< १ करिन्थिनः 7 >
1 अपरञ्च युष्माभि र्मां प्रति यत् पत्रमलेखि तस्योत्तरमेतत्, योषितोऽस्पर्शनं मनुजस्य वरं;
Now concerning the things of which ye wrote to me: [It is] good for a man not to touch a woman.
2 किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।
Nevertheless, [to avoid] lewdness, let every man have his own wife, and let every woman have her own husband.
3 भार्य्यायै भर्त्रा यद्यद् वितरणीयं तद् वितीर्य्यतां तद्वद् भर्त्रेऽपि भार्य्यया वितरणीयं वितीर्य्यतां।
Let the husband render to the wife due benevolence: and likewise also the wife to the husband.
4 भार्य्यायाः स्वदेहे स्वत्वं नास्ति भर्त्तुरेव, तद्वद् भर्त्तुरपि स्वदेहे स्वत्वं नास्ति भार्य्याया एव।
The wife hath not power of her own body, but the husband: and likewise also the husband hath not power of his own body, but the wife.
5 उपोषणप्रार्थनयोः सेवनार्थम् एकमन्त्रणानां युष्माकं कियत्कालं यावद् या पृथक्स्थिति र्भवति तदन्यो विच्छेदो युष्मन्मध्ये न भवतु, ततः परम् इन्द्रियाणाम् अधैर्य्यात् शयतान् यद् युष्मान् परीक्षां न नयेत् तदर्थं पुनरेकत्र मिलत।
Defraud ye not one the other, except with consent for a time, that ye may give yourselves to fasting and prayer; and come together again, that Satan may not tempt you for your incontinence.
6 एतद् आदेशतो नहि किन्त्वनुज्ञात एव मया कथ्यते,
But I speak this by permission, [and] not as a commandment.
7 यतो ममावस्थेव सर्व्वमानवानामवस्था भवत्विति मम वाञ्छा किन्त्वीश्वराद् एकेनैको वरोऽन्येन चान्यो वर इत्थमेकैकेन स्वकीयवरो लब्धः।
For I would that all men were as I myself. But every man hath his proper gift from God, one after this manner, and another after that.
8 अपरम् अकृतविवाहान् विधवाश्च प्रति ममैतन्निवेदनं ममेव तेषामवस्थिति र्भद्रा;
I say therefore to the unmarried and widows, It is good for them if they remain even as I.
9 किञ्च यदि तैरिन्द्रियाणि नियन्तुं न शक्यन्ते तर्हि विवाहः क्रियतां यतः कामदहनाद् व्यूढत्वं भद्रं।
But if they cannot contain, let them marry: for it is better to marry than to burn.
10 ये च कृतविवाहास्ते मया नहि प्रभुनैवैतद् आज्ञाप्यन्ते।
And to the married I command, [yet] not I, but the Lord, Let not the wife depart from [her] husband:
11 भार्य्या भर्त्तृतः पृथक् न भवतु। यदि वा पृथग्भूता स्यात् तर्हि निर्विवाहा तिष्ठतु स्वीयपतिना वा सन्दधातु भर्त्तापि भार्य्यां न त्यजतु।
But if she shall depart, let her remain unmarried, or be reconciled to [her] husband: and let not the husband put away [his] wife.
12 इतरान् जनान् प्रति प्रभु र्न ब्रवीति किन्त्वहं ब्रवीमि; कस्यचिद् भ्रातुर्योषिद् अविश्वासिनी सत्यपि यदि तेन सहवासे तुष्यति तर्हि सा तेन न त्यज्यतां।
But to the rest I speak, not the Lord, if any brother hath a wife that believeth not, and she is pleased to dwell with him, let him not put her away.
13 तद्वत् कस्याश्चिद् योषितः पतिरविश्वासी सन्नपि यदि तया सहवासे तुष्यति तर्हि स तया न त्यज्यतां।
And the woman who hath a husband that believeth not, and if he is pleased to dwell with her, let her not leave him.
14 यतोऽविश्वासी भर्त्ता भार्य्यया पवित्रीभूतः, तद्वदविश्वासिनी भार्य्या भर्त्रा पवित्रीभूता; नोचेद् युष्माकमपत्यान्यशुचीन्यभविष्यन् किन्त्वधुना तानि पवित्राणि सन्ति।
For the unbelieving husband is sanctified by the wife, and the unbelieving wife is sanctified by the husband: else were your children unclean; but now are they holy.
15 अविश्वासी जनो यदि वा पृथग् भवति तर्हि पृथग् भवतु; एतेन भ्राता भगिनी वा न निबध्यते तथापि वयमीश्वरेण शान्तये समाहूताः।
But if the unbelieving departeth, let him depart. A brother or a sister is not under bondage in such [cases]; but God hath called us to peace.
16 हे नारि तव भर्त्तुः परित्राणं त्वत्तो भविष्यति न वेति त्वया किं ज्ञायते? हे नर तव जायायाः परित्राणं त्वत्तेा भविष्यति न वेति त्वया किं ज्ञायते?
For how knowest thou, O wife, whether thou shalt save [thy] husband? or how knowest thou, O man, whether thou shalt save [thy] wife?
17 एकैको जनः परमेश्वराल्लब्धं यद् भजते यस्याञ्चावस्थायाम् ईश्वरेणाह्वायि तदनुसारेणैवाचरतु तदहं सर्व्वसमाजस्थान् आदिशामि।
But as God hath distributed to every man, as the Lord hath called every one, so let him walk. And so I ordain in all churches.
18 छिन्नत्वग् भृत्वा य आहूतः स प्रकृष्टत्वक् न भवतु, तद्वद् अछिन्नत्वग् भूत्वा य आहूतः स छिन्नत्वक् न भवतु।
Is any man called being circumcised? let him not become uncircumcised. Is any called in uncircumcision? let him not become circumcised.
19 त्वक्छेदः सारो नहि तद्वदत्वक्छेदोऽपि सारो नहि किन्त्वीश्वरस्याज्ञानां पालनमेव।
Circumcision is nothing, and uncircumcision is nothing, but the keeping of the commandments of God.
20 यो जनो यस्यामवस्थायामाह्वायि स तस्यामेवावतिष्ठतां।
Let every man continue in the same calling in which he was called.
21 दासः सन् त्वं किमाहूतोऽसि? तन्मा चिन्तय, तथाच यदि स्वतन्त्रो भवितुं शक्नुयास्तर्हि तदेव वृणु।
Art thou called [being] a servant? care not for it; but if thou mayest be made free, use [it] rather.
22 यतः प्रभुनाहूतो यो दासः स प्रभो र्मोचितजनः। तद्वद् तेनाहूतः स्वतन्त्रो जनोऽपि ख्रीष्टस्य दास एव।
For he that is called in the Lord, [being] a servant, is the Lord's free-man: likewise also he that is called, [being] free, is Christ's servant.
23 यूयं मूल्येन क्रीता अतो हेतो र्मानवानां दासा मा भवत।
Ye are bought with a price; be not ye the servants of men.
24 हे भ्रातरो यस्यामवस्थायां यस्याह्वानमभवत् तया स ईश्वरस्य साक्षात् तिष्ठतु।
Brethren, let every man in the state in which he is called, continue in it with God.
25 अपरम् अकृतविवाहान् जनान् प्रति प्रभोः कोऽप्यादेशो मया न लब्धः किन्तु प्रभोरनुकम्पया विश्वास्यो भूतोऽहं यद् भद्रं मन्ये तद् वदामि।
Now concerning virgins, I have no commandment of the Lord: yet I give my judgment as one that hath obtained mercy from the Lord to be faithful.
26 वर्त्तमानात् क्लेशसमयात् मनुष्यस्यानूढत्वं भद्रमिति मया बुध्यते।
I suppose therefore that this is good for the present distress, [I say], that [it is] good for a man so to be.
27 त्वं किं योषिति निबद्धोऽसि तर्हि मोचनं प्राप्तुं मा यतस्व। किं वा योषितो मुक्तोऽसि? तर्हि जायां मा गवेषय।
Art thou bound to a wife? seek not to be loosed. Art thou loosed from a wife? seek not a wife.
28 विवाहं कुर्व्वता त्वया किमपि नापाराध्यते तद्वद् व्यूह्यमानया युवत्यापि किमपि नापराध्यते तथाच तादृशौ द्वौ जनौ शारीरिकं क्लेशं लप्स्येते किन्तु युष्मान् प्रति मम करुणा विद्यते।
But if thou marry, thou hast not sinned: and if a virgin marry, she hath not sinned. Nevertheless, such will have trouble in the flesh; but I spare you.
29 हे भ्रातरोऽहमिदं ब्रवीमि, इतः परं समयोऽतीव संक्षिप्तः,
But this I say, brethren, The time [is] short. It remaineth, that both they that have wives, be as though they had none;
30 अतः कृतदारैरकृतदारैरिव रुदद्भिश्चारुदद्भिरिव सानन्दैश्च निरानन्दैरिव क्रेतृभिश्चाभागिभिरिवाचरितव्यं
And they that weep, as though they wept not; and they that rejoice, as though they rejoiced not; and they that buy, as though they possessed not;
31 ये च संसारे चरन्ति तै र्नातिचरितव्यं यत इहलेाकस्य कौतुको विचलति।
And they that use this world, as not abusing [it]. For the fashion of this world passeth away.
32 किन्तु यूयं यन्निश्चिन्ता भवेतेति मम वाञ्छा। अकृतविवाहो जनो यथा प्रभुं परितोषयेत् तथा प्रभुं चिन्तयति,
But I would have you without anxious care. He that is unmarried, is anxious for the things that belong to the Lord, how he may please the Lord:
33 किन्तु कृतविवाहो जनो यथा भार्य्यां परितोषयेत् तथा संसारं चिन्तयति।
But he that is married, is anxious for the things that are of the world, how he may please [his] wife.
34 तद्वद् ऊढयोषितो ऽनूढा विशिष्यते। यानूढा सा यथा कायमनसोः पवित्रा भवेत् तथा प्रभुं चिन्तयति या चोढा सा यथा भर्त्तारं परितोषयेत् तथा संसारं चिन्तयति।
There is a difference [also] between a wife and a virgin. The unmarried woman is anxious for the things of the Lord, that she may be holy, both in body and in spirit: but she that is married, is anxious for the things of the world, how she may please [her] husband.
35 अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते।
And this I speak for your own profit; not that I may cast a snare upon you, but for that which is comely, and that ye may attend upon the Lord without distraction.
36 कस्यचित् कन्यायां यौवनप्राप्तायां यदि स तस्या अनूढत्वं निन्दनीयं विवाहश्च साधयितव्य इति मन्यते तर्हि यथाभिलाषं करोतु, एतेन किमपि नापरात्स्यति विवाहः क्रियतां।
But if any man thinketh that he behaveth himself uncomely towards his virgin, if she hath passed the flower of [her] age, and need so requireth, let him do what he will, he sinneth not: let them marry.
37 किन्तु दुःखेनाक्लिष्टः कश्चित् पिता यदि स्थिरमनोगतः स्वमनोऽभिलाषसाधने समर्थश्च स्यात् मम कन्या मया रक्षितव्येति मनसि निश्चिनोति च तर्हि स भद्रं कर्म्म करोति।
Nevertheless, he that standeth steadfast in his heart, having no necessity, but hath power over his own will, and hath so decreed in his heart that he will keep his virgin, doeth well.
38 अतो यो विवाहं करोति स भद्रं कर्म्म करोति यश्च विवाहं न करोति स भद्रतरं कर्म्म करोति।
So then he that giveth [her] in marriage doeth well; but he that giveth [her] not in marriage doeth better.
39 यावत्कालं पति र्जीवति तावद् भार्य्या व्यवस्थया निबद्धा तिष्ठति किन्तु पत्यौ महानिद्रां गते सा मुक्तीभूय यमभिलषति तेन सह तस्या विवाहो भवितुं शक्नोति, किन्त्वेतत् केवलं प्रभुभक्तानां मध्ये।
The wife is bound by the law as long as her husband liveth; but if her husband is dead, she is at liberty to be married to whom she will; only in the Lord.
40 तथाच सा यदि निष्पतिका तिष्ठति तर्हि तस्याः क्षेमं भविष्यतीति मम भावः। अपरम् ईश्वरस्यात्मा ममाप्यन्त र्विद्यत इति मया बुध्यते।
But she is happier if she so remain, after my judgment; and I think also that I have the Spirit of God.