< ヨハネの黙示録 11 >
1 それから、わたしはつえのような測りざおを与えられて、こう命じられた、「さあ立って、神の聖所と祭壇と、そこで礼拝している人々とを、測りなさい。
अनन्तरं परिमाणदण्डवद् एको नलो मह्यमदायि, स च दूत उपतिष्ठन् माम् अवदत्, उत्थायेश्वरस्य मन्दिरं वेदीं तत्रत्यसेवकांश्च मिमीष्व।
2 聖所の外の庭はそのままにしておきなさい。それを測ってはならない。そこは異邦人に与えられた所だから。彼らは、四十二か月の間この聖なる都を踏みにじるであろう。
किन्तु मन्दिरस्य बहिःप्राङ्गणं त्यज न मिमीष्व यतस्तद् अन्यजातीयेभ्यो दत्तं, पवित्रं नगरञ्च द्विचत्वारिंशन्मासान् यावत् तेषां चरणै र्मर्द्दिष्यते।
3 そしてわたしは、わたしのふたりの証人に、荒布を着て、千二百六十日のあいだ預言することを許そう」。
पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।
4 彼らは、全地の主のみまえに立っている二本のオリブの木、また、二つの燭台である。
तावेव जगदीश्वरस्यान्तिके तिष्ठन्तौ जितवृक्षौ दीपवृक्षौ च।
5 もし彼らに害を加えようとする者があれば、彼らの口から火が出て、その敵を滅ぼすであろう。もし彼らに害を加えようとする者があれば、その者はこのように殺されねばならない。
यदि केचित् तौ हिंसितुं चेष्टन्ते तर्हि तयो र्वदनाभ्याम् अग्नि र्निर्गत्य तयोः शत्रून् भस्मीकरिष्यति। यः कश्चित् तौ हिंसितुं चेष्टते तेनैवमेव विनष्टव्यं।
6 預言をしている期間、彼らは、天を閉じて雨を降らせないようにする力を持っている。さらにまた、水を血に変え、何度でも思うままに、あらゆる災害で地を打つ力を持っている。
तयो र्भविष्यद्वाक्यकथनदिनेषु यथा वृष्टि र्न जायते तथा गगनं रोद्धुं तयोः सामर्थ्यम् अस्ति, अपरं तोयानि शोणितरूपाणि कर्त्तुं निजाभिलाषात् मुहुर्मुहुः सर्व्वविधदण्डैः पृथिवीम् आहन्तुञ्च तयोः सामर्थ्यमस्ति।
7 そして、彼らがそのあかしを終えると、底知れぬ所からのぼって来る獣が、彼らと戦って打ち勝ち、彼らを殺す。 (Abyssos )
अपरं तयोः साक्ष्ये समाप्ते सति रसातलाद् येनोत्थितव्यं स पशुस्ताभ्यां सह युद्ध्वा तौ जेष्यति हनिष्यति च। (Abyssos )
8 彼らの死体はソドムや、エジプトにたとえられている大いなる都の大通りにさらされる。彼らの主も、この都で十字架につけられたのである。
ततस्तयोः प्रभुरपि यस्यां महापुर्य्यां क्रुशे हतो ऽर्थतो यस्याः पारमार्थिकनामनी सिदोमं मिसरश्चेति तस्या महापुर्य्यांः सन्निवेशे तयोः कुणपे स्थास्यतः।
9 いろいろな民族、部族、国語、国民に属する人々が、三日半の間、彼らの死体をながめるが、その死体を墓に納めることは許さない。
ततो नानाजातीया नानावंशीया नानाभाषावादिनो नानादेशीयाश्च बहवो मानवाः सार्द्धदिनत्रयं तयोः कुणपे निरीक्षिष्यन्ते, तयोः कुणपयोः श्मशाने स्थापनं नानुज्ञास्यन्ति।
10 地に住む人々は、彼らのことで喜び楽しみ、互に贈り物をしあう。このふたりの預言者は、地に住む者たちを悩ましたからである。
पृथिवीनिवासिनश्च तयो र्हेतोरानन्दिष्यन्ति सुखभोगं कुर्व्वन्तः परस्परं दानानि प्रेषयिष्यन्ति च यतस्ताभ्यां भविष्यद्वादिभ्यां पृथिवीनिवासिनो यातनां प्राप्ताः।
11 三日半の後、いのちの息が、神から出て彼らの中にはいり、そして、彼らが立ち上がったので、それを見た人々は非常な恐怖に襲われた。
तस्मात् सार्द्धदिनत्रयात् परम् ईश्वरात् जीवनदायक आत्मनि तौ प्रविष्टे तौ चरणैरुदतिष्ठतां, तेन यावन्तस्तावपश्यन् ते ऽतीव त्रासयुक्ता अभवन्।
12 その時、天から大きな声がして、「ここに上ってきなさい」と言うのを、彼らは聞いた。そして、彼らは雲に乗って天に上った。彼らの敵はそれを見た。
ततः परं तौ स्वर्गाद् उच्चैरिदं कथयन्तं रवम् अशृणुतां युवां स्थानम् एतद् आरोहतां ततस्तयोः शत्रुषु निरीक्षमाणेषु तौ मेघेन स्वर्गम् आरूढवन्तौ।
13 この時、大地震が起って、都の十分の一は倒れ、その地震で七千人が死に、生き残った人々は驚き恐れて、天の神に栄光を帰した。
तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।
14 第二のわざわいは、過ぎ去った。見よ、第三のわざわいがすぐに来る。
द्वितीयः सन्तापो गतः पश्य तृतीयः सन्तापस्तूर्णम् आगच्छति।
15 第七の御使が、ラッパを吹き鳴らした。すると、大きな声々が天に起って言った、「この世の国は、われらの主とそのキリストとの国となった。主は世々限りなく支配なさるであろう」。 (aiōn )
अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥ (aiōn )
16 そして、神のみまえで座についている二十四人の長老は、ひれ伏し、神を拝して言った、
अपरम् ईश्वरस्यान्तिके स्वकीयसिंहासनेषूपविष्टाश्चतुर्विंशतिप्राचीना भुवि न्यङ्भूखा भूत्वेश्वरं प्रणम्यावदन्,
17 「今いまし、昔いませる、全能者にして主なる神よ。大いなる御力をふるって支配なさったことを、感謝します。
हे भूत वर्त्तमानापि भविष्यंश्च परेश्वर। हे सर्व्वशक्तिमन् स्वामिन् वयं ते कुर्म्महे स्तवं। यत् त्वया क्रियते राज्यं गृहीत्वा ते महाबलं।
18 諸国民は怒り狂いましたが、あなたも怒りをあらわされました。そして、死人をさばき、あなたの僕なる預言者、聖徒、小さき者も、大いなる者も、すべて御名をおそれる者たちに報いを与え、また、地を滅ぼす者どもを滅ぼして下さる時がきました」。
विजातीयेषु कुप्यत्सु प्रादुर्भूता तव क्रुधा। मृतानामपि कालो ऽसौ विचारो भविता यदा। भृत्याश्च तव यावन्तो भविष्यद्वादिसाधवः। ये च क्षुद्रा महान्तो वा नामतस्ते हि बिभ्यति। यदा सर्व्वेभ्य एतेभ्यो वेतनं वितरिष्यते। गन्तव्यश्च यदा नाशो वसुधाया विनाशकैः॥
19 そして、天にある神の聖所が開けて、聖所の中に契約の箱が見えた。また、いなずまと、もろもろの声と、雷鳴と、地震とが起り、大粒の雹が降った。
अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।