< ヨハネの黙示録 21 >

1 我また新しき天と新しき地とを見たり。これ前の天と前の地とは過ぎ去り、海も亦なきなり。
अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।
2 我また聖なる都、新しきエルサレムの、夫のために飾りたる新婦のごとく準備して、神の許をいで、天より降るを見たり。
अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।
3 また大なる聲の御座より出づるを聞けり。曰く『視よ、神の幕屋、人と偕にあり、神、人と偕に住み、人、神の民となり、神みづから人と偕に在して、
अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।
4 かれらの目の涙をことごとく拭ひ去り給はん。今よりのち死もなく、悲歎も號叫も苦痛もなかるべし。前のもの既に過ぎ去りたればなり』
तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।
5 かくて御座に坐し給ふもの言ひたまふ『視よ、われ一切のものを新にするなり』また言ひたまふ『書き記せ、これらの言は信ずべきなり、眞なり』
अपरं सिंहासनोपविष्टो जनोऽवदत् पश्याहं सर्व्वाणि नूतनीकरोमि। पुनरवदत् लिख यत इमानि वाक्यानि सत्यानि विश्वास्यानि च सन्ति।
6 また我に言ひたまふ『事すでに成れり、我はアルパなり、オメガなり、始なり、終なり、渇く者には價なくして生命の水の泉より飮むことを許さん。
पन र्माम् अवदत् समाप्तं, अहं कः क्षश्च, अहम् आदिरन्तश्च यः पिपासति तस्मा अहं जीवनदायिप्रस्रवणस्य तोयं विनामूल्यं दास्यामि।
7 勝を得る者は此 等のものを嗣がん、我はその神となり、彼は我が子とならん。
यो जयति स सर्व्वेषाम् अधिकारी भविष्यति, अहञ्च तस्येश्वरो भविष्यामि स च मम पुत्रो भविष्यति।
8 されど臆するもの、信ぜぬもの、憎むべきもの、人を殺すもの、淫行のもの、咒術をなすもの、偶像を拜する者および凡て僞る者は、火と硫黄との燃ゆる池にて其の報を受くべし、これ第二の死なり』 (Limnē Pyr g3041 g4442)
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः। (Limnē Pyr g3041 g4442)
9 最後の七つの苦難の滿ちたる七つの鉢を持てる七人の御使の一人きたり、我に語りて言ふ『來れ、われ羔羊の妻なる新婦を汝に見せん』
अनन्तरं शेषसप्तदण्डैः परिपूर्णाः सप्त कंसा येषां सप्तदूतानां करेष्वासन् तेषामेक आगत्य मां सम्भाष्यावदत्, आगच्छाहं तां कन्याम् अर्थतो मेषशावकस्य भाविभार्य्यां त्वां दर्शयामि।
10 御使、御靈に感じたる我を携へて大なる高き山にゆき、聖なる都エルサレムの、神の榮光をもて神の許を出でて天より降るを見せたり。
ततः स आत्माविष्टं माम् अत्युच्चं महापर्व्वतमेंक नीत्वेश्वरस्य सन्निधितः स्वर्गाद् अवरोहन्तीं यिरूशालमाख्यां पवित्रां नगरीं दर्शितवान्।
11 その都の光輝はいと貴き玉のごとく、透徹る碧玉のごとし。
सा ईश्वरीयप्रतापविशिष्टा तस्यास्तेजो महार्घरत्नवद् अर्थतः सूर्य्यकान्तमणितेजस्तुल्यं।
12 此處に大なる高き石垣ありて十二の門あり、門の側らに一人づつ十二の御使あり、門の上に一つづつイスラエルの子孫の十二の族の名を記せり。
तस्याः प्राचीरं बृहद् उच्चञ्च तत्र द्वादश गोपुराणि सन्ति तद्गोपुरोपरि द्वादश स्वर्गदूता विद्यन्ते तत्र च द्वादश नामान्यर्थत इस्रायेलीयानां द्वादशवंशानां नामानि लिखितानि।
13 東に三つの門、北に三つの門、南に三つの門、西に三つの門あり。
पूर्व्वदिशि त्रीणि गोपुराणि उत्तरदिशि त्रीणि गोपुराणि दक्षिणदिषि त्रीणि गोपुराणि पश्चीमदिशि च त्रीणि गोपुराणि सन्ति।
14 都の石垣には十二の基あり、これに羔羊の十二の使徒の十二の名を記せり。
नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि।
15 我と語る者は都と門と石垣とを測らん爲に金の間竿を持てり。
अनरं नगर्य्यास्तदीयगोपुराणां तत्प्राचीरस्य च मापनार्थं मया सम्भाषमाणस्य दूतस्य करे स्वर्णमय एकः परिमाणदण्ड आसीत्।
16 都は方形にして、その長さ廣さ相 均し。彼は間竿にて都を測りしに一千 二百 町あり、長さ廣さ高さみな相 均し。
नगर्य्या आकृतिश्चतुरस्रा तस्या दैर्घ्यप्रस्थे समे। ततः परं स तेग परिमाणदण्डेन तां नगरीं परिमितवान् तस्याः परिमाणं द्वादशसहस्रनल्वाः। तस्या दैर्घ्यं प्रस्थम् उच्चत्वञ्च समानानि।
17 また石垣を測りしに、人の度すなはち御使の度に據れば百 四十 四 尺あり。
अपरं स तस्याः प्राचीरं परिमितवान् तस्य मानवास्यार्थतो दूतस्य परिमाणानुसारतस्तत् चतुश्चत्वारिंशदधिकाशतहस्तपरिमितं ।
18 石垣は碧玉にて築き、都は清らかなる玻璃のごとき純金にて造れり。
तस्य प्राचीरस्य निर्म्मितिः सूर्य्यकान्तमणिभि र्नगरी च निर्म्मलकाचतुल्येन शुद्धसुवर्णेन निर्म्मिता।
19 都の石垣の基はさまざまの寶石にて飾れり。第一の基は碧玉、第二は瑠璃、第三は玉髓、第四は緑玉、
नगर्य्याः प्राचीरस्य मूलानि च सर्व्वविधमहार्घमणिभि र्भूषितानि। तेषां प्रथमं भित्तिमूलं सूर्य्यकान्तस्य, द्वितीयं नीलस्य, तृतीयं ताम्रमणेः, चतुर्थं मरकतस्य,
20 第五は紅縞 瑪瑙、第六は赤瑪瑙、第七は貴橄欖石、第八は緑柱石、第九は黄玉石、第十は緑玉髓、第十 一は青玉、第十二は紫 水晶なり。
पञ्चमं वैदूर्य्यस्य, षष्ठं शोणरत्नस्य, सप्तमं चन्द्रकान्तस्य, अष्टमं गोमेदस्य, नवमं पद्मरागस्य, दशमं लशूनीयस्य, एकादशं षेरोजस्य, द्वादशं मर्टीष्मणेश्चास्ति।
21 十二の門は十二の眞珠なり、おのおのの門は一つの眞珠より成り、都の大路は透徹る玻璃のごとき純金なり。
द्वादशगोपुराणि द्वादशमुक्ताभि र्निर्म्मितानि, एकैकं गोपुरम् एकैकया मुक्तया कृतं नगर्य्या महामार्गश्चाच्छकाचवत् निर्म्मलसुवर्णेन निर्म्मितं।
22 われ都の内にて宮を見ざりき、主なる全能の神および羔羊はその宮なり。
तस्या अन्तर एकमपि मन्दिरं मया न दृष्टं सतः सर्व्वशक्तिमान् प्रभुः परमेश्वरो मेषशावकश्च स्वयं तस्य मन्दिरं।
23 都は日月の照すを要せず、神の榮光これを照し、羔羊はその燈火なり。
तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति।
24 諸國の民は都の光のなかを歩み、地の王たちは己が光榮を此處にたづさへきたる。
परित्राणप्राप्तलोकनिवहाश्च तस्या आलोके गमनागमने कुर्व्वन्ति पृथिव्या राजानश्च स्वकीयं प्रतापं गौरवञ्च तन्मध्यम् आनयन्ति।
25 都の門は終日 閉ぢず(此處に夜あることなし)
तस्या द्वाराणि दिवा कदापि न रोत्स्यन्ते निशापि तत्र न भविष्यति।
26 人々は諸國の民の光榮と尊貴とを此處にたづさえ來らん。
सर्व्वजातीनां गौरवप्रतापौ तन्मध्यम् आनेष्येते।
27 凡て穢れたる者また憎むべき事と虚僞とを行ふ者は、此處に入らず、羔羊の生命の書に記されたる者のみ此處に入るなり。
परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।

< ヨハネの黙示録 21 >