, ne pro mrzký zisk, ale ochotně,
3 अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।
Ani jako panujíce nad dědictvím Páně, ale jako příkladem jsouce stádu.
4 तेन प्रधानपालक उपस्थिते यूयम् अम्लानं गौरवकिरीटं लप्स्यध्वे।
A když se ukáže kníže pastýřů, vezmete tu neuvadlou korunu slávy.
5 हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः, आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।
Podobně i mládenci, buďte poddáni starším. A všickni poddanost jedni druhým ukazujte, pokorou vnitř se ozdobte. Bůh zajisté pyšným se protiví, ale pokorným dává milost.
6 अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति।
Pokořtež se tedy pod mocnou ruku Boží, aby vás povýšil časem svým,
7 यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।
Všelikou péči vaši uvrhouce na něj. Nebo onť má péči o vás.
8 यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,
Střízliví buďte, bděte; nebo protivník váš ďábel jako lev řvoucí obchází, hledaje, koho by sežral.
9 अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।
Jemužto odpírejte, silní jsouce u víře, vědouce, že tatáž utrpení bratrstvo vaše, kteréž na světě jest, obkličují.
10 क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु। (aiōnios g166)
Bůh pak všeliké milosti, kterýž povolal nás k věčné slávě své v Kristu Ježíši, když maličko potrpíte, on dokonalé vás učiň, utvrď, zmocni i upevni. (aiōnios g166)
11 तस्य गौरवं पराक्रमश्चानन्तकालं यावद् भूयात्। आमेन्। (aiōn g165)
Jemuž sláva a císařství na věky věků. Amen. (aiōn g165)
12 यः सिल्वानो (मन्ये) युष्माकं विश्वास्यो भ्राता भवति तद्वाराहं संक्षेपेण लिखित्वा युष्मान् विनीतवान् यूयञ्च यस्मिन् अधितिष्ठथ स एवेश्वरस्य सत्यो ऽनुग्रह इति प्रमाणं दत्तवान्।
Po Silvánovi, vám věrném bratru, tak za to mám, že jsem psal vám krátce, napomínaje a osvědčuje, že tato jest pravá milost Boží, v kteréž stojíte.
13 युष्माभिः सहाभिरुचिता या समिति र्बाबिलि विद्यते सा मम पुत्रो मार्कश्च युष्मान् नमस्कारं वेदयति।
Pozdravuje vás ta církev, kteráž jest v Babyloně, účastnice vyvolení vašeho, a Marek syn můj.
14 यूयं प्रेमचुम्बनेन परस्परं नमस्कुरुत। यीशुख्रीष्टाश्रितानां युष्माकं सर्व्वेषां शान्ति र्भूयात्। आमेन्।
Pozdravtež jedni druhých v políbení laskavém. Pokoj vám všechněm, kteříž jste v Kristu Ježíši. Amen.

< १ पितरः 5 >