< マタイの福音書 4 >

1 ここにイエス御靈によりて荒野に導かれ給ふ、惡魔に試みられんとするなり。
ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः
2 四十 日 四十 夜 斷食して、後に飢ゑたまふ。
सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुधितो बभूव।
3 試むる者きたりて言ふ『汝もし神の子ならば、命じて此 等の石をパンと爲らしめよ』
तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
4 答へて言ひ給ふ『「人の生くるはパンのみに由るにあらず、神の口より出づる凡ての言に由る」と録されたり』
ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"
5 ここに惡魔イエスを聖なる都につれゆき、宮の頂上に立たせて言ふ、
तदा प्रतारकस्तं पुण्यनगरं नीत्वा मन्दिरस्य चूडोपरि निधाय गदितवान्,
6 『汝もし神の子ならば己が身を下に投げよ。それは「なんぢの爲に御使たちに命じ給はん。彼ら手にて汝を支へ、その足を石にうち當つること無からしめん」と録されたるなり』
त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
7 イエス言ひたまふ『「主なる汝の神を試むべからず」と、また録されたり』
तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।"
8 惡魔またイエスを最 高き山につれゆき、世のもろもろの國と、その榮華とを示して言ふ、
अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,
9 『汝もし平伏して我を拜せば、此 等を皆なんぢに與へん』
यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् एतानि तुभ्यं प्रदास्यामि।
10 ここにイエス言ひ給ふ『サタンよ、退け「主なる汝の神を拜し、ただ之にのみ事へ奉るべし」と録されたるなり』
तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
11 ここに惡魔は離れ去り、視よ、御使たち來り事へぬ。
ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्गीयदूतैरागत्य स सिषेवे।
12 イエス、ヨハネの囚はれし事をききて、ガリラヤに退き、
तदनन्तरं योहन् कारायां बबन्धे, तद्वार्त्तां निशम्य यीशुना गालील् प्रास्थीयत।
13 後ナザレを去りて、ゼブルンとナフタリとの境なる、海邊のカペナウムに到りて住み給ふ。
ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
14 これは預言者イザヤによりて云はれたる言の成就せん爲なり。曰く
तस्मात्, अन्यादेशीयगालीलि यर्द्दन्पारेऽब्धिरोधसि। नप्तालिसिबूलून्देशौ यत्र स्थाने स्थितौ पुरा।
15 『ゼブルンの地、ナフタリの地、海の邊、ヨルダンの彼方、異邦人のガリラヤ、
तत्रत्या मनुजा ये ये पर्य्यभ्राम्यन् तमिस्रके। तैर्जनैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥
16 暗きに坐する民は、大なる光を見、死の地と死の蔭とに坐する者に、光のぼれり』
यदेतद्वचनं यिशयियभविष्यद्वादिना प्रोक्तं, तत् तदा सफलम् अभूत्।
17 この時よりイエス教を宣べはじめて言ひ給ふ『なんぢら悔改めよ、天國は近づきたり』
अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
18 かくて、ガリラヤの海邊をあゆみて、二人の兄弟ペテロといふシモンとその兄弟アンデレとが、海に網うちをるを見 給ふ、かれらは漁人なり。
ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
19 これに言ひたまふ『我に從ひきたれ、さらば汝らを人を漁る者となさん』
तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि।
20 かれら直ちに網をすてて從ふ。
तेनैव तौ जालं विहाय तस्य पश्चात् आगच्छताम्।
21 更に進みゆきて、また二人の兄弟、ゼベダイの子ヤコブとその兄弟ヨハネとが、父ゼベダイとともに舟にありて網を繕ひをるを見て呼び給へば、
अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
22 直ちに舟と父とを置きて從ふ。
तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः।
23 イエスあまねくガリラヤを巡り、會堂にて教をなし、御國の福音を宣べつたへ、民の中のもろもろの病、もろもろの疾患をいやし給ふ。
अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
24 その噂あまねくシリヤに弘り、人々すべての惱めるもの、即ちさまざまの病と苦痛とに罹れるもの、惡鬼に憑かれたるもの、癲癇および中風の者などを連れ來りたれば、イエス之を醫したまふ。
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
25 ガリラヤ、デカポリス、エルサレム、ユダヤ及びヨルダンの彼方より、大なる群衆きたり從へり。
एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।

< マタイの福音書 4 >