< Mateja Evaņg̒elijs 12 >
1 Tanī laikā Jēzus staigāja svētdienā caur labību; un Viņa mācekļi bija izsalkuši un sāka vārpas plūkt un ēst.
अनन्तरं यीशु र्विश्रामवारे श्स्यमध्येन गच्छति, तदा तच्छिष्या बुभुक्षिताः सन्तः श्स्यमञ्जरीश्छत्वा छित्वा खादितुमारभन्त।
2 Bet tie farizeji, to redzēdami, uz Viņu sacīja: “Redzi, Tavi mācekļi dara, ko svētdienā darīt nav brīvi.”
तद् विलोक्य फिरूशिनो यीशुं जगदुः, पश्य विश्रामवारे यत् कर्म्माकर्त्तव्यं तदेव तव शिष्याः कुर्व्वन्ति।
3 Un Viņš uz tiem sacīja: “Vai jūs neesat lasījuši, ko Dāvids darījis, kad viņš bija izsalcis līdz ar tiem, kas pie viņa bija?
स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?
4 Ka viņš ir Dieva namā gājis un tās noliktās maizes ēdis, ko ēst nebija brīvi, ne viņam, ne tiem, kas pie viņa bija, bet priesteriem vien?
ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्सङ्गिमनुजानाञ्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः।
5 Jeb vai jūs bauslībā neesat lasījuši, ka priesteri svētdienās svētdienu Dieva namā pārkāpj un ir nevainīgi?
अन्यच्च विश्रामवारे मध्येमन्दिरं विश्रामवारीयं नियमं लङ्वन्तोपि याजका निर्दोषा भवन्ति, शास्त्रमध्ये किमिदमपि युष्माभि र्न पठितं?
6 Bet Es jums saku, ka Tas kas šeitan, ir lielāks, nekā tas Dieva nams.
युष्मानहं वदामि, अत्र स्थाने मन्दिरादपि गरीयान् एक आस्ते।
7 Bet kad jūs zinātu, kas tas ir: “Man patīk sirds žēlastība un ne upuris,” tad jūs šos nevainīgos nebūtu notiesājuši.
किन्तु दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि। एतद्वचनस्यार्थं यदि युयम् अज्ञासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट।
8 Jo Tas Cilvēka Dēls ir arī svētdienas kungs.”
अन्यच्च मनुजसुतो विश्रामवारस्यापि पतिरास्ते।
9 Un Viņš no turienes izgājis nāca viņu baznīcā.
अनन्तरं स तत्स्थानात् प्रस्थाय तेषां भजनभवनं प्रविष्टवान्, तदानीम् एकः शुष्ककरामयवान् उपस्थितवान्।
10 Un redzi, tur bija cilvēks, tam bija sakaltusi roka, un tie Viņam vaicāja, sacīdami: “Vai brīvi svētdienā dziedināt?” Ka tie Viņu apsūdzētu.
ततो यीशुम् अपवदितुं मानुषाः पप्रच्छुः, विश्रामवारे निरामयत्वं करणीयं न वा?
11 Bet Viņš uz tiem sacīja: “Kurš cilvēks būs jūsu starpā, kam ir viena avs, un kad tā svētdienā iekrīt bedrē, vai tas to nesatvers un neizvilks ārā?
तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क आस्ते?
12 Vai tad nu cilvēks nav daudz labāks, nekā avs? Tāpēc ir brīvi, svētdienā labu darīt.”
अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।
13 Tad Viņš uz to cilvēku sacīja: “Izstiepi savu roku!” Un viņš to izstiepa. Tad tā viņam palika atkal vesela kā tā otra.
अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थोऽभवत्।
14 Tad tie farizeji izgāja un aprunājās pret Viņu, kā tie To nomaitātu.
तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।
15 Bet Jēzus to nomanīdams aizgāja no turienes. Un daudz ļaužu Viņam gāja pakaļ, un Viņš tos visus dziedināja.
ततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज्ञापयत्,
16 Un Viņš tiem piekodināja, ka tie Viņu nedarītu zināmu.
यूयं मां न परिचाययत।
17 Ka piepildītos, ko pravietis Jesaja runājis, sacīdams:
तस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते।
18 “Redzi, Mans kalps, ko Es izredzējies, un Mans mīļais, pie kā Manai dvēselei labs prāts; Es likšu uz Viņu Savu Garu, un Tas pasludinās tautām tiesu.
केनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।
19 Ne Viņš bārsies, ne brēks, un neviens nedzirdēs uz ielām Viņa balsi.
व्यवस्था चलिता यावत् नहि तेन करिष्यते। तावत् नलो विदीर्णोऽपि भंक्ष्यते नहि तेन च। तथा सधूमवर्त्तिञ्च न स निर्व्वापयिष्यते।
20 Ielūzušu niedri Viņš nesalauzīs, un kvēlošu dakti Viņš neizdzēsīs, tiekams Viņš tiesai dos uzvarēšanu.
प्रत्याशाञ्च करिष्यन्ति तन्नाम्नि भिन्नदेशजाः।
21 Un tautas cerēs uz Viņa vārdu.”
यान्येतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तान्यासन्, तानि सफलान्यभवन्।
22 Tad viens velna apsēsts pie Viņa tapa novests, akls un mēms būdams. Un Viņš to darīja veselu, tā ka tas aklais un mēmais runāja un redzēja.
अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्।
23 Un visi ļaudis iztrūkās un sacīja: “Vai Šis nav Dāvida dēls?”
अनेन सर्व्वे विस्मिताः कथयाञ्चक्रुः, एषः किं दायूदः सन्तानो नहि?
24 Bet tie farizeji to dzirdēdami, sacīja: “Šis velnus neizdzen, kā tik vien caur Belcebulu, velnu virsnieku.”
किन्तु फिरूशिनस्तत् श्रुत्वा गदितवन्तः, बाल्सिबूब्नाम्नो भूतराजस्य साहाय्यं विना नायं भूतान् त्याजयति।
25 Bet Jēzus viņu domas nomanījis, uz tiem sacīja: “Ikviena valsts, kas savā starpā ienaidā, tā aiziet postā, un ikkatra pilsēta vai nams, kas savā starpā ienaidā, nevar pastāvēt.
तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
26 Ja nu sātans sātanu izdzen, tad viņš ir ienaidā ar sevi pašu; kā tad viņa valsts var pastāvēt?
तद्वत् शयतानो यदि शयतानं बहिः कृत्वा स्वविपक्षात् पृथक् पृथक् भवति, तर्हि तस्य राज्यं केन प्रकारेण स्थास्यति?
27 Un ja Es caur Belcebulu velnus izdzenu, caur ko tad jūsu bērni tos izdzen? Tāpēc tie būs jūsu tiesātāji.
अहञ्च यदि बाल्सिबूबा भूतान् त्याजयामि, तर्हि युष्माकं सन्तानाः केन भूतान् त्याजयन्ति? तस्माद् युष्माकम् एतद्विचारयितारस्त एव भविष्यन्ति।
28 Bet ja Es caur Dieva Garu velnus izdzenu, tad Deva valstība jau pie jums atnākusi.
किन्तवहं यदीश्वरात्मना भूतान् त्याजयामि, तर्हीश्वरस्य राज्यं युष्माकं सन्निधिमागतवत्।
29 Jeb kā kas var ieiet tā stiprā namā un paņemt viņa lietas, ja tas papriekš to stipro nesaista? Un tad tas viņa namu aplaupīs.
अन्यञ्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।
30 Kas nav ar Mani, tas ir pret Mani, un kas ar Mani nesakrāj, tas izkaisa.
यः कश्चित् मम स्वपक्षीयो नहि स विपक्षीय आस्ते, यश्च मया साकं न संगृह्लाति, स विकिरति।
31 Tāpēc Es jums saku: ikkatru grēku un ikkatru zaimošanu cilvēkiem piedos, bet Tā Gara zaimošana cilvēkiem netaps piedota.
अतएव युष्मानहं वदामि, मनुजानां सर्व्वप्रकारपापानां निन्दायाश्च मर्षणं भवितुं शक्नोति, किन्तु पवित्रस्यात्मनो विरुद्धनिन्दाया मर्षणं भवितुं न शक्नोति।
32 Un kas ko runā pret To Cilvēka Dēlu, tam tas taps piedots; bet kas ko runā pret Svēto Garu, tam netaps piedots nedz šinī, nedz nākošā mūžā. (aiōn )
यो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं शक्नोति। (aiōn )
33 Ņemiet labu koku, tad arī viņa augļi būs labi, vai ņemiet nelāga koku, tad arī tie augļi būs nelabi; jo koks top pazīts pie saviem augļiem.
पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
34 Jūs odžu dzimums, kā jūs varat ko laba runāt, ļauni būdami? Jo no sirds pilnības mute runā.
रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।
35 Labs cilvēks no labas sirds mantas izdod labu, un ļauns cilvēks no ļaunas mantas izdod ļaunu.
तेन साधुर्मानवोऽन्तःकरणरूपात् साधुभाण्डागारात् साधु द्रव्यं निर्गमयति, असाधुर्मानुषस्त्वसाधुभाण्डागाराद् असाधुवस्तूनि निर्गमयति।
36 Bet Es jums saku, ka par ikkatru veltīgu vārdu, ko cilvēki runās, tiem būs jāatbild soda dienā.
किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं,
37 Jo pēc saviem vārdiem tu tapsi taisnots, un pēc saviem vārdiem tu tapsi pazudināts.”
यतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे।
38 Tad kādi no rakstu mācītājiem un farizejiem atbildēja un sacīja: “Mācītāj, mēs no tevis kādu zīmi gribam redzēt.”
तदानीं कतिपया उपाध्यायाः फिरूशिनश्च जगदुः, हे गुरो वयं भवत्तः किञ्चन लक्ष्म दिदृक्षामः।
39 Bet Viņš atbildēja un uz tiem sacīja: “Nikna un laulību pārkāpēja tauta meklē zīmi; un viņai nekāda zīme netaps dota, kā vien pravieša Jonas zīme.
तदा स प्रत्युक्तवान्, दुष्टो व्यभिचारी च वंशो लक्ष्म मृगयते, किन्तु भविष्यद्वादिनो यूनसो लक्ष्म विहायान्यत् किमपि लक्ष्म ते न प्रदर्शयिष्यन्ते।
40 Jo kā Jona trīs dienas un trīs naktis bija lielas jūras zivs vēderā, tā arī Tas Cilvēka Dēls trīs dienas un naktis būs zemes klēpī.
यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।
41 Ninivieši celsies soda dienā pret šo cilti un to pazudinās; jo tie no grēkiem ir atgriezušies uz Jonas sludināšanu, un redzi, šeit ir vairāk, nekā Jona.
अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तयाञ्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।
42 Tā ķēniņiene no dienvidu puses celsies soda dienā pret šo cilti un to pazudinās; jo tā no pasaules gala ir nākusi, Salamana gudrību dzirdēt; un redzi, šeit ir vairāk nekā Salamans.
पुनश्च दक्षिणदेशीया राज्ञी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनोऽत्र आस्ते।
43 Bet kad tas nešķīstais gars no cilvēka izgājis, tad tas pārstaigā sausas vietas un meklē dusu, un to neatrod.
अपरं मनुजाद् बहिर्गतो ऽपवित्रभूतः शुष्कस्थानेन गत्वा विश्रामं गवेषयति, किन्तु तदलभमानः स वक्ति, यस्मा; निकेतनाद् आगमं, तदेव वेश्म पकावृत्य यामि।
44 Tad tas saka: es gribu atpakaļ griezties uz savu namu, no kurienes es izgājis; un kad viņš nāk, tad tas to atrod tukšu, ar slotām mēztu un izpušķotu.
पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभितञ्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् सङ्गिनः करोति।
45 Tad tas noiet un ņem pie sevis septiņus garus, kas jo niknāki nekā viņš pats, un tur iekšā nākuši tie tur dzīvo, un pēc ar to cilvēku paliek niknāki nekā papriekš. Tāpat arī notiks šai ļaunai tautai.”
ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते।
46 Un Viņam tā uz tiem ļaudīm vēl runājot, redzi, Viņa māte un viņa brāļi stāvēja ārā, meklēdami viņu bildināt.
मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
47 Un kāds uz Viņu sacīja: “Redzi, Tava māte un Tavi brāļi stāv ārā, meklēdami Tevi bildināt.”
ततः कश्चित् तस्मै कथितवान्, पश्य तव जननी सहजाश्च त्वया साकं काञ्चन कथां कथयितुं कामयमाना बहिस्तिष्ठन्ति।
48 Un Viņš atbildēdams sacīja tam, kas Viņam to teica: “Kas ir Mana māte, un kas ir Mani brāļi?”
किन्तु स तं प्रत्यवदत्, मम का जननी? के वा मम सहजाः?
49 Un Savu roku izstiepis pār Saviem mācekļiem, Viņš sacīja: “Redzi, Mana māte un Mani brāļi!
पश्चात् शिष्यान् प्रति करं प्रसार्य्य कथितवान्, पश्य मम जननी मम सहजाश्चैते;
50 Jo kas Mana debesu Tēva prātu darīs, tas ir Mans brālis un Mana māsa un Mana māte.”
यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते, सएव मम भ्राता भगिनी जननी च।