< コリント人への手紙第二 3 >
1 我等ふたたび己を薦め始めんや、また或 人のごとく人の推薦の書を汝らに齎し、また汝 等より受くることを要せんや。
वयं किम् आत्मप्रशंसनं पुनरारभामहे? युष्मान् प्रति युष्मत्तो वा परेषां केषाञ्चिद् इवास्माकमपि किं प्रशंसापत्रेषु प्रयोजनम् आस्ते?
2 汝らは即ち我らの書にして我らの心に録され、又すべての人に知られ、かつ讀まるるなり。
यूयमेवास्माकं प्रशंसापत्रं तच्चास्माकम् अन्तःकरणेषु लिखितं सर्व्वमानवैश्च ज्ञेयं पठनीयञ्च।
3 汝らは明かに我らの職によりて書かれたるキリストの書なり。而も墨にあらで活ける神の御靈にて録され、石碑にあらで心の肉碑に録されたるなり。
यतो ऽस्माभिः सेवितं ख्रीष्टस्य पत्रं यूयपेव, तच्च न मस्या किन्त्वमरस्येश्वरस्यात्मना लिखितं पाषाणपत्रेषु तन्नहि किन्तु क्रव्यमयेषु हृत्पत्रेषु लिखितमिति सुस्पष्टं।
4 我らはキリストにより、神に對して斯かる確信あり。
ख्रीष्टेनेश्वरं प्रत्यस्माकम् ईदृशो दृढविश्वासो विद्यते;
5 されど己は何事をも自ら定むるに足らず、定むるに足るは神によるなり。
वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते।
6 神は我らを新約の役者となるに足らしめ給へり、儀文の役者にあらず、靈の役者なり。そは儀文は殺し、靈は活せばなり。
तेन वयं नूतननियमस्यार्थतो ऽक्षरसंस्थानस्य तन्नहि किन्त्वात्मन एव सेवनसामर्थ्यं प्राप्ताः। अक्षरसंस्थानं मृत्युजनकं किन्त्वात्मा जीवनदायकः।
7 石に彫り書されたる死の法の職にも光榮ありて、イスラエルの子 等はそのやがて消ゆべきモーセの顏の光榮を見つめ得ざりし程ならんには、
अक्षरै र्विलिखितपाषाणरूपिणी या मृत्योः सेवा सा यदीदृक् तेजस्विनी जाता यत्तस्याचिरस्थायिनस्तेजसः कारणात् मूससो मुखम् इस्रायेलीयलोकैः संद्रष्टुं नाशक्यत,
तर्ह्यात्मनः सेवा किं ततोऽपि बहुतेजस्विनी न भवेत्?
9 罪を定むる職もし光榮あらんには、まして義とする職は光榮に溢れざらんや。
दण्डजनिका सेवा यदि तेजोयुक्ता भवेत् तर्हि पुण्यजनिका सेवा ततोऽधिकं बहुतेजोयुक्ता भविष्यति।
10 もと光榮ありし者も更に勝れる光榮に比ぶれば、光榮なき者となれり。
उभयोस्तुलनायां कृतायाम् एकस्यास्तेजो द्वितीयायाः प्रखरतरेण तेजसा हीनतेजो भवति।
11 もし消ゆべき者に光榮ありしならんには、まして永存ふるものに光榮なからんや。
यस्माद् यत् लोपनीयं तद् यदि तेजोयुक्तं भवेत् तर्हि यत् चिरस्थायि तद् बहुतरतेजोयुक्तमेव भविष्यति।
12 我らは斯くのごとき希望を有つゆゑに、更に臆せずして言ひ、
ईदृशीं प्रत्याशां लब्ध्वा वयं महतीं प्रगल्भतां प्रकाशयामः।
13 又モーセの如くせざるなり。彼は消ゆべき者の消えゆくをイスラエルの子らに見せぬために、面帕を顏におほひたり。
इस्रायेलीयलोका यत् तस्य लोपनीयस्य तेजसः शेषं न विलोकयेयुस्तदर्थं मूसा यादृग् आवरणेन स्वमुखम् आच्छादयत् वयं तादृक् न कुर्म्मः।
14 然れど彼らの心 鈍くなれり。キリストによりて面帕の廢るべきを悟らねば、今日に至るまで舊約を讀む時その面帕なほ存れり。
तेषां मनांसि कठिनीभूतानि यतस्तेषां पठनसमये स पुरातनो नियमस्तेनावरणेनाद्यापि प्रच्छन्नस्तिष्ठति।
15 今日に至るまでモーセの書を讀むとき、面帕は彼らの心のうへに置かれたり。
तच्च न दूरीभवति यतः ख्रीष्टेनैव तत् लुप्यते। मूससः शास्त्रस्य पाठसमयेऽद्यापि तेषां मनांसि तेनावरणेन प्रच्छाद्यन्ते।
16 然れど主に歸する時、その面帕は取り除かるべし。
किन्तु प्रभुं प्रति मनसि परावृत्ते तद् आवरणं दूरीकारिष्यते।
17 主は即ち御靈なり、主の御靈のある所には自由あり。
यः प्रभुः स एव स आत्मा यत्र च प्रभोरात्मा तत्रैव मुक्तिः।
18 我等はみな面帕なくして、鏡に映るごとく主の榮光を見、榮光より榮光にすすみ、主たる御靈によりて主と同じ像に化するなり。
वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।