< ヘブル人への手紙 6 >

1 然れば我等は、キリストに関する教の初歩を措きて、死せる業よりの改心、神に於る信仰、
वयं मृतिजनककर्म्मभ्यो मनःपरावर्त्तनम् ईश्वरे विश्वासो मज्जनशिक्षणं हस्तार्पणं मृतलोकानाम् उत्थानम्
2 及び諸洗禮、按手禮、死者の復活、永遠の審判等に関する教の基礎を再び築く事を為ずして、尚完全なる事に進まん、 (aiōnios g166)
अनन्तकालस्थायिविचाराज्ञा चैतैः पुनर्भित्तिमूलं न स्थापयन्तः ख्रीष्टविषयकं प्रथमोपदेशं पश्चात्कृत्य सिद्धिं यावद् अग्रसरा भवाम। (aiōnios g166)
3 神許し給はば我等は之を為すべし。
ईश्वरस्यानुमत्या च तद् अस्माभिः कारिष्यते।
4 蓋一度照らされて、天の賜を味ひ、聖霊の分配にも與り、
य एककृत्वो दीप्तिमया भूत्वा स्वर्गीयवररसम् आस्वदितवन्तः पवित्रस्यात्मनोऽंशिनो जाता
5 且神の善き御言と來世の勢力とを味ひながら、 (aiōn g165)
ईश्वरस्य सुवाक्यं भाविकालस्य शक्तिञ्चास्वदितवन्तश्च ते भ्रष्ट्वा यदि (aiōn g165)
6 堕落したる人々は、己が罪として神の御子を再び十字架に釘け、之を辱め奉る者なれば、更に改心する様一新せらるる事を得ず。
स्वमनोभिरीश्वरस्य पुत्रं पुनः क्रुशे घ्नन्ति लज्जास्पदं कुर्व्वते च तर्हि मनःपरावर्त्तनाय पुनस्तान् नवीनीकर्त्तुं कोऽपि न शक्नोति।
7 即ち土屡其上に降來る雨を吸入れて、耕す人を益すべき草を生ずれば、神より祝福を受くと雖も、
यतो या भूमिः स्वोपरि भूयः पतितं वृष्टिं पिवती तत्फलाधिकारिणां निमित्तम् इष्टानि शाकादीन्युत्पादयति सा ईश्वराद् आशिषं प्राप्ता।
8 荊棘と薊とを生ずれば、棄てられて詛はるるに近く、其終は焼かるべきのみ。
किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति।
9 至愛なる者よ、我等は斯く言ふと雖も、汝等に就きては尚善くして救霊に近からん事を希望す。
हे प्रियतमाः, यद्यपि वयम् एतादृशं वाक्यं भाषामहे तथापि यूयं तत उत्कृष्टाः परित्राणपथस्य पथिकाश्चाध्व इति विश्वसामः।
10 蓋神は、汝等が曾て聖徒等に供給し、今も尚供給しつつあるに、汝等の業と汝等が御名に對して顕はしし愛とを忘れ給ふ如き、不義なる者には在さず。
यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।
11 我等の望む所は、汝等が各希望を全うするまで、始終同様の励を顕し、
अपरं युष्माकम् एकैको जनो यत् प्रत्याशापूरणार्थं शेषं यावत् तमेव यत्नं प्रकाशयेदित्यहम् इच्छामि।
12 怠慢に流れずして、信仰と忍耐とを以、約束の世嗣と成るべき人々に倣う者と成らん事是なり。
अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज्ञानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत।
13 蓋神アブラハムに約し給ひし時、己より大いにして指して以て誓ふべきものなきが故に、御自らを指して、誓ひて、
ईश्वरो यदा इब्राहीमे प्रत्यजानात् तदा श्रेष्ठस्य कस्याप्यपरस्य नाम्ना शपथं कर्त्तुं नाशक्नोत्, अतो हेतोः स्वनाम्ना शपथं कृत्वा तेनोक्तं यथा,
14 曰く、「我祝して汝を祝せん、殖して汝を殖さん」と。
"सत्यम् अहं त्वाम् आशिषं गदिष्यामि तवान्वयं वर्द्धयिष्यामि च।"
15 斯てアブラハム忍耐を以て待御約束の事を得たり。
अनेन प्रकारेण स सहिष्णुतां विधाय तस्याः प्रत्याशायाः फलं लब्धवान्।
16 即ち人々は最も大いなるものを指して誓ひ、又保證と成る誓は其一切の論を決す。
अथ मानवाः श्रेष्ठस्य कस्यचित् नाम्ना शपन्ते, शपथश्च प्रमाणार्थं तेषां सर्व्वविवादान्तको भवति।
17 斯の如く、神は約束の世嗣たる人々に對て、其規定の變ぜざる事を尚十分に示さんとて、誓を加へ給ひしなり。
इत्यस्मिन् ईश्वरः प्रतिज्ञायाः फलाधिकारिणः स्वीयमन्त्रणाया अमोघतां बाहुल्यतो दर्शयितुमिच्छन् शपथेन स्वप्रतिज्ञां स्थिरीकृतवान्।
18 是備へられたる希望を捉へんとして倚縋り奉りたる我等に、神の僞り給ふ能はざる二の動かざる事を以て、最も強き慰を得させ給はん為なり。
अतएव यस्मिन् अनृतकथनम् ईश्वरस्य न साध्यं तादृशेनाचलेन विषयद्वयेन सम्मुखस्थरक्षास्थलस्य प्राप्तये पलायितानाम् अस्माकं सुदृढा सान्त्वना जायते।
19 此希望は、安全にして堅固なる魂の碇として我等之を保ち、
सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा।
20 更にイエズスが限なくメルキセデクの如き大司祭と為られて、我等の為に先駆として入り給ひし幕屋の中までも、[此希望は]入るものなり。 (aiōn g165)
तत्रैवास्माकम् अग्रसरो यीशुः प्रविश्य मल्कीषेदकः श्रेण्यां नित्यस्थायी याजकोऽभवत्। (aiōn g165)

< ヘブル人への手紙 6 >