< १ योहनः 1 >
1 आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः।
这封信所讲述的,伊始之际便存在的生命之道,我们曾听见、曾亲眼所看见、曾仔细观察、曾亲手触摸。
2 स जीवनस्वरूपः प्रकाशत वयञ्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् ज्ञापयामः। (aiōnios )
这生命已向我们显现;我们曾见过,也曾对其进行见证, 并且向你们讲述过那曾与父同在、曾向我们显化的永恒生命。 (aiōnios )
3 अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।
现在,我们把所见所闻向你们讲述,让你们也可以与我们分享这友谊——这是与父、与父之子耶稣基督的友谊。
4 अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।
我们之所以写这些事,是为了让我们的幸福更加完整。
5 वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।
上帝是光,在他那里完全没有黑暗。这就是我们从他那里获得的、现在向你们宣讲的信息。
6 वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।
如果我们说自己与他享有友谊,但却生活在黑暗里,那就是我们在说谎,并非在实行真理。
7 किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
但如果我们生活在光中,就像他在光中,我们就彼此分享友谊,他儿子耶稣的血就会让我们洁净,脱离所有罪。
8 वयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् वञ्चयामः सत्यमतञ्चास्माकम् अन्तरे न विद्यते।
如果我们说自己没有罪,那是自欺,就不是行真理。
9 यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।
但如果我们承认自己的罪,上帝是值得信任的、是正直良善的,必定原谅我们的罪,让我们洁净,让我们脱离所有不义。
10 वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्यञ्चास्माकम् अन्तरे न विद्यते।
如果我们声称自己没有罪,就是把上帝当作说谎者,他的道就不会在我们之中。