< ルカの福音書 24 >
1 一週の初の日、朝まだき、女たち備へたる香料を携へて墓にゆく。
अथ सप्ताहप्रथमदिनेऽतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः।
किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा
ताः प्रविश्य प्रभो र्देहमप्राप्य
4 これが爲に狼狽へをりしに、視よ、輝ける衣を著たる二人の人その傍らに立てり。
व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ
5 女たち懼れて面を地に伏せたれば、その二人の者いふ『なんぞ死にし者どもの中に生ける者を尋ぬるか。
तस्मात्ताः शङ्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता ऊचतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ?
6 彼は此處に在さず、甦へり給へり。尚ガリラヤに居給へるとき、如何に語り給ひしかを憶ひ出でよ。
सोत्र नास्ति स उदस्थात्।
7 即ち「人の子は必ず罪ある人の手に付され、十字架につけられ、かつ三日めに甦へるべし」と言ひ給へり』
पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत।
तदा तस्य सा कथा तासां मनःसु जाता।
9 墓より歸りて、凡て此 等のことを十 一 弟子および凡て他の弟子たちに告ぐ。
अनन्तरं श्मशानाद् गत्वा ता एकादशशिष्यादिभ्यः सर्व्वेभ्यस्तां वार्त्तां कथयामासुः।
10 この女たちはマグダラのマリヤ、ヨハンナ及びヤコブの母マリヤなり、而して彼らと共に在りし他の女たちも、之を使徒たちに告げたり。
मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः सङ्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः
किन्तु तासां कथाम् अनर्थकाख्यानमात्रं बुद्ध्वा कोपि न प्रत्यैत्।
12 [ペテロは起ちて墓に走りゆき、屈みて布のみあるを見、ありし事を怪しみつつ歸れり]
तदा पितर उत्थाय श्मशानान्तिकं दधाव, तत्र च प्रह्वो भूत्वा पार्श्वैकस्थापितं केवलं वस्त्रं ददर्श; तस्मादाश्चर्य्यं मन्यमानो यदघटत तन्मनसि विचारयन् प्रतस्थे।
13 視よ、この日 二人の弟子、エルサレムより三里ばかり隔りたるエマオといふ村に往きつつ、
तस्मिन्नेव दिने द्वौ शिय्यौ यिरूशालमश्चतुष्क्रोशान्तरितम् इम्मायुग्रामं गच्छन्तौ
15 語りかつ論じあふ程に、イエス自ら近づきて共に往き給ふ。
तयोरालापविचारयोः काले यीशुरागत्य ताभ्यां सह जगाम
16 されど彼らの目 遮へられて、イエスたるを認むること能はず。
किन्तु यथा तौ तं न परिचिनुतस्तदर्थं तयो र्दृष्टिः संरुद्धा।
17 イエス彼らに言ひ給ふ『なんぢら歩みつつ互に語りあふ言は何ぞや』かれら悲しげなる状にて立ち止り、
स तौ पृष्टवान् युवां विषण्णौ किं विचारयन्तौ गच्छथः?
18 その一人なるクレオパと名づくるもの答へて言ふ『なんぢエルサレムに寓り居て、獨り此の頃かしこに起りし事どもを知らぬか』
ततस्तयोः क्लियपानामा प्रत्युवाच यिरूशालमपुरेऽधुना यान्यघटन्त त्वं केवलविदेशी किं तद्वृत्तान्तं न जानासि?
19 イエス言ひ給ふ『如何なる事ぞ』答へて言ふ『ナザレのイエスの事なり、彼は神と凡ての民との前にて、業にも言にも能力ある預言者なりしに、
स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्
20 祭司長ら及び我が司らは、死罪に定めんとて之を付し遂に十字架につけたり。
तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;
21 我らはイスラエルを贖ふべき者は、この人なりと望みゐたり、然のみならず、此の事の有りしより今日ははや三日めなるが、
किन्तु य इस्रायेलीयलोकान् उद्धारयिष्यति स एवायम् इत्याशास्माभिः कृता।तद्यथा तथास्तु तस्या घटनाया अद्य दिनत्रयं गतं।
22 なほ我等のうちの或 女たち、我らを驚かせり、即ち彼ら朝 夙く墓に往きたるに、
अधिकन्त्वस्माकं सङ्गिनीनां कियत्स्त्रीणां मुखेभ्योऽसम्भववाक्यमिदं श्रुतं;
23 屍體を見ずして歸り、かつ御使たち現れて、イエスは活き給ふと告げたりと言ふ。
ताः प्रत्यूषे श्मशानं गत्वा तत्र तस्य देहम् अप्राप्य व्याघुट्येत्वा प्रोक्तवत्यः स्वर्गीसदूतौ दृष्टावस्माभिस्तौ चावादिष्टां स जीवितवान्।
24 我らの朋輩の數人もまた墓に往きて見れば、正しく女たちの言ひし如くにしてイエスを見ざりき』
ततोस्माकं कैश्चित् श्मशानमगम्यत तेऽपि स्त्रीणां वाक्यानुरूपं दृष्टवन्तः किन्तु तं नापश्यन्।
25 イエス言ひ給ふ『ああ愚にして預言者たちの語りたる凡てのことを信ずるに心 鈍き者よ。
तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;
26 キリストは必ず此らの苦難を受けて、其の榮光に入るべきならずや』
एतत्सर्व्वदुःखं भुक्त्वा स्वभूतिप्राप्तिः किं ख्रीष्टस्य न न्याय्या?
27 かくてモーセ及び凡ての預言者をはじめ、己に就きて凡ての聖書に録したる所を説き示したまふ。
ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास।
28 遂に往く所の村に近づきしに、イエスなほ進みゆく樣なれば、
अथ गम्यग्रामाभ्यर्णं प्राप्य तेनाग्रे गमनलक्षणे दर्शिते
29 強ひて止めて言ふ『我らと共に留れ、時 夕に及びて、日も早や暮れんとす』乃ち留らんとて入りたまふ。
तौ साधयित्वावदतां सहावाभ्यां तिष्ठ दिने गते सति रात्रिरभूत्; ततः स ताभ्यां सार्द्धं स्थातुं गृहं ययौ।
30 共に食事の席に著きたまふ時、パンを取りて祝し、擘きて與へ給へば、
पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।
31 彼らの目 開けてイエスなるを認む、而してイエス見えずなり給ふ。
तदा तयो र्दृष्टौ प्रसन्नायां तं प्रत्यभिज्ञतुः किन्तु स तयोः साक्षादन्तर्दधे।
32 かれら互に言ふ『途にて我らと語り、我らに聖書を説明し給へるとき、我らの心、内に燃えしならずや』
ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थञ्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्?
33 かくて直ちに立ちエルサレムに歸りて見れば、十 一 弟子および之と偕なる者あつまり居て言ふ、
तौ तत्क्षणादुत्थाय यिरूशालमपुरं प्रत्याययतुः, तत्स्थाने शिष्याणाम् एकादशानां सङ्गिनाञ्च दर्शनं जातं।
ते प्रोचुः प्रभुरुदतिष्ठद् इति सत्यं शिमोने दर्शनमदाच्च।
35 二人の者もまた途にて有りし事と、パンを擘き給ふによりてイエスを認めし事とを述ぶ。
ततः पथः सर्व्वघटनायाः पूपभञ्जनेन तत्परिचयस्य च सर्व्ववृत्तान्तं तौ वक्तुमारेभाते।
36 此 等のことを語る程に、イエスその中に立ち[『平安なんぢらに在れ』と言ひ]給ふ。
इत्थं ते परस्परं वदन्ति तत्काले यीशुः स्वयं तेषां मध्य प्रोत्थय युष्माकं कल्याणं भूयाद् इत्युवाच,
37 かれら怖ぢ懼れて、見る所のものを靈ならんと思ひしに、
किन्तु भूतं पश्याम इत्यनुमाय ते समुद्विविजिरे त्रेषुश्च।
38 イエス言ひ給ふ『なんぢら何ぞ心 騷ぐか、何ゆゑ心に疑惑おこるか、
स उवाच, कुतो दुःखिता भवथ? युष्माकं मनःसु सन्देह उदेति च कुतः?
39 我が手わが足を見よ、これ我なり。我を撫でて見よ、靈には肉と骨となし、我にはあり、汝らの見るごとし』
एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति।
इत्युक्त्वा स हस्तपादान् दर्शयामास।
41 かれら歡喜の餘に信ぜずして怪しめる時、イエス言ひたまふ『此處に何か食物あるか』
तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति?
ततस्ते कियद्दग्धमत्स्यं मधु च ददुः
स तदादाय तेषां साक्षाद् बुभुजे
44 また言ひ給ふ『これらの事は、我がなほ汝らと偕に在りし時に語りて、我に就きモーセの律法・預言者および詩 篇に録されたる凡ての事は、必ず遂げらるべしと言ひし所なり』
कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।
45 ここに聖書を悟らしめんとて、彼らの心を開きて言ひ給ふ、
अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्,
46 『かく録されたり、キリストは苦難を受けて、三日めに死人の中より甦へり、
ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;
47 且その名によりて罪の赦を得さする悔改は、エルサレムより始りて、もろもろの國人に宣傳へらるべしと。
तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
एषु सर्व्वेषु यूयं साक्षिणः।
49 視よ、我は父の約し給へるものを汝らに贈る。汝ら上より能力を著せらるるまでは都に留れ』
अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत।
50 遂にイエス彼らをベタニヤに連れゆき、手を擧げて之を祝したまふ。
अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे
51 祝する間に、彼らを離れ[天に擧げられ]給ふ。
आशिषं वदन्नेव च तेभ्यः पृथग् भूत्वा स्वर्गाय नीतोऽभवत्।
52 彼ら[之を拜し]大なる歡喜をもてエルサレムに歸り、
तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः।
ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवादञ्च कर्त्तम् आरेभिरे। इति॥