< 요한계시록 6 >

1 내가 보매 어린 양이 일곱 인 중에 하나를 떼시는 그 때에 내가 들으니 네 생물 중에 하나가 우뢰 소리같이 말하되 `오라' 하기로
अनन्तरं मयि निरीक्षमाणे मेषशावकेन तासां सप्तमुद्राणाम् एका मुद्रा मुक्ता ततस्तेषां चतुर्णाम् एकस्य प्राणिन आगत्य पश्येतिवाचको मेघगर्जनतुल्यो रवो मया श्रुतः।
2 내가 이에 보니 흰 말이 있는데 그 탄 자가 활을 가졌고 면류관을 받고 나가서 이기고 또 이기려고 하더라
ततः परम् एकः शुक्लाश्चो दृष्टः, तदारूढो जनो धनु र्धारयति तस्मै च किरीटमेकम् अदायि ततः स प्रभवन् प्रभविष्यंश्च निर्गतवान्।
3 둘째 인을 떼실 때에 내가 들으니 둘째 생물이 말하되 `오라' 하더니
अपरं द्वितीयमुद्रायां तेन मोचितायां द्वितीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता।
4 이에 붉은 다른 말이 나오더라 그 탄 자가 허락을 받아 땅에서 화평을 제하여 버리며 서로 죽이게 하고 또 큰 칼을 받았더라
ततो ऽरुणवर्णो ऽपर एको ऽश्वो निर्गतवान् तदारोहिणि पृथिवीतः शान्त्यपहरणस्य लोकानां मध्ये परस्परं प्रतिघातोत्पादनस्य च सामर्थ्यं समर्पितम्, एको बृहत्खङ्गो ऽपि तस्मा अदायि।
5 세째 인을 떼실 때에 내가 들으니 세째 생물이 말하되 `오라' 하기로 내가 보니 검은 말이 나오는데 그 탄 자가 손에 저울을 가졌더라
अपरं तृतीयमुद्रायां तन मोचितायां तृतीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता, ततः कालवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो हस्ते तुला तिष्ठति
6 내가 네 생물 사이로서 나는 듯하는 음성을 들으니 가로되 `한 데나리온에 밀 한 되요 한 데나리온에 보리 석 되로다 또 감람유와 포도주는 해치 말라' 하더라
अनन्तरं प्राणिचतुष्टयस्य मध्याद् वागियं श्रुता गोधूमानामेकः सेटको मुद्रापादैकमूल्यः, यवानाञ्च सेटकत्रयं मुद्रापादैकमूल्यं तैलद्राक्षारसाश्च त्वया मा हिंसितव्याः।
7 네째 인을 떼실 때에 내가 네째 생물의 음성을 들으니 가로되 `오라' 하기로
अनन्तरं चतुर्थमुद्रायां तेन मोचितायां चतुर्थस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता।
8 내가 보매 청황색 말이 나오는데 그 탄 자의 이름은 사망이니 음부가 그 뒤를 따르더라 저희가 땅 사분 일의 권세를 얻어 검과 흉년과 사망과 땅의 짐승으로써 죽이더라 (Hadēs g86)
ततः पाण्डुरवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो नाम मृत्युरिति परलोकश्च तम् अनुचरति खङ्गेन दुर्भिक्षेण महामार्य्या वन्यपशुभिश्च लोकानां बधाय पृथिव्याश्चतुर्थांशस्याधिपत्यं तस्मा अदायि। (Hadēs g86)
9 다섯째 인을 떼실 때에 내가 보니 하나님의 말씀과 저희의 가진 증거를 인하여 죽임을 당한 영혼들이 제단 아래 있어
अनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त।
10 큰 소리로 불러 가로되 `거룩하고 참되신 대주재여 땅에 거하는 자들을 심판하여 우리 피를 신원하여 주지 아니하시기를 어느 때까지 하시려나이까' 하니
त उच्चैरिदं गदन्ति, हे पवित्र सत्यमय प्रभो अस्माकं रक्तपाते पृथिवीनिवासिभि र्विवदितुं तस्य फल दातुञ्च कति कालं विलम्बसे?
11 각각 저희에게 흰 두루마기를 주시며 가라사대 `아직 잠시 동안 쉬되 저희 동무 종들과 형제들도 자기처럼 죽임을 받아 그 수가 차기까지 하라' 하시더라
ततस्तेषाम् एकैकस्मै शुभ्रः परिच्छदो ऽदायि वागियञ्चाकथ्यत यूयमल्पकालम् अर्थतो युष्माकं ये सहादासा भ्रातरो यूयमिव घानिष्यन्ते तेषां संख्या यावत् सम्पूर्णतां न गच्छति तावद् विरमत।
12 내가 보니 여섯째 인을 떼실 때에 큰 지진이 나며 해가 총담같이 검어지고 온 달이 피같이 되며
अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्
13 하늘의 별들이 무화과 나무가 대풍에 흔들려 선 과실이 떨어지는 것같이 땅에 떨어지며
गगनस्थताराश्च प्रबलवायुना चालिताद् उडुम्बरवृक्षात् निपातितान्यपक्कफलानीव भूतले न्यपतन्।
14 하늘은 종이축이 말리는 것같이 떠나가고 각 산과 섬이 제 자리에서 옮기우매
आकाशमण्डलञ्च सङ्कुच्यमानग्रन्थइवान्तर्धानम् अगमत् गिरय उपद्वीपाश्च सर्व्वे स्थानान्तरं चालिताः
15 땅의 임금들과 왕족들과 장군들과 부자들과 강한 자들과 각 종과 자주자가 굴과 산 바위 틈에 숨어
पृथिवीस्था भूपाला महाल्लोकाः सहस्त्रपतयो धनिनः पराक्रमिणश्च लोका दासा मुक्ताश्च सर्व्वे ऽपि गुहासु गिरिस्थशैलेषु च स्वान् प्राच्छादयन्।
16 산과 바위에게 이르되 `우리 위에 떨어져 보좌에 앉으신 이의 낯에서와 어린 양의 진노에서 우리를 가리우라
ते च गिरीन् शैलांश्च वदन्ति यूयम् अस्मदुपरि पतित्वा सिंहासनोपविष्टजनस्य दृष्टितो मेषशावकस्य कोपाच्चास्मान् गोपायत;
17 그들의 진노의 큰 날이 이르렀으니 누가 능히 서리요' 하더라
यतस्तस्य क्रोधस्य महादिनम् उपस्थितं कः स्थातुं शक्नोति?

< 요한계시록 6 >