< १ करिन्थिनः 16 >
1 पवित्रलोकानां कृते योऽर्थसंग्रहस्तमधि गालातीयदेशस्य समाजा मया यद् आदिष्टास्तद् युष्माभिरपि क्रियतां।
But of the gaderyngis of money that ben maad in to seyntis, as Y ordeynede in the chirchis of Galathie, so also do ye o dai of the wouke.
2 ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।
Ech of you kepe at hym silf, kepynge that that plesith to him, that whanne Y come, the gaderyngis ben not maad.
3 ततो ममागमनसमये यूयं यानेव विश्वास्या इति वेदिष्यथ तेभ्योऽहं पत्राणि दत्त्वा युष्माकं तद्दानस्य यिरूशालमं नयनार्थं तान् प्रेषयिष्यामि।
And whanne Y schal be present, whiche men ye preuen, Y schal sende hem bi epistlis to bere youre grace in to Jerusalem.
4 किन्तु यदि तत्र ममापि गमनम् उचितं भवेत् तर्हि ते मया सह यास्यन्ति।
That if it be worthi that also Y go, thei schulen go with me.
5 साम्प्रतं माकिदनियादेशमहं पर्य्यटामि तं पर्य्यट्य युष्मत्समीपम् आगमिष्यामि।
But Y schal come to you, whanne Y schal passe bi Macedonye; for whi Y schal passe bi Macedonye.
6 अनन्तरं किं जानामि युष्मत्सन्निधिम् अवस्थास्ये शीतकालमपि यापयिष्यामि च पश्चात् मम यत् स्थानं गन्तव्यं तत्रैव युष्माभिरहं प्रेरयितव्यः।
But perauenture Y schal dwelle at you, or also dwelle the wynter, that and ye lede me whidir euere Y schal go.
7 यतोऽहं यात्राकाले क्षणमात्रं युष्मान् द्रष्टुं नेच्छामि किन्तु प्रभु र्यद्यनुजानीयात् तर्हि किञ्चिद् दीर्घकालं युष्मत्समीपे प्रवस्तुम् इच्छामि।
And Y wole not now se you in my passyng, for Y hope to dwelle with you awhile, if the Lord schal suffre.
8 तथापि निस्तारोत्सवात् परं पञ्चाशत्तमदिनं यावद् इफिषपुर्य्यां स्थास्यामि।
But Y schal dwelle at Efesi, `til to Witsuntide.
9 यस्माद् अत्र कार्य्यसाधनार्थं ममान्तिके बृहद् द्वारं मुक्तं बहवो विपक्षा अपि विद्यन्ते।
For a grete dore and an opyn is openyd to me, and many aduersaries.
10 तिमथि र्यदि युष्माकं समीपम् आगच्छेत् तर्हि येन निर्भयं युष्मन्मध्ये वर्त्तेत तत्र युष्माभि र्मनो निधीयतां यस्माद् अहं यादृक् सोऽपि तादृक् प्रभोः कर्म्मणे यतते।
And if Thimothe come, se ye that he be with out drede with you, for he worcheth the werk of the Lord, as Y.
11 कोऽपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे।
Therfor no man dispise hym; but lede ye hym forth in pees, that he come to me; for Y abide hym with britheren.
12 आपल्लुं भ्रातरमध्यहं निवेदयामि भ्रातृभिः साकं सोऽपि यद् युष्माकं समीपं व्रजेत् तदर्थं मया स पुनः पुनर्याचितः किन्त्विदानीं गमनं सर्व्वथा तस्मै नारोचत, इतःपरं सुसमयं प्राप्य स गमिष्यति।
But, britheren, Y make knowun to you of Apollo, that Y preiede him myche, that he schulde come to you, with britheren. But it was not his wille to come now; but he schal come, whanne he schal haue leiser.
13 यूयं जागृत विश्वासे सुस्थिरा भवत पौरुषं प्रकाशयत बलवन्तो भवत।
Walke ye, and stonde ye in the feith; do ye manli, and be ye coumfortid in the Lord,
14 युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां।
and be alle youre thingis don in charite.
15 हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते।
And, britheren, Y biseche you, ye knowen the hous of Stephan, and of Fortunati, and Acaicy, for thei ben the firste fruytis of Acaie, and in to mynystrie of seyntis thei han ordeyned hem silf;
16 अतो यूयमपि तादृशलोकानाम् अस्मत्सहायानां श्रमकारिणाञ्च सर्व्वेषां वश्या भवत।
that also ye be sugetis to suche, and to ech worchynge togidere and trauelynge.
17 स्तिफानः फर्त्तूनात आखायिकश्च यद् अत्रागमन् तेनाहम् आनन्दामि यतो युष्माभिर्यत् न्यूनितं तत् तैः सम्पूरितं।
For Y haue ioie in the presence of Stephan, and of Fortunate, and Acaici;
18 तै र्युष्माकं मम च मनांस्याप्यायितानि। तस्मात् तादृशा लोका युष्माभिः सम्मन्तव्याः।
for thei filliden that thing that failide to you; for thei han refreischid bothe my spirit and youre. Therfor knowe ye hem, that ben suche maner men.
19 युष्मभ्यम् आशियादेशस्थसमाजानां नमस्कृतिम् आक्किलप्रिस्किल्लयोस्तन्मण्डपस्थसमितेश्च बहुनमस्कृतिं प्रजानीत।
Alle the chirchis of Asie greten you wel. Aquila and Prisca, with her homeli chirche, greten you myche in the Lord, at the whiche also Y am herborid.
20 सर्व्वे भ्रातरो युष्मान् नमस्कुर्व्वन्ते। यूयं पवित्रचुम्बनेन मिथो नमत।
Alle bretheren greten you wel. Grete ye wel togidere in hooli cos.
21 पौलोऽहं स्वकरलिखितं नमस्कृतिं युष्मान् वेदये।
My gretyng bi Poulis hoond.
22 यदि कश्चिद् यीशुख्रीष्टे न प्रीयते तर्हि स शापग्रस्तो भवेत् प्रभुरायाति।
If ony man loueth not oure Lord Jhesu Crist, be he cursid, Maranatha.
23 अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहो युष्मान् प्रति भूयात्।
The grace of oure Lord Jhesu Crist be with you.
24 ख्रीष्टं यीशुम् आश्रितान् युष्मान् प्रति मम प्रेम तिष्ठतु। इति॥
My charite be with you alle in Crist Jhesu oure Lord. Amen.