< Apustuļu Darbi 27 >

1 Un kad tas bija nospriests, ka mums bija pārcelties uz Itāliju, tad tie Pāvilu un kādus citus cietumniekus nodeva vienam karakapteinim, ar vārdu Julijus, no ķeizara karoga.
जलपथेनास्माकम् इतोलियादेशं प्रति यात्रायां निश्चितायां सत्यां ते यूलियनाम्नो महाराजस्य संघातान्तर्गतस्य सेनापतेः समीपे पौलं तदन्यान् कतिनयजनांश्च समार्पयन्।
2 Un vienā Adramitijas laivā kāpuši, mēs gribējām Āzijas pilsētām iet garām, un aizcēlāmies, un Aristarks, tas Maķedonietis no Tesalonikas, bija mums līdz.
वयम् आद्रामुत्तीयं पोतमेकम् आरुह्य आशियादेशस्य तटसमीपेन यातुं मतिं कृत्वा लङ्गरम् उत्थाप्य पोतम् अमोचयाम; माकिदनियादेशस्थथिषलनीकीनिवास्यारिस्तार्खनामा कश्चिद् जनोऽस्माभिः सार्द्धम् आसीत्।
3 Un otrā dienā mēs laidām malā pie Sidonas. Un Julijus laipnīgi pret Pāvilu turēdamies atļāva pie tiem draugiem iet, ka tas no tiem dabūtu apgādāšanu.
परस्मिन् दिवसे ऽस्माभिः सीदोन्नगरे पोते लागिते तत्र यूलियः सेनापतिः पौलं प्रति सौजन्यं प्रदर्थ्य सान्त्वनार्थं बन्धुबान्धवान् उपयातुम् अनुजज्ञौ।
4 Un mēs no turienes aizcēlušies braucām apakš Kipras, jo vēji mums bija pretī.
तस्मात् पोते मोचिते सति सम्मुखवायोः सम्भवाद् वयं कुप्रोपद्वीपस्य तीरसमीपेन गतवन्तः।
5 Un gar Ķiliķiju un Pamfiliju pār jūru pārcēlušies mēs nācām uz Miru Liķijas zemē.
किलिकियायाः पाम्फूलियायाश्च समुद्रस्य पारं गत्वा लूकियादेशान्तर्गतं मुरानगरम् उपातिष्ठाम।
6 Un tur tas kapteinis atrada vienu laivu no Aleksandrijas, kas gāja uz Itāliju, un lika mums tanī iekāpt.
तत्स्थानाद् इतालियादेशं गच्छति यः सिकन्दरियानगरस्य पोतस्तं तत्र प्राप्य शतसेनापतिस्तं पोतम् अस्मान् आरोहयत्।
7 Un mēs kādas dienas lēni braukdami un ar mokām pret Knidu nākuši, tāpēc ka vējš mūs nelaida, braucām gar Krietu pret Salmoni.
ततः परं बहूनि दिनानि शनैः शनैः र्गत्वा क्नीदपार्श्वोपस्थ्तिेः पूर्व्वं प्रतिकूलेन पवनेन वयं सल्मोन्याः सम्मुखम् उपस्थाय क्रीत्युपद्वीपस्य तीरसमीपेन गतवन्तः।
8 Un ar mokām tur garām braukuši mēs nācām kādā vietā, ko sauc par krāšņu ostu, kur Laseas pilsēta bija tuvu.
कष्टेन तमुत्तीर्य्य लासेयानगरस्याधः सुन्दरनामकं खातम् उपातिष्ठाम।
9 Kad nu labs laiks bija pagājis un braukšana jau bija bailīga, tāpēc ka arī gavēņu laiks jau bija pāri, tad Pāvils tos pamācīja,
इत्थं बहुतिथः कालो यापित उपवासदिनञ्चातीतं, तत्कारणात् नौवर्त्मनि भयङ्करे सति पौलो विनयेन कथितवान्,
10 Uz tiem sacīdams: “Vīri, es redzu, ka tā braukšana notiks ar grūtumu un lielu postu, ne vien pie preces un laivas, bet arī pie mūsu dzīvības.”
हे महेच्छा अहं निश्चयं जानामि यात्रायामस्याम् अस्माकं क्लेशा बहूनामपचयाश्च भविष्यन्ति, ते केवलं पोतसामग्र्योरिति नहि, किन्त्वस्माकं प्राणानामपि।
11 Bet tas kapteinis vairāk ticēja stūrmanim un kuģiniekam, nekā tam, ko Pāvils sacīja.
तदा शतसेनापतिः पौैेलोक्तवाक्यतोपि कर्णधारस्य पोतवणिजश्च वाक्यं बहुमंस्त।
12 Un kad tā mala nederēja, tur par ziemu mist, tad tā lielā puse padomu deva, no turienes aizcelties, vai nevarētu pie Feniķes kļūt, un tur par ziemu palikt; tā ir osta iekš Krietas un stāv pret dienvidu vēju un vakara vēju.
तत् खातं शीतकाले वासार्हस्थानं न तस्माद् अवाचीप्रतीचोर्दिशोः क्रीत्याः फैनीकियखातं यातुं यदि शक्नुवन्तस्तर्हि तत्र शीतकालं यापयितुं प्रायेण सर्व्वे मन्त्रयामासुः।
13 Un kad dienvidu vējš lēni pūta, tad viņiem šķita, ka savu nodomu panākuši, un enkurus uzvilkuši, tie laida jo tuvu gar Krietu.
ततः परं दक्षिणवायु र्मन्दं वहतीति विलोक्य निजाभिप्रायस्य सिद्धेः सुयोगो भवतीति बुद्ध्वा पोतं मोचयित्वा क्रीत्युपद्वीपस्य तीरसमीपेन चलितवन्तः।
14 Bet neilgi pēc tam viesuļa vējš, kas top saukts idus, pacēlās pret to salu.
किन्त्वल्पक्षणात् परमेव उरक्लुदोन्नामा प्रतिकूलः प्रचण्डो वायु र्वहन् पोतेऽलगीत्
15 Un kad laiva tapa līdz aizrauta un nespēja pret vēju turēties, tad mēs to padevām un tapām nesti.
तस्याभिमुखं गन्तुम् पोतस्याशक्तत्वाद् वयं वायुना स्वयं नीताः।
16 Un kad mēs pie vienas salas nācām, kas Klauda top saukta, tad mēs tikko varējām mazo laiviņu saturēt.
अनन्तरं क्लौदीनाम्न उपद्वीपस्य कूलसमीपेन पोतं गमयित्वा बहुना कष्टेन क्षुद्रनावम् अरक्षाम।
17 To tie uzvilkuši, ar virvēm to laivu nostiprināja, un bīdamies, ka uz seklumu neuzklīstu, zēģeli nolaida zemē un mētājās.
ते तामारुह्य रज्ज्चा पोतस्याधोभागम् अबध्नन् तदनन्तरं चेत् पोतो सैकते लगतीति भयाद् वातवसनान्यमोचयन् ततः पोतो वायुना चालितः।
18 Un kad vētrā ļoti tapām mētāti, tad otrā dienā sāka lādiņu izmest.
किन्तु क्रमशो वायोः प्रबलत्वात् पोतो दोलायमानोऽभवत् परस्मिन् दिवसे पोतस्थानि कतिपयानि द्रव्याणि तोये निक्षिप्तानि।
19 Un trešā dienā mēs ar savām pašu rokām laivas rīkus izmetām.
तृतीयदिवसे वयं स्वहस्तैः पोतसज्जनद्रव्याणि निक्षिप्तवन्तः।
20 Un kad kādas dienas ne saule, ne zvaigznes nespīdēja un liela auka mūs spieda, tad visa glābšanas cerība mums izzuda.
ततो बहुदिनानि यावत् सूर्य्यनक्षत्रादीनि समाच्छन्नानि ततो ऽतीव वात्यागमाद् अस्माकं प्राणरक्षायाः कापि प्रत्याशा नातिष्ठत्।
21 Un kad tie ilgi nebija ēduši, Pāvils cēlās viņu vidū sacīdams: “Jums, ak vīri, būtu pienācies man paklausīt un neaizbraukt no Krietas un izsargāties no tāda grūtuma un skādes.
बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।
22 Un tagad es jūs pamācu turēt drošu prātu, jo nevienam no jums dzīvība nezudīs, bet vien tā laiva.
किन्तु साम्प्रतं युष्मान् विनीय ब्रवीम्यहं, यूयं न क्षुभ्यत युष्माकम् एकस्यापि प्राणिनो हानि र्न भविष्यति, केवलस्य पोतस्य हानि र्भविष्यति।
23 Jo šinī naktī man piestājās viens eņģelis no Tā Dieva, kam es piederu un kam es arī kalpoju,
यतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्,
24 Sacīdams: “Nebīsties, Pāvil, tev būs nākt ķeizara priekšā, un redzi Dievs tev visus ir dāvinājis, kas līdz ar tevi ir laivā.”
हे पौल मा भैषीः कैसरस्य सम्मुखे त्वयोपस्थातव्यं; तवैतान् सङ्गिनो लोकान् ईश्वरस्तुभ्यं दत्तवान्।
25 Tāpēc turat drošu prātu, jūs vīri: jo es Dievam ticu, ka tas tā notiks, kā man sacīts.
अतएव हे महेच्छा यूयं स्थिरमनसो भवत मह्यं या कथाकथि सावश्यं घटिष्यते ममैतादृशी विश्वास ईश्वरे विद्यते,
26 Bet mēs tapsim izmesti pie kādas salas.”
किन्तु कस्यचिद् उपद्वीपस्योपरि पतितव्यम् अस्माभिः।
27 Kad nu tā četrpadsmitā nakts bija nākusi, un mēs Adrijas jūrā tapām mētāti ap nakts vidu, tad tie laivinieki bijās, ka neuzdurtos uz kādu malu.
ततः परम् आद्रियासमुद्रे पोतस्तथैव दोलायमानः सन् इतस्ततो गच्छन् चतुर्दशदिवसस्य रात्रे र्द्वितीयप्रहरसमये कस्यचित् स्थलस्य समीपमुपतिष्ठतीति पोतीयलोका अन्वमन्यन्त।
28 Un tie lodi izmeta un atrada divdesmit asis, un maķenīt tālāk atkal lodi izmetuši, atrada piecpadsmit asis.
ततस्ते जलं परिमाय तत्र विंशति र्व्यामा जलानीति ज्ञातवन्तः। किञ्चिद्दूरं गत्वा पुनरपि जलं परिमितवन्तः। तत्र पञ्चदश व्यामा जलानि दृष्ट्वा
29 Un bīdamies, ka uz akmeņiem neuzklīstu, tie meta no laivas pakaļgala četrus enkurus un vēlējās, ka gaisma austu.
चेत् पाषाणे लगतीति भयात् पोतस्य पश्चाद्भागतश्चतुरो लङ्गरान् निक्षिप्य दिवाकरम् अपेक्ष्य सर्व्वे स्थितवन्तः।
30 Bet kad tie laivinieki meklēja no laivas bēgt un mazo laiviņu nolaida jūrā, melodami, ka no priekšgala enkurus gribot nolaist,
किन्तु पोतीयलोकाः पोताग्रभागे लङ्गरनिक्षेपं छलं कृत्वा जलधौ क्षुद्रनावम् अवरोह्य पलायितुम् अचेष्टन्त।
31 Tad Pāvils uz to kapteini un tiem karavīriem sacīja: “Ja šie nepaliek laivā, tad jūs nevarat izglābties.”
ततः पौलः सेनापतये सैन्यगणाय च कथितवान्, एते यदि पोतमध्ये न तिष्ठन्ति तर्हि युष्माकं रक्षणं न शक्यं।
32 Tad tie karavīri tās laiviņas virves nocirta un lika tai nokrist.
तदा सेनागणो रज्जून् छित्वा नावं जले पतितुम् अददात्।
33 Un kamēr gaisma ausa, Pāvils visus lūdza, lai barības pabauda, sacīdams: “Šodien ir tā četrpadsmitā diena, ka jūs gaidīdami paliekat neēduši un nekā neesat baudījuši.
प्रभातसमये पौलः सर्व्वान् जनान् भोजनार्थं प्रार्थ्य व्याहरत्, अद्य चतुर्दशदिनानि यावद् यूयम् अपेक्षमाना अनाहाराः कालम् अयापयत किमपि नाभुंग्धं।
34 Tādēļ es jūs pamācu, barību ņemt; jo tas jums pašiem būs par labu; jo nevienam no jums ne mats no galvas nekritīs.”
अतो विनयेेऽहं भक्ष्यं भुज्यतां ततो युष्माकं मङ्गलं भविष्यति, युष्माकं कस्यचिज्जनस्य शिरसः केशैकोपि न नंक्ष्यति।
35 Un to sacījis un maizi ņēmis, viņš Dievam pateicās visu priekšā un to pārlauzis iesāka ēst.
इति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्।
36 Un visi iedrošināti ņēma arī barību.
अनन्तरं सर्व्वे च सुस्थिराः सन्तः खाद्यानि पर्प्यगृह्लन्।
37 Un mēs tanī laivā pavisam bijām divsimt un septiņdesmit un sešas dvēseles.
अस्माकं पोते षट्सप्तत्यधिकशतद्वयलोका आसन्।
38 Un paēduši tie laivu atviegloja, labību jūrā izmezdami.
सर्व्वेषु लोकेषु यथेष्टं भुक्तवत्सु पोतस्थन् गोधूमान् जलधौ निक्षिप्य तैः पोतस्य भारो लघूकृतः।
39 Un kad gaisma ausa, tie to zemi nepazina, bet ieraudzīja vienu jūras līci, kura malā tie laivu gribēja pielaist, ja tik varētu.
दिने जातेऽपि स को देश इति तदा न पर्य्यचीयत; किन्तु तत्र समतटम् एकं खातं दृष्ट्वा यदि शक्नुमस्तर्हि वयं तस्याभ्यन्तरं पोतं गमयाम इति मतिं कृत्वा ते लङ्गरान् छित्त्वा जलधौ त्यक्तवन्तः।
40 Un tie enkurus nocirtuši palaida jūrā un turklāt stūra saites atraisījuši un zēģeli pa vējam pacēluši dzinās pie malas.
तथा कर्णबन्धनं मोचयित्वा प्रधानं वातवसनम् उत्तोल्य तीरसमीपं गतवन्तः।
41 Bet tie noklīda tādā vietā, kur uz abējām pusēm bija jūra, un laiva dauzījās, un priekšgals uzgāja uz sēkli un palika nekustināms, un pakaļgals tapa sadauzīts no viļņu varas.
किन्तु द्वयोः समुद्रयोः सङ्गमस्थाने सैकतोपरि पोते निक्षिप्ते ऽग्रभागे बाधिते पश्चाद्भागे प्रबलतरङ्गोऽलगत् तेन पोतो भग्नः।
42 Tad to karavīru padoms bija, tos saistītos nokaut, lai neviens izpeldēdams neizbēgtu.
तस्माद् बन्दयश्चेद् बाहुभिस्तरन्तः पलायन्ते इत्याशङ्कया सेनागणस्तान् हन्तुम् अमन्त्रयत्;
43 Bet tas kapteinis, gribēdams Pāvilu izglābt, viņu padomam turējās pretī un pavēlēja tiem, kas varēja peldēt, papriekš ūdenī ielaisties un malā iet,
किन्तु शतसेनापतिः पौलं रक्षितुं प्रयत्नं कृत्वा तान् तच्चेष्टाया निवर्त्य इत्यादिष्टवान्, ये बाहुतरणं जानन्ति तेऽग्रे प्रोल्लम्प्य समुद्रे पतित्वा बाहुभिस्तीर्त्त्वा कूलं यान्तु।
44 Un tiem citiem, vai uz galdiem, vai uz kādiem laivas gabaliem; un tā notika, ka visi izglābās un tika malā.
अपरम् अवशिष्टा जनाः काष्ठं पोतीयं द्रव्यं वा येन यत् प्राप्यते तदवलम्ब्य यान्तु; इत्थं सर्व्वे भूमिं प्राप्य प्राणै र्जीविताः।

< Apustuļu Darbi 27 >