< Lūkas Evaņg̒elijs 10 >

1 Un pēc tam Tas Kungs vēl septiņdesmit citus iecēla un tos sūtīja pa diviem savā priekšā uz ikkatru pilsētu un vietu, kur Viņš gribēja iet.
ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।
2 Un Viņš uz tiem sacīja: “Pļaujamā ir daudz, bet strādnieku maz; tāpēc lūdziet tā pļaujamā Kungu, lai Tas strādniekus sūta Savā pļaujamā.
तेभ्यः कथयामास च शस्यानि बहूनीति सत्यं किन्तु छेदका अल्पे; तस्माद्धेतोः शस्यक्षेत्रे छेदकान् अपरानपि प्रेषयितुं क्षेत्रस्वामिनं प्रार्थयध्वं।
3 Ejiet! Lūk, Es jūs sūtu kā jērus vilku starpā.
यूयं यात, पश्यत, वृकाणां मध्ये मेषशावकानिव युष्मान् प्रहिणोमि।
4 Nenesiet maku, nedz kulīti, nedz kurpes, un nesveicinājiet nevienu uz ceļa.
यूयं क्षुद्रं महद् वा वसनसम्पुटकं पादुकाश्च मा गृह्लीत, मार्गमध्ये कमपि मा नमत च।
5 Un kurā namā jūs ieiesiet, sakāt papriekš: miers lai ir ar šo namu.
अपरञ्च यूयं यद् यत् निवेशनं प्रविशथ तत्र निवेशनस्यास्य मङ्गलं भूयादिति वाक्यं प्रथमं वदत।
6 Un ja tur būs kāds miera bērns, tad jūsu miers uz tā dusēs; bet ja ne, tad tas pie jums atgriezīsies.
तस्मात् तस्मिन् निवेशने यदि मङ्गलपात्रं स्थास्यति तर्हि तन्मङ्गलं तस्य भविष्यति, नोचेत् युष्मान् प्रति परावर्त्तिष्यते।
7 Tanī pašā namā paliekat, un ēdat un dzerat, kas tiem pie rokas, jo strādniekam sava alga pienākas; neejat no viena nama uz otru.
अपरञ्च ते यत्किञ्चिद् दास्यन्ति तदेव भुक्त्वा पीत्वा तस्मिन्निवेशने स्थास्यथ; यतः कर्म्मकारी जनो भृतिम् अर्हति; गृहाद् गृहं मा यास्यथ।
8 Un kurā pilsētā jūs ieiesiet, un tie jūs uzņem, tur ēdat, ko jums ceļ priekšā.
अन्यच्च युष्मासु किमपि नगरं प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं करिष्यन्ति, तर्हि यत् खाद्यम् उपस्थास्यन्ति तदेव खादिष्यथ।
9 Un dariet tur veselus tos vājos un sakāt uz tiem: Dieva valstība tuvu pie jums ir nākusi.
तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।
10 Bet kurā pilsētā jūs ieejat, un tie jūs neuzņem, tad izgājuši uz viņu ielām sakiet:
किन्तु किमपि पुरं युष्मासु प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं न करिष्यन्ति, तर्हि तस्य नगरस्य पन्थानं गत्वा कथामेतां वदिष्यथ,
11 Arī tos pīšļus, kas mums no šīs pilsētas pielīp, mēs nokratām uz jums; tomēr to ziniet, ka Dieva valstība tuvu ir nākusi.
युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।
12 Bet Es jums saku, ka Sodomas ļaudīm viņā dienā vieglāki būs, nekā tādai pilsētai.
अहं युष्मभ्यं यथार्थं कथयामि, विचारदिने तस्य नगरस्य दशातः सिदोमो दशा सह्या भविष्यति।
13 Vai tev, Horacin! vai tev, Betsaida! jo kad iekš Tirus un Sidonas tie brīnumi būtu notikuši, kas pie jums notikuši, tad tie jau sen no grēkiem būtu atgriezušies maisos un pelnos.
हा हा कोरासीन् नगर, हा हा बैत्सैदानगर युवयोर्मध्ये यादृशानि आश्चर्य्याणि कर्म्माण्यक्रियन्त, तानि कर्म्माणि यदि सोरसीदोनो र्नगरयोरकारिष्यन्त, तदा इतो बहुदिनपूर्व्वं तन्निवासिनः शणवस्त्राणि परिधाय गात्रेषु भस्म विलिप्य समुपविश्य समखेत्स्यन्त।
14 Tomēr Tirum un Sidonai vieglāki būs tiesas dienā nekā jums.
अतो विचारदिवसे युष्माकं दशातः सोरसीदोन्निवासिनां दशा सह्या भविष्यति।
15 Un tu, Kapernaūma, kas līdz debesīm esi paaugstināta, tu līdz ellei tapsi nogrūsta. (Hadēs g86)
हे कफर्नाहूम्, त्वं स्वर्गं यावद् उन्नता किन्तु नरकं यावत् न्यग्भविष्यसि। (Hadēs g86)
16 Kas jūs dzird, tas Mani dzird, un kas jūs nicina, tas Mani nicina; bet kas Mani nicina, tas nicina To, kas Mani sūtījis.”
यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।
17 Un tie septiņdesmit pārnāca ar prieku sacīdami: “Kungs, arī tie velni mums padodas Tavā Vārdā.”
अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।
18 Un Viņš uz tiem sacīja: “Es sātanu redzēju itin kā zibeni no debess krītam.
तदानीं स तान् जगाद, विद्युतमिव स्वर्गात् पतन्तं शैतानम् अदर्शम्।
19 Redzi, Es jums esmu devis spēku, staigāt uz čūskām un skorpioniem, un pār visu ienaidnieka varu, un nekas jums nekaitēs.
पश्यत सर्पान् वृश्चिकान् रिपोः सर्व्वपराक्रमांश्च पदतलै र्दलयितुं युष्मभ्यं शक्तिं ददामि तस्माद् युष्माकं कापि हानि र्न भविष्यति।
20 Tomēr nepriecājaties par to, ka tie gari jums padodas, bet priecājaties, kā jūsu vārdi ir rakstīti debesīs.”
भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत।
21 Un tanī stundā Jēzus priecājās garā un sacīja: “Es Tev pateicos, Tēvs, debess un zemes Kungs, ka Tu šās lietas esi paslēpis gudriem un prātīgiem, un no tām ziņu devis bērniņiem. Tiešām, Tēvs, jo tā tas ir bijis Tavs labais prāts.
तद्घटिकायां यीशु र्मनसि जाताह्लादः कथयामास हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतां विदुषाञ्च लोकानां पुरस्तात् सर्व्वमेतद् अप्रकाश्य बालकानां पुरस्तात् प्राकाशय एतस्माद्धेतोस्त्वां धन्यं वदामि, हे पितरित्थं भवतु यद् एतदेव तव गोचर उत्तमम्।
22 Visas lietas Man ir nodotas no Mana Tēva. Un neviens neatzīst, kas ir Tas Dēls, kā vien Tas Tēvs, un kas ir Tas Tēvs, kā vien Tas Dēls, un kam Tas Dēls to grib darīt zināmu.”
पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।
23 Un Viņš griezies pie tiem mācekļiem sacīja sevišķi: “Svētīgas ir tās acis, kas redz, ko jūs redzat.
तपः परं स शिष्यान् प्रति परावृत्य गुप्तं जगाद, यूयमेतानि सर्व्वाणि पश्यथ ततो युष्माकं चक्षूंषि धन्यानि।
24 Jo Es jums saku: daudz pravieši un ķēniņi gribēja redzēt, ko jūs redzat, un nav redzējuši, un dzirdēt, ko jūs dzirdat, un nav dzirdējuši.”
युष्मानहं वदामि, यूयं यानि सर्व्वाणि पश्यथ तानि बहवो भविष्यद्वादिनो भूपतयश्च द्रष्टुमिच्छन्तोपि द्रष्टुं न प्राप्नुवन्, युष्माभि र्या याः कथाश्च श्रूयन्ते ताः श्रोतुमिच्छन्तोपि श्रोतुं नालभन्त।
25 Un redzi, viens rakstu mācītājs cēlās, Viņu kārdinādams, un sacīja: “Mācītāj, ko man būs darīt, ka es iemantoju mūžīgu dzīvošanu?” (aiōnios g166)
अनन्तरम् एको व्यवस्थापक उत्थाय तं परीक्षितुं पप्रच्छ, हे उपदेशक अनन्तायुषः प्राप्तये मया किं करणीयं? (aiōnios g166)
26 Bet Viņš uz to sacīja: “Kā stāv bauslībā rakstīts? Kā tu lasi?”
यीशुः प्रत्युवाच, अत्रार्थे व्यवस्थायां किं लिखितमस्ति? त्वं कीदृक् पठसि?
27 Un tas atbildēja un sacīja: “Tev būs Dievu, savu Kungu, mīlēt no visas savas sirds un no visas savas dvēseles un no visa sava spēka un no visa sava prāta, un savu tuvāku kā sevi pašu.”
ततः सोवदत्, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वशक्तिभिः सर्व्वचित्तैश्च प्रभौ परमेश्वरे प्रेम कुरु, समीपवासिनि स्ववत् प्रेम कुरु च।
28 Tad Viņš tam sacīja: “Tu pareizi esi atbildējis; ej, dari to, tad tu dzīvosi.”
तदा स कथयामास, त्वं यथार्थं प्रत्यवोचः, इत्थम् आचर तेनैव जीविष्यसि।
29 Bet tas gribēdams pats taisnoties sacīja uz Jēzu: “Kas tad ir mans tuvākais?”
किन्तु स जनः स्वं निर्द्दोषं ज्ञापयितुं यीशुं पप्रच्छ, मम समीपवासी कः? ततो यीशुः प्रत्युवाच,
30 Tad Jēzus atbildēja un sacīja: “Viens cilvēks gāja no Jeruzālemes uz Jēriku un krita slepkavu rokās, tie tam noplēsa drēbes, un to sasituši, aizgāja un to pameta pusmirušu.
एको जनो यिरूशालम्पुराद् यिरीहोपुरं याति, एतर्हि दस्यूनां करेषु पतिते ते तस्य वस्त्रादिकं हृतवन्तः तमाहत्य मृतप्रायं कृत्वा त्यक्त्वा ययुः।
31 Bet no nejauši viens priesteris staigāja pa to pašu ceļu; kad tas to redzēja, tad viņš aizgāja garām.
अकस्माद् एको याजकस्तेन मार्गेण गच्छन् तं दृष्ट्वा मार्गान्यपार्श्वेन जगाम।
32 Tāpat arī viens levits; tas pie tās vietas nācis to redzēja un aizgāja garām.
इत्थम् एको लेवीयस्तत्स्थानं प्राप्य तस्यान्तिकं गत्वा तं विलोक्यान्येन पार्श्वेन जगाम।
33 Bet viens Samarietis, savu ceļu iedams, nāca pie viņa, un viņu redzot sirds tam iežēlojās,
किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत।
34 Un piegājis sasēja viņa vātis, tanīs eļļu un vīnu ieliedams; pēc viņš to cēla uz savu lopu un to noveda mājas vietā un to apkopa.
तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।
35 Un otrā dienā aiziedams viņš izvilka divus sudraba grašus un deva tos tam saimniekam un uz to sacīja: “Kopi šo, un ja tu vēl ko izdosi, atpakaļ nākdams es tev to atdošu.”
परस्मिन् दिवसे निजगमनकाले द्वौ मुद्रापादौ तद्गृहस्वामिने दत्त्वावदत् जनमेनं सेवस्व तत्र योऽधिको व्ययो भविष्यति तमहं पुनरागमनकाले परिशोत्स्यामि।
36 Kurš no šiem trim tev šķiet tas tuvākais bijis tam, kas bija kritis slepkavu rokās?”
एषां त्रयाणां मध्ये तस्य दस्युहस्तपतितस्य जनस्य समीपवासी कः? त्वया किं बुध्यते?
37 Bet tas sacīja: “Tas, kas žēlastību pie viņa darījis.” Tad Jēzus uz to sacīja: “Tad ej nu un dari tu tāpat arīdzan.”
ततः स व्यवस्थापकः कथयामास यस्तस्मिन् दयां चकार। तदा यीशुः कथयामास त्वमपि गत्वा तथाचर।
38 Un notikās, Viņam Savu ceļu staigājot, Viņš nāca vienā pilsētiņā; un viena sieva, Marta vārdā, Viņu uzņēma savā namā.
ततः परं ते गच्छन्त एकं ग्रामं प्रविविशुः; तदा मर्थानामा स्त्री स्वगृहे तस्यातिथ्यं चकार।
39 Un tai bija māsa, vārdā Marija; tā nosēdās pie Jēzus kājām un klausījās Viņa vārdus.
तस्मात् मरियम् नामधेया तस्या भगिनी यीशोः पदसमीप उवविश्य तस्योपदेशकथां श्रोतुमारेभे।
40 Bet Marta daudz nodarbojās kalpodama un piegāja sacīdama: “Kungs, vai Tev nekas par to, ka mana māsa mani ir atstājusi vienu pašu kalpojam? Saki jel viņai, lai tā man palīdz”.
किन्तु मर्था नानापरिचर्य्यायां व्यग्रा बभूव तस्माद्धेतोस्तस्य समीपमागत्य बभाषे; हे प्रभो मम भगिनी केवलं ममोपरि सर्व्वकर्म्मणां भारम् अर्पितवती तत्र भवता किञ्चिदपि न मनो निधीयते किम्? मम साहाय्यं कर्त्तुं भवान् तामादिशतु।
41 Bet Jēzus atbildēja un uz to sacīja: “Marta, Marta, tu gan daudz rūpējies un pūlējies;
ततो यीशुः प्रत्युवाच हे मर्थे हे मर्थे, त्वं नानाकार्य्येषु चिन्तितवती व्यग्रा चासि,
42 Bet vienas lietas vajag; Marija to labo daļu sev ir izredzējusi, tā no tās netaps atņemta.”
किन्तु प्रयोजनीयम् एकमात्रम् आस्ते। अपरञ्च यमुत्तमं भागं कोपि हर्त्तुं न शक्नोति सएव मरियमा वृतः।

< Lūkas Evaņg̒elijs 10 >