< Marka Evaņg̒elijs 13 >
1 Un Viņam no Dieva nama izejot, viens no Viņa mācekļiem uz To sacīja: “Mācītāj, lūk, kādi akmeņi tie ir, un kādas ēkas.”
अनन्तरं मन्दिराद् बहिर्गमनकाले तस्य शिष्याणामेकस्तं व्याहृतवान् हे गुरो पश्यतु कीदृशाः पाषाणाः कीदृक् च निचयनं।
2 Un Jēzus atbildēja un uz to sacīja: “Vai tu visas šās lielās ēkas redzi? Tur akmens uz akmens netaps atstāts, kas netaps noplēsts.”
तदा यीशुस्तम् अवदत् त्वं किमेतद् बृहन्निचयनं पश्यसि? अस्यैकपाषाणोपि द्वितीयपाषाणोपरि न स्थास्यति सर्व्वे ऽधःक्षेप्स्यन्ते।
3 Un kad Viņš sēdēja uz Eļļas kalna Dieva namam pretī, tad Pēteris un Jēkabs un Jānis un Andrejs Viņu jautāja sevišķi:
अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,
4 “Saki mums, kad tas būs, un kāda tā zīme, kad viss tas piepildīsies?”
एता घटनाः कदा भविष्यन्ति? तथैतत्सर्व्वासां सिद्ध्युपक्रमस्य वा किं चिह्नं? तदस्मभ्यं कथयतु भवान्।
5 Bet Jēzus tiem atbildēja un iesāka runāt: “Pielūkojiet, ka neviens jūs nepieviļ.
ततो याशुस्तान् वक्तुमारेभे, कोपि यथा युष्मान् न भ्रामयति तथात्र यूयं सावधाना भवत।
6 Jo daudzi nāks Manā Vārdā sacīdami: es tas esmu; un daudz pievils.
यतः ख्रीष्टोहमिति कथयित्वा मम नाम्नानेके समागत्य लोकानां भ्रमं जनयिष्यन्ति;
7 Bet kad jūs dzirdēsiet karus un kara valodas, tad nebēdājaties, jo tam būs tā notikt; bet tas gals vēl nav klāt.
किन्तु यूयं रणस्य वार्त्तां रणाडम्बरञ्च श्रुत्वा मा व्याकुला भवत, घटना एता अवश्यम्माविन्यः; किन्त्वापाततो न युगान्तो भविष्यति।
8 Jo tauta celsies pret tautu un valsts pret valsti un vietām būs zemes trīcēšanas, bada laiki un dumpji.
देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।
9 Tas būs to grūto bēdu iesākums; bet lūkojiet jūs uz sevi pašiem; jo tie jūs nodos augstās tiesās un baznīcās; un jūs tapsiet šausti un Manis dēļ valdnieku un ķēniņu priekšā vesti, tiem par liecību.
किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे।
10 Un evaņģēlijam būs papriekš tapt sludinātam visām tautām.
शेषीभवनात् पूर्व्वं सर्व्वान् देशीयान् प्रति सुसंवादः प्रचारयिष्यते।
11 Kad nu tie jūs vedīs, jūs nododami, tad nebēdājaties iepriekš, kas jums būs jārunā, nedz apdomājaties; bet kas jums tanī pašā stundā taps dots, to runājiet; jo jūs neesat tie, kas runā, bet Tas Svētais Gars.
किन्तु यदा ते युष्मान् धृत्वा समर्पयिष्यन्ति तदा यूयं यद्यद् उत्तरं दास्यथ, तदग्र तस्य विवेचनं मा कुरुत तदर्थं किञ्चिदपि मा चिन्तयत च, तदानीं युष्माकं मनःसु यद्यद् वाक्यम् उपस्थापयिष्यते तदेव वदिष्यथ, यतो यूयं न तद्वक्तारः किन्तु पवित्र आत्मा तस्य वक्ता।
12 Bet tad brālis brāli nodos pie nāves un tēvs dēlu; un bērni celsies pret vecākiem un viņus nonāvēs.
तदा भ्राता भ्रातरं पिता पुत्रं घातनार्थं परहस्तेषु समर्पयिष्यते, तथा पत्यानि मातापित्रो र्विपक्षतया तौ घातयिष्यन्ति।
13 Un jūs tapsiet ienīdēti no visiem Mana Vārda dēļ; bet kas pastāv līdz galam, tas taps izglābts.
मम नामहेतोः सर्व्वेषां सविधे यूयं जुगुप्सिता भविष्यथ, किन्तु यः कश्चित् शेषपर्य्यन्तं धैर्य्यम् आलम्बिष्यते सएव परित्रास्यते।
14 Bet kad jūs to izpostīšanas negantību redzēsiet, par ko pravietis Daniēls ir runājis, ka tā stāv, kur neklājās (kas to lasa, tas lai to labi apdomā), tad lai bēg uz kalniem tie, kas ir Jūdu zemē.
दानियेल्भविष्यद्वादिना प्रोक्तं सर्व्वनाशि जुगुप्सितञ्च वस्तु यदा त्वयोग्यस्थाने विद्यमानं द्रक्षथ (यो जनः पठति स बुध्यतां) तदा ये यिहूदीयदेशे तिष्ठन्ति ते महीध्रं प्रति पलायन्तां;
15 Un kas uz jumta ir, tas lai nenokāpj namā un tur lai neieiet, ko no sava nama iznest.
तथा यो नरो गृहोपरि तिष्ठति स गृहमध्यं नावरोहतु, तथा किमपि वस्तु ग्रहीतुं मध्येगृहं न प्रविशतु;
16 Un kas ir laukā, tas lai neatgriežas atpakaļ savas drēbes paņemt.
तथा च यो नरः क्षेत्रे तिष्ठति सोपि स्ववस्त्रं ग्रहीतुं परावृत्य न व्रजतु।
17 Bet vai tām grūtām un tām zīdītājām tanīs dienās.
तदानीं गर्ब्भवतीनां स्तन्यदात्रीणाञ्च योषितां दुर्गति र्भविष्यति।
18 Bet lūdzat, ka jūsu bēgšana nenotiek ziemas laikā.
युष्माकं पलायनं शीतकाले यथा न भवति तदर्थं प्रार्थयध्वं।
19 Jo tanī laikā būs tādas lielas bēdas, kādas nav bijušas no paša iesākuma, kamēr Dievs pasauli radījis līdz šim, un kādas arī nebūs.
यतस्तदा यादृशी दुर्घटना घटिष्यते तादृशी दुर्घटना ईश्वरसृष्टेः प्रथममारभ्याद्य यावत् कदापि न जाता न जनिष्यते च।
20 Un ja Tas Kungs šās dienas nepaīsinātu, tad neviens netaptu izglābts; bet to izredzēto dēļ ko Viņš izredzējis, Viņš tās dienas ir paīsinājis.
अपरञ्च परमेश्वरो यदि तस्य समयस्य संक्षेपं न करोति तर्हि कस्यापि प्राणभृतो रक्षा भवितुं न शक्ष्यति, किन्तु यान् जनान् मनोनीतान् अकरोत् तेषां स्वमनोनीतानां हेतोः स तदनेहसं संक्षेप्स्यति।
21 Un ja kas tanī laikā uz jums sacīs: redzi, še ir Kristus, jeb redzi, tur Viņš ir; tad neticiet.
अन्यच्च पश्यत ख्रीष्टोत्र स्थाने वा तत्र स्थाने विद्यते, तस्मिन्काले यदि कश्चिद् युष्मान् एतादृशं वाक्यं व्याहरति, तर्हि तस्मिन् वाक्ये भैव विश्वसित।
22 Jo viltīgi Kristi un viltīgi pravieši celsies un lielas zīmes un brīnumus darīs, ka pieviltu, ja tas varētu notikt, arī tos izredzētos.
यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति।
23 Bet jūs pielūkojiet; redzi, Es jums to visu papriekš esmu sacījis.
पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत।
24 Bet tanīs dienās, pēc tām bēdām, saule aptumšosies, un mēnesis nedos savu spīdumu;
अपरञ्च तस्य क्लेशकालस्याव्यवहिते परकाले भास्करः सान्धकारो भविष्यति तथैव चन्द्रश्चन्द्रिकां न दास्यति।
25 Un debess zvaigznes nokritīs, un debess stiprumi kustināsies.
नभःस्थानि नक्षत्राणि पतिष्यन्ति, व्योममण्डलस्था ग्रहाश्च विचलिष्यन्ति।
26 Un tad redzēs To Cilvēka Dēlu nākam padebešos ar lielu spēku un godību.
तदानीं महापराक्रमेण महैश्वर्य्येण च मेघमारुह्य समायान्तं मानवसुतं मानवाः समीक्षिष्यन्ते।
27 Un tad Viņš sūtīs Savus eņģeļus un sakrās Savus izredzētos no tiem četriem vējiem, no zemes gala līdz debess galam.
अन्यच्च स निजदूतान् प्रहित्य नभोभूम्योः सीमां यावद् जगतश्चतुर्दिग्भ्यः स्वमनोनीतलोकान् संग्रहीष्यति।
28 Bet mācaties līdzību no vīģes koka: kad viņa zars jau iezeļ, un lapas plaukst, tad jūs nomaniet, vasaru esam klātu.
उडुम्बरतरो र्दृष्टान्तं शिक्षध्वं यदोडुम्बरस्य तरो र्नवीनाः शाखा जायन्ते पल्लवादीनि च र्निगच्छन्ति, तदा निदाघकालः सविधो भवतीति यूयं ज्ञातुं शक्नुथ।
29 Tā arīdzan, kad jūs šo visu redzēsiet notiekam, tad ziniet, ka tas ir tuvu priekš durvīm.
तद्वद् एता घटना दृष्ट्वा स कालो द्वार्य्युपस्थित इति जानीत।
30 Patiesi, Es jums saku: šī cilts nezudīs, tiekams viss tas būs noticis.
युष्मानहं यथार्थं वदामि, आधुनिकलोकानां गमनात् पूर्व्वं तानि सर्व्वाणि घटिष्यन्ते।
31 Debess un zeme zudīs, bet Mani vārdi nezudīs.
द्यावापृथिव्यो र्विचलितयोः सत्यो र्मदीया वाणी न विचलिष्यति।
32 Bet par to dienu jeb stundu neviens nezina, ne tie eņģeļi, kas debesīs, ne Tas Dēls, kā vien Tas Tēvs.
अपरञ्च स्वर्गस्थदूतगणो वा पुत्रो वा तातादन्यः कोपि तं दिवसं तं दण्डं वा न ज्ञापयति।
33 Pielūkojiet, esiet modrīgi un lūdziet, jo jūs nezināt, kad tas laiks ir.
अतः स समयः कदा भविष्यति, एतज्ज्ञानाभावाद् यूयं सावधानास्तिष्ठत, सतर्काश्च भूत्वा प्रार्थयध्वं;
34 Tā kā viens cilvēks, citur noiedams, atstāja savu namu un deva saviem kalpiem varu un ikkatram savu darbu, un pavēlēja durvju sargam būt nomodā.
यद्वत् कश्चित् पुमान् स्वनिवेशनाद् दूरदेशं प्रति यात्राकरणकाले दासेषु स्वकार्य्यस्य भारमर्पयित्वा सर्व्वान् स्वे स्वे कर्म्मणि नियोजयति; अपरं दौवारिकं जागरितुं समादिश्य याति, तद्वन् नरपुत्रः।
35 Tad nu esat nomodā! Jo jūs nezināt, kad tas nama kungs nāk, vai vakarā, vai nakts vidū, vai gaiļos, vai no rīta agri,
गृहपतिः सायंकाले निशीथे वा तृतीययामे वा प्रातःकाले वा कदागमिष्यति तद् यूयं न जानीथ;
36 Ka tas nejauši nākdams, jūs neatrod guļam.
स हठादागत्य यथा युष्मान् निद्रितान् न पश्यति, तदर्थं जागरितास्तिष्ठत।
37 Bet ko Es jums saku, to Es saku visiem: esat nomodā.”
युष्मानहं यद् वदामि तदेव सर्व्वान् वदामि, जागरितास्तिष्ठतेति।