< テサロニケ人への手紙第二 2 >
1 兄弟よ、我らの主イエス・キリストの來り給ふこと、又われらが主の許に集ふことに就きては、汝らに求む。
हे भ्रातरः, अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं तस्य समीपे ऽस्माकं संस्थितिञ्चाधि वयं युष्मान् इदं प्रार्थयामहेे,
2 或は靈により、或は言により、或は我等より出でし如き書により、主の日すでに來れりとて、容易く心を動かしかつ驚かざらん事を。
प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत।
3 誰が如何にすとも、それに欺かるな。その日の前に背教の事あり、不法の人すなはち滅亡の子あらはれざるを得ず、
केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं,
4 彼はすべて神と稱ふる者および人の拜む者に逆ひ、此 等よりも己を高くし、遂に神の聖所に坐し己を神として見する者なり。
यश्च जनो विपक्षतां कुर्व्वन् सर्व्वस्माद् देवात् पूजनीयवस्तुश्चोन्नंस्यते स्वम् ईश्वरमिव दर्शयन् ईश्वरवद् ईश्वरस्य मन्दिर उपवेक्ष्यति च तेन विनाशपात्रेण पापपुरुषेणोदेतव्यं।
5 われ汝らと偕に在りし時、これらの事を告げしを汝ら憶えぬか。
यदाहं युष्माकं सन्निधावासं तदानीम् एतद् अकथयमिति यूयं किं न स्मरथ?
6 彼をして己が時に至りて顯れしめんために、彼を阻めをる者を汝らは知る。
साम्प्रतं स येन निवार्य्यते तद् यूयं जानीथ, किन्तु स्वसमये तेनोदेतव्यं।
7 不法の秘密は既に働けり、然れど此はただ阻めをる者の除かるるまでなり。
विधर्म्मस्य निगूढो गुण इदानीमपि फलति किन्तु यस्तं निवारयति सोऽद्यापि दूरीकृतो नाभवत्।
8 かくて其のとき不法の者あらはれん、而して主イエス御口の氣息をもて彼を殺し、降臨の輝耀をもて彼を亡し給はん。
तस्मिन् दूरीकृते स विधर्म्म्युदेष्यति किन्तु प्रभु र्यीशुः स्वमुखपवनेन तं विध्वंसयिष्यति निजोपस्थितेस्तेजसा विनाशयिष्यति च।
9 彼はサタンの活動に從ひて來り、もろもろの虚僞なる力と徴と不思議と、
शयतानस्य शक्तिप्रकाशनाद् विनाश्यमानानां मध्ये सर्व्वविधाः पराक्रमा भ्रमिका आश्चर्य्यक्रिया लक्षणान्यधर्म्मजाता सर्व्वविधप्रतारणा च तस्योपस्थितेः फलं भविष्यति;
10 不義のもろもろの誑惑とを行ひて、亡ぶる者どもに向はん、彼らは眞理を愛する愛を受けずして、救はるることを爲ざればなり。
यतो हेतोस्ते परित्राणप्राप्तये सत्यधर्म्मस्यानुरागं न गृहीतवन्तस्तस्मात् कारणाद्
11 この故に神は、彼らが虚僞を信ぜんために惑をその中に働かせ給ふ。
ईश्वरेण तान् प्रति भ्रान्तिकरमायायां प्रेषितायां ते मृषावाक्ये विश्वसिष्यन्ति।
12 これ眞理を信ぜず不義を喜ぶ者の、みな審かれん爲なり。
यतो यावन्तो मानवाः सत्यधर्म्मे न विश्वस्याधर्म्मेण तुष्यन्ति तैः सर्व्वै र्दण्डभाजनै र्भवितव्यं।
13 されど主に愛せらるる兄弟よ、われら常に汝 等のために神に感謝せざるを得ず。神は御靈によれる潔と眞理に對する信仰とをもて、始より汝らを救に選び、
हे प्रभोः प्रिया भ्रातरः, युष्माकं कृत ईश्वरस्य धन्यवादोऽस्माभिः सर्व्वदा कर्त्तव्यो यत ईश्वर आ प्रथमाद् आत्मनः पावनेन सत्यधर्म्मे विश्वासेन च परित्राणार्थं युष्मान् वरीतवान्
14 また我らの主イエス・キリストの榮光を得させんとて、我らの福音をもて汝らを招き給へばなり。
तदर्थञ्चास्माभि र्घोषितेन सुसंवादेन युष्मान् आहूयास्माकं प्रभो र्यीशुख्रीष्टस्य तेजसोऽधिकारिणः करिष्यति।
15 されば兄弟よ、堅く立ちて我らの言あるひは書に由りて教へられたる傳を守れ。
अतो हे भ्रातरः यूयम् अस्माकं वाक्यैः पत्रैश्च यां शिक्षां लब्धवन्तस्तां कृत्स्नां शिक्षां धारयन्तः सुस्थिरा भवत।
16 我らの主イエス・キリスト、及び我らを愛し恩惠をもて永遠の慰安と善き望とを與へ給ふ我らの父なる神、 (aiōnios )
अस्माकं प्रभु र्यीशुख्रीष्टस्तात ईश्वरश्चार्थतो यो युष्मासु प्रेम कृतवान् नित्याञ्च सान्त्वनाम् अनुग्रहेणोत्तमप्रत्याशाञ्च युष्मभ्यं दत्तवान् (aiōnios )
17 願はくは汝らの心を慰めて、凡ての善き業と言とに堅うし給はんことを。
स स्वयं युष्माकम् अन्तःकरणानि सान्त्वयतु सर्व्वस्मिन् सद्वाक्ये सत्कर्म्मणि च सुस्थिरीकरोतु च।