< Pāvilavēstulē Romiešiem 13 >
1 Ikviens lai ir paklausīgs tām valdīšanām, kam tā vara; jo nekādas valdīšanas nav kā vien no Dieva, un kur valdīšanas ir, tur tās no Dieva ir ieceltas.
युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।
2 Tad nu, kas valdīšanai turas pretī, tas turas pretī Dieva likumam. Bet kas pretī turas, tie dabūs savu sodu.
इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।
3 Jo valdnieki nav bijājami labiem darbiem, bet ļauniem; ja tu negribi no valdīšanas bīties, tad dari labu, tad tev būs teikšana no viņas.
शास्ता सदाचारिणां भयप्रदो नहि दुराचारिणामेव भयप्रदो भवति; त्वं किं तस्मान् निर्भयो भवितुम् इच्छसि? तर्हि सत्कर्म्माचर, तस्माद् यशो लप्स्यसे,
4 Jo tā ir Dieva kalpone tev par labu; bet ja tu ļaunu dari, tad bīsties, jo tā zobenu nenes velti, jo tā ir Dieva kalpone, atriebēja ļaundarītājam par sodību.
यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।
5 Tāpēc vajag paklausīt ne vien sodības dēļ bet arī zināmas sirds dēļ.
अतएव केवलदण्डभयान्नहि किन्तु सदसद्बोधादपि तस्य वश्येन भवितव्यं।
6 Tāpēc dodat arī meslus. Jo tie ir Dieva sulaiņi, šo savu amatu kopdami.
एतस्माद् युष्माकं राजकरदानमप्युचितं यस्माद् ये करं गृह्लन्ति त ईश्वरस्य किङ्करा भूत्वा सततम् एतस्मिन् कर्म्मणि निविष्टास्तिष्ठन्ति।
7 Tad nu dodiet ikvienam, kas tam nākas: meslus, kam mesli nākas; muitu, kam muita nākas; bijāšanu, kam bijāšana nākas; godu, kam gods nākas.
अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।
8 Neesiet nevienam neko parādā, kā vien, ka jūs cits citu mīlat; jo kas otru mīl, tas bauslību ir piepildījis.
युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।
9 Jo tas bauslis: tev nebūs laulību pārkāpt, tev nebūs nokaut, tev nebūs zagt, tev nebūs nepatiesu liecību dot, tev nebūs iekārot, un ja vēl ir cits bauslis, tas šinī vārdā top saņemts, proti tanī: tev būs savu tuvāko mīlēt kā sevi pašu.
वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।
10 Mīlestība tuvākam ļauna nedara; tad nu mīlestība ir bauslības piepildīšana.
यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।
11 Un to dariet, zinādami to laiku, ka tagad mums ir tā stunda celties no miega; jo tagad mūsu pestīšana ir tuvāka, nekā kad mēs palikām ticīgi.
प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।
12 Nakts ir pagājusi un diena tuvu nākusi, tad lai noliekam tumsības darbus un lai apvelkam gaismas ieročus.
बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या।
13 Lai tā kā dienā godīgi staigājam, ne rīšanā un plītēšanā, ne izvirtībā un nešķīstībā, ne bāršanā un ienaidībā.
अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः।
14 Bet apvelciet To Kungu Jēzu Kristu un nekopiet miesu uz kārībām.
यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।